सामग्री पर जाएँ

सदस्यः:Laxmikanta9

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                       आधुनिकभारते संस्कृताध्यापनस्य महत्वम्


संस्कृतभाषा न तु भारतस्य एव अपितु समस्तविश्वस्य प्राचीनतमा पवित्रतमा सांस्कृतिकभाषा च अस्ति।अस्यां भाषायामेव भारतस्य संस्कृतिः सन्निहिता वर्तते।वेदा अस्यां भाषायां प्राचीनतमाः ग्रन्थाः सन्ति। वेदेषु ज्ञानस्य विज्ञानस्य च प्रायः सर्वे विषयाः समाहिताः दृश्यन्ते।न केवलं भारतस्य अपितु विश्वस्य अनेकासां भाषाणां प्रादुर्भावः संस्कृतादभवत्।अस्माकम् ऋग्वेदःविश्वस्य प्रचीनतमं ग्रन्थरत्नमस्ति इति पाश्चात्यविद्वासः मेक्समुल्लर् कीथ् प्रभृतयः अपि स्वीकृतवन्तः।संस्कृतभाषा प्राचीनार्यभाषाणां जननी द्रविडभाषाणां पोषयित्री च इति अभिधीयते। विश्वस्य प्रत्यकं भागात् ज्ञानपिपासवः जनाः अस्माकं देशे प्रतिभाशालीनां पण्डितानां सकाशां शिक्षाग्रहणार्थमागच्छन्ति स्म।मनुस्मृतौ उल्लिखितमस्ति।

                  एतद्देशप्रसूतस्य सकाशादग्रजन्मनः।
                  स्वं स्वं चरित्रं शिक्षरेन् पृथिव्यां सर्वमानवाः।।

प्रसिद्धकविदण्डिना स्वकीयकाव्यादर्शनाम्नि ग्रन्थे उक्तम्- इदमन्धतमः कृत्स्नं जायते भुवनत्रयम्।

यदि शव्दाह्वयं ज्योतिरासंसारं न दीप्यते।।(काव्यादर्शः 1.4)

यदि शव्दज्योतिः विश्वे न श्यात् तर्हि सम्पुर्णविश्वम् अज्ञानमयं भवेत् तस्मात् कविना साधूत्कं शव्दज्योतिषा विश्वमिदं दीप्यते इति। बृहदारण्यकोपनिषदि उल्लिखितमस्ति –“वाग्वै सम्राटपरं ब्रह्म इति”। जर्मनदेशीयविद्वान् शूपनहायमहोदयः कथयति-

                   “उपनिषदानामध्ययनं मह्यं वास्तविकशानितिकारणम् अभवनत्।
                    (इमे)मृत्यूपरान्तमपि मह्यं शान्तिदायिका भविष्यति” इति।।

पण्डितनेहेरुमहोदयः-उदघोषयत् “यत् ये जनाः भारतीयसंस्कृतिनिष्ठरामायणमहाभारतादीनि ग्रन्थरत्नानि न पठिष्यन्ति ते भारतीयानां भारतस्य वा विषये किमपि ज्ञातुं न शक्नुवन्ति “इति। महाभारते उक्तम्-“यत् इह नास्ति तत् कुत्रापि नास्ति “इति।अनेन एव कारणेन पाश्चात्यविद्वासः अपि संस्कृतस्य अध्ययनं कृत्वा स्वकीयं जीवनं धन्यं मन्यते।आङ्गलविद्वांसः काशीं गत्वा तत्र पण्डितानांसाहाय्येन हिन्दुधर्मशास्त्राणाम् अनुवादम् आङ्गलभाषायां चक्रुः।ते अनुदितग्रन्थानां दृष्टवा चकिता आसन्।आधुनिककाले संस्कृतस्य अध्ययनम् अध्यापनं,शोधकार्यं,प्रकाशनं प्रायः दर्मनदेशस्य सर्वेषु विश्वविद्यालयेषु प्रचलति।अन्य यूरोपअमरीका-फ्रान्स,चीना,जापान्,रुस्,थाईलेण्डादिनामान्येषां देशानां (केषुचित्)विश्वविद्यालयेषु संस्कृतस्य अध्ययनम्,अध्यापनं प्रचलति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Laxmikanta9&oldid=449294" इत्यस्माद् प्रतिप्राप्तम्