सामग्री पर जाएँ

सदस्यः:Lilabati Rana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                               जनसंख्याशिक्षायाः परिसरः

जनसंख्यानियन्त्रणाय अभिनवपन्थेयं जनसंख्याशिक्षा । अस्याः परिसरः व्यापकः । अस्मिन् विषये ज्ञातुं प्राप्तुं सामाजिकविज्ञान – ग्राम्यार्थनीति – विज्ञान – स्वास्थ्य – सुषमखाद्य – साक्षरता – प्रौढशिक्षादिषु विषयेषु ज्ञानार्जनमावश्यकम् । यतो हि एते जनसंख्याशिक्षा वहुरूपेण प्रभावयति । विभिन्नैः विषयैः सह एषा शिक्षासंबन्धिता । अतः अपराणां विषयाणां शिक्षा दानवेन समवायरूपेण वा अपरैः विषयैः सह अस्याः शिक्षादानं सम्भवम् । जनसंख्यानियन्त्रणकार्यक्रमस्य सफलायने विद्यालयस्य भूमिका‌‌ऽपि श्रद्धेया । अतः जनसंख्याशिक्षायाः परिसरः अधोलिखितैः सह संबन्धितः ।

१. जनसंख्यायाः आकारः –

          एकस्मिन् निर्दिष्टे समये निर्दिष्टे भौगोलिकपरिसीमायां निवसतां मानवानां संख्या एव तन्त्रस्था जनसंख्येति कथ्यते । कस्यापि स्थानस्य जनसंख्यायाः आकारे सर्वदा परिवर्तनं दृश्यते । इदं परिवर्तनं संपृक्तस्थानस्य प्रचलिता प्रथा – सामाजिक – राजनीतिकावस्था – सांस्कृतिकवातावरण – नैतिकमूल्यबोध – परिवारनियोजनोपायानामादृति – स्वास्थ्य भित्तिः भूमिः इत्यादिभिः वैभिन्यं धारयति । एतानि उपादानानि जनसंख्यायाः आकारं नियन्त्रयन्ति । अतः उक्तोपादानानि विश्लिष्य स्थानीयजनसंख्यायाः आकारनिर्धारणे तेषां भूमिकाविषये च स्पष्टावधारणां स्थापयति जनसंख्या शिक्षा ।

२. प्रजननं नश्वरता च –

         जनसंख्यायाः आकारः घटनं च अनयोः परिमाणस्योपरि निर्भरशीलो वर्तते । एतद् भिन्नं विवाह – सामाजिकस्थिति – विवाहविषयकावधारणा – विवाहायु – विवाहप्रथा – वाल्यविवाह – मातुरुपरि शिशोरुपरि च अस्य प्रभाव – शिशुमृत्युहार – मृतशिशुप्रसव – नागरिकाणांक्रयशक्ति – पोषकखाद्यप्राप्ति – चिकित्सासुयोगादिभिः अपि जन्ममृत्युहारः प्रभावितः भवति । अस्माद्धेतोः जनसंख्याशिक्षायाः परिसरे एतेषां विषयाणामन्तर्भावः अस्ति ।

३. जनसंख्यायाः संरचना –

जनसंख्याः संरचना जनसंख्याशिक्षायाः प्रमुखालोच्यः विषयः इति परिगण्यते । जनसंख्यासंरचनायां विभिन्नानां मापनयोग्यगुणानां समावेशः भवति । ते मापनयोग्यगुणाः लिङ्गानुपात – आयु – जाति – नगरवासी – ग्रामवासी कार्यक्षमता – भाषा – वृत्ति – इत्यादयः सन्ति । अतः एतेषामध्ययनेन जनसंख्यासंरचनाविषयकावधारणा स्पष्टीकृता भवति ।

४. नगरीकरणम्-

          कस्मिन्नापि देशे जनसंख्यावितरणस्य प्रमुख प्रमुखाः भागाः नगरीकरणमेव । नगरीकरणं प्रति प्रभावकमुपादानं , संश्लिष्टाः समस्याः , तासां समाधानं च जनसंख्याशिक्षायाः परिसरः मुक्ताः वर्तते ।