सदस्यः:M m jha/प्रयोगपृष्ठम्
अथ शब्दानुशासनम् ।
अथ इति अयं शब्दः अधिकारार्थः प्रयुज्यते । शब्दानुशासनं शास्त्रम् अधिकृतं वेदितव्यम् । केषां शब्दानाम् । लौकिकानां वैदिकानां च । तत्र लौकिकाः तावत् : गौ अश्वः पुरुषः हस्ती शकुनिः मृगः ब्राह्मणः इति ।
वैदिकाः खलु अपि - शं नः देवीः अभिष्टये । इषे त्वा ऊर्जे त्वा । अग्निमीळे पुरोहितम् । अग्ने अयाहि वीतये इति । अथ गौ इत्यत्र कः शब्दः । किं यत्तत् सास्नालाङ्गूलककुदखुरविषाणि अर्थरूपम् सः शब्दः । न इति आह । द्रव्यं नाम तत् । यत् तर्हि तत् इङ्गितं चेष्टितं निमिषितं सः शब्दः । न इति आह । क्रिया नाम सा । यत् तर्हि तत् शुक्लः नीलः कृष्णः कपिलः कपोतः इति सः शब्दः । न इति आह । गुणः नाम सः । यत् तर्हि तत्
भिन्नेषु अभिन्नम् छिन्नेषु अच्छिन्नम् सामान्यभूतं सः शब्दः । न इति आह । आकृतिः नाम सा । कः तर्हि शब्दः । येन उच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययः भवति सः शब्दः । अथ वा प्रतीतपदार्थकः लोके ध्वनिः शब्दः इति उच्यते । तत् यथा शब्दम् कुरु मा शब्दम् कार्षीः शब्दकारी अयम् माणवकः इति । ध्वनिं कुर्वन् एवम् उच्यते । तस्मात् ध्वनिः शब्दः ।
कानि पुनः शब्दानुशासनस्य प्रयोजनानि ।
रक्षोहागमलघ्वसन्देहाः प्रोयोजनम् । रक्षार्थम् वेदानाम् अध्येयम् व्याकरणम् । लोपागमवर्णविकारज्ञः हि सम्यक् वेदान् परिपालयिष्यति । ऊहः खलु अपि । न सर्वैः लिङ्गैः न च सर्वाभिः विभक्तिभिः वेदे मन्त्राः निगदिताः। ते च अवश्यं यज्ञगतेन यथायथं विपरिणमयितव्याः । तान् न अवैयाकरणः शक्नोति यथायथं विपरिणमयितुम् । तस्मात् अध्येयं व्याकरणम् । आगमः खलु अपि । ब्राह्मणेन निष्कारणः धर्मः षडङ्गः वेदः अध्येयः ज्ञेयः इति । प्रधानं च षट्सु अङ्गेषु व्याकरणम् । प्रधाने च कृतः यत्नः फलवान् भवति । लघ्वर्थं च अध्येयं व्याकरणम् । ब्राह्मणेन अवश्यं शब्दाः ज्ञेयाः इति । न च अन्तरेण व्याकरणं लघुना उपायेन शब्दाः शक्याः ज्ञातुम् । असन्देहार्थं च अध्येयं व्याकरणम् । याज्ञिकाः पठन्ति । स्थूलपृषतीम् आग्निवारुणीम् अनड्वाहीम् आलभेत इति । तस्याम् सन्देहः स्थूला च असौ पृषती च स्थूलपृषती स्थूलानि पृषन्ति यस्याः सा स्थूलपृषती । तां न अवैयाकरणः स्वरतः अध्यवस्यति । यदि पूर्वपदप्रकृतिस्वरत्वं ततः बहुव्रीहिः । अथ अन्तोदात्तत्वं ततः तत्पुरुषः इति ।
इमानि च भूयः शब्दानुशासनस्य प्रयोजनानि । ते असुराः , दुष्टः शब्दः , यत् अधीतं , यः तु प्रयुङ्क्ते , अविद्वांसः , विभक्तिं कुर्वन्ति , यः वै इमां , चत्वारि , उत त्वः , सक्तुम् इव , सारस्वतीं , दशम्यां पुत्रस्य , सुदेवः असि वरुण इति । ते असुराः । ते असुराः हेलयः हेलयः इति कुर्वन्तः परा बभूवुः । तस्मात् ब्राह्मणेन न म्लेच्छितवै न अपभाषितवै । म्लेच्छः ह वै एषः यत् अपशब्दः । म्लेच्छाः मा भूत् इति अध्येयं व्याकरणम् । ते असुराः दुष्टः शब्दः । दुष्टः शब्दः स्वरतः वर्णतः वा मिथ्या प्रयुक्तः न तम् अर्थम् आह । सः वाग्वज्रः यजमानं हिनस्ति यथा इन्द्रशत्रुः स्वरतः अपराधात् । दुष्टान् शब्दान् मा प्रयुक्ष्महि इति अध्येयं व्याकरणम् । दुष्टः शब्दः । यत् अधीतम् । यत् अधीतं अविज्ञातं निगदेन एव शब्द्यते अनग्नौ इव शुष्कैधः न तत् ज्वलति कर्हि चित् । तस्मात् अनर्थकं मा अधिगीष्महि इति अध्येयं व्याकरणम् । यत् अधीतम् । यः तु प्रयुङ्क्ते । यः तु प्रयुङ्क्ते कुशलः विशेषे ।