सदस्यः:Mack fire/प्रयोगपृष्ठम्
कालिदासः कालिदासः {Kālidāsa} '-' कालः क्रि. श. जन्मस्थानम् मरणस्थानम् भाषा संस्कृतम् विभागः पद्यम् / नाटकानि काव्यनामः आश्रयदाता विक्रमादित्यः / भोजराजः आवासस्थानम् उज्जयिनी प्रमुख कृतयः {{{प्रमुख कृतयः}}} पिता माता पुत्रः साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत् – जम्बूफलानि पक्वानि पतन्ति विमले जले । कपिकम्पितशाखाभ्यः गुळुगुग्गुळु गुग्गुळु ॥ इति ॥ एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥ भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥ रघुवंशं कुमारसंभवम् इति द्वे महाकाव्ये मेघसन्देशः ऋतुसंहारः इति द्वे खण्डकाव्ये मालविकाग्निमित्रं विक्रमोर्वशीयम् अभिज्ञानशाकुन्तळं चेति त्रीणि नाटकानि श्यामळादण्डकं श्रुतबोधः अनेकमुक्तकश्लोकाः इति च सन्ति कालिदासस्य कर्तृत्वेन प्रसिध्दाः । तथापि कुमारसम्भवं मेघसन्देशं अभिज्ञानशाकुन्तलं च सहृदयहृदये विषिष्टं स्थानम् आवहति वैदेशिकेष्वपि कालिदासप्रतिष्ठा सुप्रतिष्ठिता इति सम्माननम् अस्ति अभिज्ञानशाकुन्तलस्य । जर्मन् कविः श्रीयुतगेथे वदति – वासन्तं कुसुमं फलं च युगपदग्रीष्मं च सर्वं च यत् यच्चान्यन्मनसो रमायनमतः सन्दर्पणं मोहनम् । एकीभूतमभूतपूर्वमथवा स्वर्लोकभूलोकयोः ऐश्वर्यं यदि वाञ्छसि प्रियसखे शाकुन्तमं सेव्यताम् ॥ इति ॥ इन्ट्यन् षेक्स्पियर् कालिदासः इति केनाप्युक्तम् श्रुत्वा मम गुरुः वदति स्म – न तथा वक्तव्यं षेक्स्पियर् पाश्चात्यकालिदासः इत्येव वक्तव्यमिति । तावत् कालिदासस्य महत्वम् अस्त्येव ॥ कालिदासकवेः सर्वासां कृतीनाम् आन्तरिकं तत्त्वम् एकमेव । तत्तु एष एव यः पूज्यपूजाव्यतिक्रमो पापाय इति श्रुतिसारांशः । रघुवंशे दिलीपस्य कामधेनुविषयकः पूज्यपूजाव्यतिक्रमः आरम्भे एव । अन्ततो गत्वा अग्निवर्णस्य पुज्यराजधर्माचारादि व्यतिक्रमश्च । कुमारस्अम्भवे शिववाक्यपूजां न कृतवती सती योगविसृष्टदेहा पार्वतीरुपेण जाता । तपः कृत्वा दासरुपेण शिवं प्राप्यापि विवाहविषये विधिक्रमं अनुसृतवती इति जगज्जननी च अभवत् । कामः तु पूज्यपूजां न कृतवान् इति दग्धश्च । मेघसन्देशे पूजाकर्तव्यतः प्रमत्तः यक्षः कान्ताविरहगुरुणा दुःखेन पीडितः अभवत् । अभिज्ञानशाकुन्तले पूज्यतातकण्वस्य स्मरणां विना आचारमर्यादाम् उल्लङ्घ्य् दुष्यन्तस्वीकारेणा शकुन्तलया कष्टमनुभोक्तव्यम् आपतितम् । अपि च अतिथेः पूज्यदुर्वाससः पूजाम् अकृत्वा शापपात्रम् अभवत् सा । तस्य परिणाम एव शाकुन्तलं नाटकम् । एवं कालिदासकृतिषु सर्वत्र एतत् द्रष्टुं शक्यते एव ॥ कालिदासः सरलया आत्मार्थयुक्तया गिरा एव कार्यं साक्षाद्वदति स्म । अक्षरप्रासश्लेषादिकप्राप्तेः पाण्डित्यप्रकटनस्य च लाञ्छनापि तत्र द्रष्टुं न शक्यते । स्वतस्सिध्दभावना सूक्ष्मस्वभाववर्णनाचातुर्य्ं प्रकऋतिप्रेम अनिवार्यसन्दर्भेषु अलङ्कारादिप्रयोगः इत्यादि कालिदासस्य इतरभिन्नं वैशिष्ट्यं भवति । उपमालङ्कारप्रयोगे कालिदाससमानः अन्यः न इति कृत्वा उपमा कालिदासस्य इति उक्तिः अपि जाता । दीपशिखा कालिदासः इति सहृदयमण्डलं कालिदासम् आह्वयति चेत् तस्य कारणम् इन्दुमतिस्वयंवरस्य उपमा एका खलु ॥ एवं चिन्तयति चेत् कालिदासवर्णनायाः निमित्तमं सहस्रजिहवाः अपर्याप्ताः भवन्ति । येन प्रयोगेण शब्दः सार्थकः सफलः च भवति सः प्रयोगः कविकुलगुरुसार्वभौमः कालिदासः इति ननु ॥ महाकविः कालिदासः संस्कृतसाहित्यस्य ध्रुवनक्षत्रं, विश्वसाहित्यस्य गौरीशिखरः, विश्ववाङ्मये सर्वोत्कृष्टः कविरिति प्रथितः । कविकुलगुरुः, कविचक्रवर्ती इत्यादिरीत्या प्रख्याति प्राप्तोऽपि कालिदासः कस्मिन् समये प्रदेशे च जन्म प्राप्तवान् इति अद्यापि विवादग्रस्त एव विद्यते । अस्य जीवनविषये लिखितप्रमाणाभावेन निश्चितरूपेण किमपि वक्तुं न शक्यम् ।