सदस्यः:Madan basavaraj/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

१)

अन्नपूर्णा देवी
जन्मनाम रोशानार खान्
जन्म १९२७
Maihar, भारता
सङ्गीतविद्या Hindustani classical music
वाद्यानि Surbahar
सह-कर्माणि अलाउदिन् खान् , अलि अक्भर् खान्, रवि शन्कर्




२)

Bold text

अन्नप्राशनस्य चित्रम्

अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।

व्युत्पत्तिः[सम्पादयतु]

अन्नस्य प्राशनं भोजनं यस्मिन् तत्। अन्न + प्र + अश + भावे ल्युट्।

अर्थाः[सम्पादयतु]

षष्ठे मासि अष्टमे वा बालकस्य पञ्चमे मासि सप्तमे वा बालिकायाः प्रथमान्नभक्षणरूपसंस्कारः।
अवलम्बः स्मृतिः॥

तस्य क्रमः। शोभनदिने कृतस्नानः कृतवृद्धिश्राद्धः पिता शुचिनामानमगि्न ंसंस्थाप्य
विरूपाक्षजपान्तां कुशण्डिकां समाप्य प्रकृतकर्मारम्भे प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ
हुत्वा महाव्याहृतिहोमं कुर्यात्। ततः आज्येन तत्तन्मन्त्र्ौ पञ्चाहुतीर्जुहुयात्। ततः पञ्चप्राणानां होमः।
ततो महाव्याहृतिहोमं कृत्वा प्रादेशप्रमाणां घृताक्तां समिधं तूष्णीमग्नौ हुत्वा प्रकृतं कर्म समाप्य
उदीच्यं शाट्यायन होमादिवामदेव्यगानान्तं कर्म निर्वर्त्य मन्त्र्ोण कुमारस्य मुखे अन्नं दद्यात्।
ततः कर्मकारयितृब्राह्मणाय दक्षिणां दद्यात्।
अवलम्बः भवदेवभट्टः॥ तस्य विहितदिनादि यथा-

उद्धरणम्[सम्पादयतु]

"ततोऽन्नप्राशनं षष्ठे मासि कार्यं यथाविधि।
अष्टमे वाथ कर्तव्यं यद्वेष्टं मङ्गलं कुले"॥
षष्ठ इति मुख्यः कल्प प्रागुक्तन्यायात्। कृत्यचिन्तामणौ।
"अन्नस्य प्राशनं कार्यं मासि षष्ठेऽष्टमे बुधैः।
स्त्रीणान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः॥
द्वादशीसप्तमीनन्दारिक्तासु पञ्चपर्वसु।
बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम्"॥
भुजबलभीमे।
"षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौ
सौम्यादित्यसितेन्दुजीवदिवसे पक्षे च कृष्णेतरे।
प्राजेशादिति पौष्णवैष्णवयुगैर्हस्तादिषट्कोत्तरै-
राग्नेयाप्पतिपित्र्यभैश्च नितरामन्नादिभक्षं शुभम्"॥
युगैरिति प्राजेशादौ प्रत्येकं सम्बध्यते। तथात्रापि तिथ्यादिविद्धमृक्षं-विवर्जयेत्।
"वृषद्वन्द्वधनुर्म्मीनकन्यालग्नेऽन्नभक्षणम्।
त्रिकोणाष्टकयूकान्त्यग्रहा यद्वत्तथाफलम्॥
दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽन्नभक्षणे"।
मार्कण्डेयः।
"देवता पुरतस्तस्य पितुरङ्कगतस्य च।
अलङ्कृतस्य दातव्यमन्नं पात्र्ो च काञ्चने॥
मध्वाज्यकनकोपेतं प्राशयेत् पायसं ततः।
कृतप्राशनमुत् सङ्गे मातुर्बालन्तु तं न्यसेत्॥
देवाग्रतोऽथ विन्यस्य शिल्पभाण्डानि सर्वशः।
शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम्॥
प्रथमं यत् स्पृशेद्बालः शिल्पभाण्डं स्वयं तथा।
जीविका तस्य बालस्य तेनैव तु भविष्यति"॥
अवलम्बः ज्योतिस्तत्त्वम्॥

विधिः[सम्पादयतु]

मदनरत्ने नारदः -

षष्ठे वाप्यष्टमे मासि पुंसां स्त्रीणां तु पंचमे । सप्तमे मासि वा कार्यं नवान्नप्राशनं शिशोः ॥

तत्प्रयोगः[सम्पादयतु]

पिता सपत्नीकः कृताभ्यंगस्नानः आचम्य देशकालौ स्मृत्वा ममास्य शिशोर्बींजगर्भसमुद्भवैनोविनाशद्वारा बलायुर्वर्चोभिवृद्ध्यर्थं अन्नप्राशनाख्यं कर्म करिष्ये । ( अत्रैव सह तंत्रेण निष्क्रमणोपवेशनकरणपक्षे पूर्वमुभयोः पूर्वोक्तसंकल्पौ कृत्वा ततोऽन्नप्राशनसंकल्पः ) तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य गणेशपूजनादिनांदीश्राद्धांतं कृत्वा पीठे प्रतिमासु पूगीफलेषु वा नाममंत्रैर्देवताः स्थापयेत् ।

यथा - इंद्राय नमः इंद्रमावाहयामि । ( एवमग्रेपि ) अग्नये न० यमाय न० निऋतये० वरुणाय न० वायवे० सोमाय० ईशानाय० आकाशाय० भूम्यै० चंद्राय० सूर्याय० वासुदेवाय० गगनाय० वराहाय० पृथिव्यै नमः पृथिवीमावाहयामि एवं संस्थाप्य तथैव तत्र - ब्रह्मणे न० शंकराय न० विष्णवे० कुलदेवतायै० प्राच्यै० अग्नेय्यै० दक्षिणायै० नैऋत्यै० प्रतीच्यै० वायव्यै० उदीच्यै० ईशान्यै न० । इत्यावाह्य इंद्राद्यावाहितदेवताभ्यो नमः इति षोडशोपचारैः संपूज्य पूर्वोक्तप्रकारेण शंखादिमंगलनिस्वनैः सूर्याद्यवलोकनादिप्रार्थनाश्लोकपठनांतं निष्क्रमणकर्म कृत्वा ततो देवताग्रे शिशूपवेशनकर्म प्रागुक्तप्रयोगप्रकारेण कृत्वा अन्नप्राशनं कुर्यात् । अत्र होमः कृताकृतः । होमपक्षे उपवेशनकर्म कृत्वा अद्येत्यादि० अस्य शिशोः अन्नप्राशनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिले शुचिनामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्दृयमादाय देशकालौ स्मृत्वा क्रियमाणे अन्नप्राशनहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानं - अग्निं इंद्रं प्रजापतिं विश्वेदेवान् ब्रह्माणं च एता देवता एकैकयाऽऽज्याहुत्या यक्ष्ये शेषेणेत्यादि होमं सामाप्यान्नं प्राशयेत् । तद्यथा - देवतापुरस्तस्य धात्र्युत्संगगतस्यालंकृतस्य शिशोः प्राड्मुखस्थं कांचने नवे कांस्यपात्रे वा दधिमधुघृतमिश्रमन्नं गृहीत्वा सुवर्णहस्तोऽन्नपात्रात् किंचिदादाय प्राशनं कारयेत् । तत्र मंत्रः - नमोस्त्वन्नपते तुभ्यमस्य बालस्य संततम् । तेजः पुष्टिं श्रियं चान्नं देह्यारोग्यायुषी बलम् ॥ इति मंत्रेण प्राशयित्वा तांबूलं दत्त्वा तदग्रे रत्नमणिभाजन - हेमभाजन - पुस्तक - शस्त्र - वस्त्र - शिल्पादीनि निधाय यब्दालः स्वेच्छया स्पृशेत्साऽस्य जीविकेति परीक्षेत् । ततो द्विजान्संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यथाशक्ति ब्राह्मणेभ्यः आमान्नानि दत्त्वा कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥

॥ इति कृत्यदिवाकरेऽन्नप्राशनप्रयोगः ॥

बाह्यसंपर्कः[सम्पादयतु]

can't use in sandboxषोडशसंस्काराः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]




३)


मीमांसकेषु कुमारिलभट्टप्रभृतयः अभिहितान्वयवादं प्रभाकरादयश्च अन्विताभिधानवादं स्वीकुर्वन्ति । तत्र तावत् अन्विताभिधानवादेऽस्मिन् अभिधाशक्त्या न केवलं पदार्थस्य उपस्थितिर्भवति, अपितु अन्वितपदार्थस्यैव अभिधया उपस्थितिः भवति। अर्थात् पदानि अन्वितानि भवन्ति । पश्चद् विशिष्टमर्थं कथयन्ति । अतः अस्मिन् खलु तात्पर्यशक्तेः न काप्यावश्यकता। अन्विताभिधानवादिनः प्राभाकरमीमांसकस्य मतेतु वाच्य एव वाक्यार्थः। तस्यायमभिप्रायः –’देवदत्त ! गामानय’ इत्यादिवृद्धप्रयुक्ते तादृशव्यक्तिसञ्चारे मध्यमवृद्धप्रवृत्तिं दृष्ट्वा बालोऽपि तस्य वाक्यस्य तदर्थबोधकतामनुमाय ‘गाम् आनय’ ‘अश्वमानय’ इत्यनन्तवाक्यप्रयोगाद् गवापसारणे अश्वानयने च प्रवृत्तिं दृष्ट्वा अन्वयव्यतिरेकाभ्यां कारकपटस्य क्रियापदार्थान्वितक्रियायां च शक्तिमवधारयति। ततश्च प्रयोगकाले तस्य बालस्य प्रथमतः एवान्वितबुद्धिर्जायते।
अन्विताभिधानवादे सङ्केतग्रहणानन्तरमेव पदेभ्यः पदार्थबोधो भवति । बालः ‘घटमानय’ इति अखण्डवाक्येन अखण्डार्थं (घटाहरणरुपमर्थं) लभते । पुनरसौ बालः ‘घटमानय, घटं नय’ इत्यादि पौनःपुन्येन व्यवहारमवलोक्य घटपदस्य घटत्वार्थम्,‘आनयपदस्य’ च आहरणमर्थं विजानाति। अतः प्रथमं तु स अखण्डार्थवाक्येन अखण्डार्थकं लभते। अनन्तरं तत्पदस्य अर्थमवधारति। अतोऽत्र पदानां संसर्गः एव कारणम् । ’घटमानय’ इत्यत्र घटाहरणमर्थम्, ‘घटं नय’ इत्यत्र घटत्वनयनमर्थं विलोक्य आनयननयनपदयोः संसर्गेणैव बालः घटपदेन घटत्वरुपार्थमवधारयति । अतः आनयनयनयोः पदयोः अन्वयेनैव पदार्थस्य प्रतीतिः। अत एव ‘वाच्य एव वाक्यार्थः पुनः तात्पर्यार्थः कः? इति ।
परं नेदं विचारसंगतम् । सामान्यर्थस्यः अभिधया बोधोऽपि अन्वयरूप विशेषार्थस्य बोधाय तात्पर्यवृत्तिः स्वीकार्या एव। अन्य़था परस्परान्वयरूपस्य विशेषार्थस्य अशक्त्यत्वाद् अभिधया भानमेव न स्यादिति।

निष्कर्षः[सम्पादयतु]

ये तु अन्विताभिधानवादिनः आहुः “शब्दवृद्धभिधेयांश्च प्रत्यक्षेणात्र पश्यति” इत्यादिकम्। तत्रापि नाभिधेयो व्यङ्ग्य इति निरुप्यते। अयमस्ति तेषां सिद्धान्तो यद् ‘देवदत्त ! गामानय’ इति उत्तमवृद्धवाक्यश्रवणात् मध्यमवृद्धो विशिष्टं व्यापारं करोति इति दृष्ट्वा व्युत्पाद्यमाने निर्विभागार्थे निर्विभागं वाक्यं वाचकं जानाति। ततो ‘यज्ञदत्त ! गां नय, अश्वमानय” इत्यादिवाक्यान्तरप्रयोगे सति अन्वयव्यतिरेकाभ्यां नियतस्य नियतार्थो भविष्यतीति सामान्यावच्छदिते विशिष्टे एव पदार्थे पदानां सङ्केत इत्यन्वितानामेवाभिधानं विशिष्टानां पदार्थता । अत्र पक्षे अभिधायाः लक्षणाविशिष्टस्यैव पदार्थत्वात् । अतः अनन्तरव्याविनि व्यङ्यवोधे कथमभिधेति । एवं सति अलङ्कार शास्त्रदृष्ट्या अथिहितान्वयवादे, अन्विताभिधानवादे च न तावात् भेदः लक्ष्यते।

can't use in sandboxमीमांसादर्शनम्]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]



४)

अपावर्तनम्

समतलेषु प्रकाशस्य अपवर्तनम्[सम्पादयतु]

जलस्य अपावर्तनम्

अपवर्तन तस्य च नियमाः (Refraction and its Laws)[सम्पादयतु]

अपावर्तनस्य उदाहरणम्

कस्मिश्चिद् समाङ्गिनि माध्यमे प्रवशो सरलरेखायां चलति । किन्तु यहि तस्य मार्गे कश्चिद् अन्यः पारदर्शकमाध्यमः समायाति तर्हि स स्वमार्गात् विचलति । विचलनम् (Deviation) इदं कस्याञ्चिद् दशायाम् अभिलम्बं प्रति कस्याञ्चिच्चवस्थायाम् अभिलम्बाद् दूरं प्रति भवति । प्रकाशस्य विचलनमिदं प्रकाशापवर्तनमित्यभिधीयते यस्मिंश्च माध्यमे किरणो ऽभिलम्बं प्रति साचीभवति स सघनो माध्यमः (Denser Medium) यस्मिंश्च अभिलम्बाद् दूरं प्रति तिरश्चीनो भवति स विरलो माध्यमः (Rarer medium) इत्यभिधीयेते ।

जलतरङ्गेषु अपावर्तनम्

प्रयोगद्वारा प्रकाशापवर्तनं दर्शयितुं शेत्कर्गदं काष्ठफलके सन्निवेश्य तदुपरि शीशकस्य आयताकारम् `अ ब स’ इति गुटकं निधीयते तस्य च एकस्मिन् पार्श्वे `क’ इति `ख’ इति च कीलिकाद्वयं इत्थं सन्निविश्यते यत् `क ख’ इति रेखा `अ ब’ इति तले लम्बरूपा न स्यात् तदनु `द स’ इति द्वितीयात् तलात् शोशकगुटकातः `क’ इति `ख’ इति च कीलिकाद्वयस्य प्रतिबिम्बे दृष्ट्वा तयोरेव ऋजुक्रमे `च’ इति `छ’ इति च कीलिकाद्वयं सन्निवेश्यते । ` अ ब स द’ इति गुटकस्याभितः रेखाः समाकृष्य गुटकम् अपसार्यते । इदानीं `क ख’ इति `अ ब’ इत्यस्य `म’ इति बिन्दुतः `छ च’ इति च `प’ इत्यतः वर्ध्येते तर्हीदं लक्ष्यते यत् `क ख’ इति च छ इति च एकस्मिन् ऋजुक्रमे ने स्तः यद्यपि गुटकातः अभिलक्षणात् ते उभे ऋजुक्रमे प्रतीयेते । गुटकाभ्यन्तरे प्रकाशकिरणः `क म प’ इति मार्गेण चलति गुटकातः बहिः निष्क्रणे भूयः स `च छ’ इति मार्गम् अनुसरति ।` म’ इति `प’ इति चात्र `अ ब’ इति `द स’ इति च तलयोरुपरि ` न म ट’ इति `प ल’ इति च लम्बौ समाकर्षणीयौ । `क म’ इति किरण आपतितकिरणः (incident ray) `म प’ इति च अपवर्तितकिरणः (refracted ray) ` प छ’ इति च निर्गतकिरणः (erergent ray) इत्यभिधीयन्ते । `न म र’ इत्यभिलम्बस्य आपतितकिरणस्य च मध्यवर्ती `क म न ‘ इति कोणः आपतनकोणः (angle of incidence) तथाच अभिलम्बस्य `म प’ इति अपवर्तितकिरणस्य च मध्यवर्ती कोणः `अपवर्तनकोणः(angle of refraction)’ इत्यभिधीयेते । तौ क्रमशः `I’ इति `r’ इति आग्लाक्षराभ्यामयवा `आ’ इति `व’ इत्यक्षराभ्यां प्रदर्श्येते ।

अपवर्तनस्य द्वौ नियमौ स्तः[सम्पादयतु]

भिन्नघनत्वविशिष्टवस्तुद्वये प्रकाशस्य अपावर्तनम्

(१) आपतितकिरणोऽपवर्तितकिरण आपतनबिन्दौ अभिलम्बश्च त्रय एव एकस्मिन्नेव समतले तिष्ठन्ति ।

(२) कस्मैचिद् माध्यमद्वयाय आपतनापर्वतनकोणयोः ज्ययोः निऽपत्तिः सदा नियताङ्केनैकेन तुल्या भवति या प्र्थममाध्यमतः द्विईयमाध्यमस्य अपवर्तनाङ्क (refractive index ) इति नाम्नाभिधीयते तञ्च (म्यू) इति ग्रीकाक्षरेण प्रदर्श्यते ।

वायुना शीशकस्य अपवर्तनाङ्कः वा शी = ज्या L क् म न/ ज्या L प म र = ज्या आ/ ज्या वा ; (वा= वायुः/ शी= शीशकम्) यदि चेद् `म’ इत्येतं केन्द्ररूपेण प्रकल्प्य केनापि अर्द्धव्यासेन वृत्तमेकम् आकृष्यते यत्र च वृत्तिमिदं `क म’ इत्यापतितं किरणं “ म प ‘ इत्यपवर्तितकिरणञ्च छिन्द्यात् ताभ्यां `य’ इति `ग’ इति च बिन्दुभ्यां `न र ‘ इत्यभिलम्बए `य र’ इति `ग घ’ इति च लम्बौ क्रियेतां तर्हि :- शीशकस्य अपवर्तनाङ्क, वा शी = ज्या L क म न/ ज्या L ग म घ य र , य म / ग घ , ग म = य र/ ग घ

पृथक्- पृथक् त्रीणि अधिकान् वा आपतितकरिणान् आदाय प्रयोगस्यावृत्तिं कृत्वा साध्यञ्चेदं यत् प्रत्येकावस्थायां `वा, शी’ इत्यस्य मानं स्थिरं भवति । अनेन अपवर्तनस्य द्वितीयः नियमः परीक्ष्यते । प्रथमो नियमः सर्वथा स्पष्टः यतः आपतितः किरणः अपवर्तितः किरणः अभिलम्बश्च त्रय एव कर्गदतले सन्ति । यदि चेद् कस्यचिद् द्रवस्य अपवर्तनाङ्क उपर्युक्तविधिना उपलम्ब्यः स्यात् तर्हि द्रवं शीशकस्य आयताकारपात्रे सम्पूर्य शीशकगुटकस्य स्थाने तस्योपयोगः क्रियते । २) अपवर्तनस्य हेतोः सघनमाध्यमिकानि वस्तूनि अल्पान्तराले विरलमाध्यमनिकानि च वस्तूनि अधिकविप्रकृष्टे प्रतीयन्ते ।

सघनमाध्यमः (denser medium)[सम्पादयतु]

कल्पनीयं यत् `क’ इति कश्चिद् बिन्दुः यस्माभितः `अ ब स द’ इति शीशकमयः माध्यमोऽस्ति । `क’ इति बिन्दुतः गच्छन्त्यौ `क ग’ इति क घ’ इति च द्वौ किरणौ आदीयेते यौ वायौ आगमनानन्तरं `ग फ’ इति घ प इति च मार्गाभ्यां निर्गच्छतः । यदि उभावेतौ किरणौ श्चभागे वर्धेते तर्हि उभौ `ख’ इति बिन्दौ मिलतः । अतएव `ख’ इति तु `क’ इत्यस्य बिन्दोः प्रतिबिम्बं भवति । `घ’ इति बिन्दौ `न घ च’ इत्यभिलम्बः आकृष्टः । यदि चेद् किरणस्य दिग् वायुतः शीशकं प्रति गृह्यते तर्हि आपतनकोणः ।

सघनमाध्यमे अपावर्तनम्

I = आ =L पघ न = L घ ख ल अपवर्तनकोणश्च -

R = व = L च घ क = L घ क ल

अपवर्तनाङ्कः = ज्या आ/ ज्या व

= ज्या L घ ख ल/ ज्या L घ क ल

= घ ख / घ ख --ल घ / क घ = क ख/ ख घ

यदि `घ’ इति बिन्दुः `ल’ इत्यस्य अत्यभ्याशे गृह्यते तर्हि कघ= कल तथाच ख घ = ख ल

अपवर्तनाङ्कः = क ल / ख ल = जलस्य वास्तविकं गभीरत्वम्/ जलस्य आभासिकं गभीरत्वम्

यतः सघनमाध्यमकृते इति १ इत्यस्माद् अधिको भवति अतएव `ख ल’ इति दैर्घ्य `क ल’ इत्यस्मात् न्यूनं भवति ।

विरलः माध्यमः[सम्पादयतु]

कल्प्यं यत् वायौ `क’ इति कोऽपि बिन्दुरस्ति , स जलाभ्यन्तरादवलोक्यते । `क’ बिन्दुतः चलन्तः किरणाः जलप्रवेशानन्तरम् अभिलम्बं प्रति साचीभवन्ति पश्चभागे च वर्धनात् `ख’ इति बिन्दुतः आगच्छन्तः प्रतीयन्ते । अतएव `क’ इत बिन्दोः प्रतिबिम्बं जले दर्शनात् `ख’ इति बिन्दौ निर्वर्तितं भविष्यति । सघनमाध्यमवत् गणनाकरणात इदं साघयितुं शक्यते यत् वायुतः जलस्य अपवर्तनाङ्कः वा ज = जलतलात् `ख’ इत्यस्यान्तरालम्/ जलतलाद् `क’ इत्यस्यान्तरालम् यतो वायुतः जलस्य अपवर्तनाङ्कः (refractive index)एकस्माद् अधिको भवति । अतएव जलतलात् `ख’ इति प्रतिबिम्बस्यान्तरालं `क’ इत्यस्यापेक्षया अधिकं भविष्यति ।

अपवर्तनस्य कतिपयोदाहरणानि[सम्पादयतु]

(१) यदि चेद् उपरिष्टात् नद्याः तलम् अवलोक्यते तर्हि सरितः गभीरत्वम् अल्पं प्रतीयते । अस्मादेव हेतोः जलपूर्णस्य बाल्टीनामकस्य जलपात्रस्य तलमपि उद्गतं प्रतीयते ।

(२) एकस्य चषकस्य्स् तलप्रदेशे काचिद् रजतमुद्रा निक्षेप्या ततश्च एतावदुदूरे स्थातव्यं यत् मुद्रायाः सम्यगर्दर्शनं न भवेत् । ततः चषके जलं पूरणीयं इत्थं मुद्रावलोकनं प्रारभ्यते । १७.४ इति चित्रमवलोक्य मुद्रादर्शनस्य कारणं निर्देश्यम् ।

(३) अपवर्तनस्य कारणात् पृथिव्याः क्षितिजादधः स्थितावपि सूर्यः नक्षत्राणि च दृश्यन्ते । पृथिव्याः निकटवर्तिनः समीरावरणं गुरु ऊर्ध्व वर्ति चाववर्ति चावरणं लघु भवति । अतएव `स’ इति कुतश्चिद् क्षितिजादधोबर्तिनः नक्षत्राद् आगन्तुकः किरणः अभिलम्बं प्रति चक्रीभवन् गच्छति नेत्रं च सम्प्राप्य `स२’ इत्यत आगच्छन् प्रतीयते । अतएव अपवर्तनहेतोः नक्षत्रस्य दर्शनात्मिकोच्छितर अधिका भवति ।

अस्मादेव कारणात् वायुमण्लसत्तया प्रातःकाले सूर्यः किञ्चित्पूर्वं दृश्यते सायञ्च किञ्चिदविमम्बेन तिरोहितो भवति । अनेन दिवसस्य दैर्ध्यं सप्त अष्टौवा मिनट पर्यन्तम् अधिकं भवति ।

(४) यदि प्रातः काले उदीयमान आदित्योऽवलोक्यते तर्हि स विशालः प्रतीयते पूर्णतया च वृत्ताकारो न दृश्यते अपितु ऊर्ध्वधरव्यासोऽल्पः प्रतीयते । यतः अपवर्तनकारणात् ऊर्ध्वाधरव्यासस्य अधोभाग ऊर्ध्ववर्तिभागापेक्षया अधिकोर्ध्वम् उद्गच्छति । परन्तु क्षैतिजव्यासस्य उभे शीर्षे तुल्ये उद्गच्छतः ।

प्रकाशापवर्तनस्य हेतोः सूर्यस्य क्षैतिजव्यासात् नेत्र निष्पतन्तः किरणाः अधिकदीर्घात् व्यासाद् आगच्छन्तः प्रतीयन्ते । यथा १६.७ चित्रे प्रदर्शिताः ।

(५) अपवर्तनकारणात् तारकाः टिमटिमायमानाः प्रतीयन्ते । वायुमण्डले तापभिन्नतया विभिन्नघनत्वीयस्य वायोर् आवरणानि चलन्ति । अतएव कुतश्चिद् तारकाद् आगन्तुकाः किरणाः अपवर्तनकारणात् वायौ कदाचिद् अल्पं कदाचिच्च अधिकं वक्रभवन्ति । यदि चेद् तारको दृश्येत तर्हि तस्य प्रकाशो नेत्रे कदाचिद् अधिकः कदाचिच्चाल्पः प्रतीयते । अतस्तारकः टिमटिमायमानः (twinkling) प्रतीयते ।

कति पयमाध्यमानां समान्तरेभ्यः फलकेभ्यः प्रकाशस्यापवर्तनम्[सम्पादयतु]

कल्प्यं यत् कश्चिद् किरणः वायुतः चलित्वा जलस्य काचस्य च समान्तराभ्यां फलकाभ्यां निर्गत्य पुनः वायौ एव निष्क्राम्यति । १६.८ इति चित्रे प्रदर्शितम् ।

यदि चेद् प्रथमे माध्यमे `अ१’ इति आपतनकोणः द्वितीये माध्यमे`व१’ इत्यपवर्तनकोणः तृतीये माध्यमे `व२’ इति पुनश्च वायौ `व३’ इति स्यात् तर्हि ।

१ µ २ = ज्या अ१/ज्या व१

इत्यमेव २ µ ३ = ज्या व१/ज्या व२

तथा च१ µ १ = ज्या व२/ज्या अ१

१ µ २ * २ µ ३* ३ µ१ = ज्या अ१/ज्या व१ * ज्या व१ / ज्या व२ * ज्या व२ / ज्या अ१

यदि चेद् आरम्भिकोऽन्तिमश्च माध्यमः एक एव स्यात् तर्हि कुतश्चित समान्तराद् संयुक्ताद् (Compound )फलकाद् निस्सरन् किरणः स्वकीयपूर्वदिशः समान्तरभावेनैव निर्गच्छति । अतएव अन्तिमात् फलकात् निर्गमनसमये किरणस्य निर्गमनकोणः व३ इति प्रारम्भिकफलकस्य `अ१’ इत्यापतनकोणेन तुल्यो भवति ।

१ µ २ * २ µ३ = १/३ µ१

किन्तु १/३ µ१ = २ µ३

१ µ३ = १ µ२*२ µ३

समीकरणेनानेन यदि कुतश्चिदेकस्मात् माध्यमात् द्वितीयस्य द्वितीयाच्च् तृतीयस्य अपवर्तनाङ्को दत्तः तर्हि प्रथममाध्यमेन तृतीयस्य अपार्तनांक उपलब्धुं शक्यते । उदाहरणम् - वायोः जलस्य च, अपवर्तनाङ्क १.३३ वायोश्च सीसकस्य अपवर्तनाङ्क १.५ इत्यस्ति तर्हि सीसकस्य अपवर्त्तनाङ्क उपलभ्यः ।

ज शा= जलात् शीशकस्य अपवर्तनाङ्क ( ज= जलम्, वा= वायुः ,शी=शीशकम्)

ज वा= जलात् वायोरपवर्तनाङ्कः

वा शो =वायोः शीशकस्य्स् च अपवर्तनाङ्कः

ज शो = १/ वा ज *वा शी

१/१.३३* १.५०= १५०/१३३=१.१२ प्रायेण

can't use in sandboxभौतिकविज्ञानम्]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]





५)


अत्रिमुनिः एतस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः, ब्रह्ममानसपुत्रः च । एतस्य पुत्री एव अपालाअत्रिः कञ्चित्कालं ब्रह्माधिकारे स्थित्वा, मन्त्रद्रष्टारः आसीत् इत्यनेन सः अपालायै सर्वविधं मन्त्रोपदेशं कृतवान् आसीत् । सा स्त्रीः ऋषिः आसीत्, ब्रह्मविद्यां ज्ञातवती आसीत्, ब्रह्मवादिनी च आसीत् । कालान्तरेण अत्रिः तस्याः विवाहं कृतवान् । पत्युः गृहे एतस्याः चर्मणः कथञ्चित् दोषः अभवत् । तस्य किमपि सन्तानं नाभवत् । एषा प्रजनन सामर्थ्येन विना रोगग्रस्ता जाता । अतः तस्याः पतिः तां त्यक्तवान् । एवं विना पालकैः एषा अनाथा जाता (अपाला इत्युक्ते पालकरहिता अनाथा इत्येव अर्थः) । (चर्मरोगः अस्ति इत्यनेन एतया सह विवाहं कर्तुं कोऽपि अग्रे नागतवान् इत्यपि कृष्णयजुर्वेदस्य श्रीहरिदत्ताचार्यस्य व्याख्यानमस्ति)

परिहारार्थं तपोमार्गः[सम्पादयतु]

स्वस्य इन्द्रियशैथिल्यस्य, वन्ध्यायाः, चर्मरोगस्य च परिहारार्थं तया तपः आचरणीयमासीत् । अतः सा पितुः गृहं प्रत्यागतवती । आरम्भे पिता तां स्वगृहे स्थापयितुं न अङ्गीकृतवान् चेदपि अन्ते आश्रमे एव किञ्चित् पृथक् स्थातुम् अङ्गीकृतवान् । अपाला स्वस्य मनसः आशां पूरीकर्तुं निर्णयं कृतवती । एतस्य रोगस्य परिहारार्थम् इन्द्रम् उद्दिश्य सोमयागं करणीयम् इति चिन्तयित्वा आरम्भे इन्द्रम् उद्दिश्य तपः आचरितवती । यदा तस्याः ज्ञानोदयः अभवत् तदा सोमयागं कर्तुं स्वस्य आनुकूल्यं नास्ति इति ज्ञात्वा दुःखिता जाता । इन्द्रः सोमप्रियः । तेन रसेन विना सः सन्तुष्टः न भवति इति सा चिन्तितवती । कदाचित् सा स्नानं कर्तुं नद्याम् अवतरितवती । तदा पादस्खलनेन जले पतितवती । सा नद्यां प्रवाहिता जाता । तदा तस्याः मरणस्थितिः चेदपि सा स्वस्य मनदाशायाः विषये चिन्तयति स्म । तदा सोमलतायाः खण्डः कश्चित् प्लवन् तस्याः समीपम् आगतः । तस्य रसम् इन्द्राय अर्पयितुम्, अन्यपात्रं नास्ति इत्यनेन स्वस्य मुखे एव चर्वणं कर्तुम् आरब्धवती । सोमकुट्टनं कर्तुं यज्ञोपयुक्तशिलाखण्डाः न सन्ति इति कारणेन स्वस्य दन्ताः एव यज्ञशिलाः इति चिन्तयित्वा चर्वणं कृत्वा मुखे एव रसोत्पादनां कृतवती । एतेन मरणस्थितौ अपि अपाला सोमयागं कर्तुं योग्या आसीत्, यागाय आवश्यकानि साधनानि तस्याः शरीरे एव आसन् इति ज्ञायते । आरम्भे बिन्दुबिन्दुरूपेण, अनन्तरं समृद्धरूपेण इन्द्राय सोमरसम् अर्पणीयम् इति तस्याः आशयः आसीत् । स्वार्थरहितभावनया मम दन्ते दष्ट्वा अपि एषः रसः मम न इति भावः तस्याः आसीत् ।

सोमरसोत्पत्तिः[सम्पादयतु]

सोमलतायाः चर्वणशब्दः सोमयागकाले कुट्टनस्य शब्दः इव इन्द्र श्रुत्वा सः तदा यागमेव इति मत्वा सोमपानार्थम् इन्द्रः एव तस्याः पुरतः प्रत्यक्षः अभवत् । सोमकुट्टनस्य शब्दः श्रूयते, मया किं करणीयम् ? इति इन्द्रः पृच्छति । तदा प्रवहन्ती एव अपाला स्वस्य दुःखमयस्थितिम् उक्त्वा, हे इन्द्रदेव भवता श्रुतः, पत्युः सम्बन्धमेव अदृष्टाया कयाचित् स्त्रिया सोमलतायाः चर्वणशब्दः । तत्र यज्ञकार्यं न चलति चेत् स्वस्मै सोमार्पणम् अपि न भवति इति ज्ञात्वा इन्द्रः ततः प्रस्थातिवान् । तदा अपाला तम् एवं प्रार्थयत् । हे सोम समर्थाय इन्द्राय अर्पणार्थं भवतः चर्वणं कृत्वा रसोत्पत्तिं कृतवती । अनन्तरम् इन्द्रस्य दिशि मुखं कृत्वा सः इन्द्रः वा न वा इति शङ्कया तं प्रार्थयति । हे महापुरुष भवान् एव इन्द्रः इति चिन्तयामि, भवान् मम गृहागमनस्य कृपां करोति चेत् अहं भवते उपायनम् अर्पयामि इत्युक्त्वा सोमरसाय वदति हे सोमरस भवान् आरम्भे किञ्चित् अनन्तरं शीघ्रतया समृद्धतया स्रवित्वा इन्द्राय अर्पितः भवतु इति । पश्चात् जलप्रवाहात् बहिः आगत्य सा इन्द्रम् आश्रमं नयति । पुनः तं तत्र प्रार्थयति । हे वीर इन्द्र सोमपानार्थं भवान् गृहं गृहं गच्छति । मन्त्रपठनेन अर्पितस्य एतस्य सोमरसस्य पानं करोतु । एतेन सन्तुष्टः इन्द्रः तया दत्तं सोमरसं पीत्वा तां पश्यति ।

इन्द्रकृपा[सम्पादयतु]

तदा अपाला स्वस्य कष्टं निवेदयति । हे इन्द्रदेव चर्मदोषयुक्तां मां मम पतिः त्यक्तवान् अस्ति । तथापि भवान् मम मुखे सङ्गृहीतं सोमरसं पीत्वा माम् उद्धृतवान् अस्ति । मम सम्बन्धेन एषः सोमरसः दोषयुक्तः इति भवान् अचिन्तयित्वा भवतः श्रेष्ठत्वं दर्शितवान् अस्ति । एवमेव सा प्रार्थयन्ती गच्छति इन्द्रः अस्मासु शक्तिं पूरयतु । बहुधनं ददातु । पत्या दूरे स्थितायाः मम पतिः सन्निधानं ददातु । एतेन वचनेन सुप्रीतः इन्द्रः हे ऋषिपुत्रि भवती किम् इच्छति पृच्छतु, ददामि इति अवदत् । देव मह्यं वरत्रयं ददातु इति सम्प्रार्थ्य तस्य अनुमत्या एवं वरद्वयम् अयाचत । मम पिता खल्वाटः अस्ति । शिरसः चर्मणः प्रजननसामर्थ्यं नास्ति । अतः तस्य शिरः सकेशं भवेत् । द्वितीयेन वरेण मम पितुः कृषिभूमिः ऊषरम् अस्ति । सा फलवती भवेत् । तथास्तु इति इन्द्रः अदृश्यः अभवत् । तदा सा तृतीयेन वरेण मम जीवनं प्रजननसामर्थ्येन विना निष्प्रयोजकम् अस्ति । मम पत्या एव सन्तानभाग्यम् अनुगृह्णातु इति प्रार्थयत । तदा इन्द्रः तस्य रथस्य चक्रस्य युगस्य च रन्ध्राणां जलेन तां सम्प्रोक्ष्य । पश्चात् तां रान्ध्रेभ्यः प्रवेशय्य शुद्धीकरणम् अकरोत् । त्रिवारम् एवम् आकर्षणसमये त्रिवारमपि तस्याः चर्म क्लप्तम् । प्रथमवारं क्लप्तं चर्म शल्यकण्ठः अभवत् । द्वितीयवारं गृहगोधिका अभवत् । तृतीयवारं सरटः अभवत् । एवं त्रिवारं तस्याः शरीरस्य चर्म गतम् इति कारणेन तस्याः चर्मदोषः परिहृतः । सा सूर्यवत् प्रकाशमानं दिव्यशरीरं, चर्मकान्तिं च प्राप्तवती । एवं रोगग्रस्ता अपाला इन्द्रानुग्रहेण रोगविमुक्ता भूत्वा नववधूत्वं प्राप्य सन्तानशक्तिं, गर्भसाफल्यं च प्राप्तवती । अग्रे पत्या सह पुत्रपौत्रान् प्राप्य,सुखेन जीवितवती । एवम् आपत्काले काचित् स्त्री इन्द्रं प्रार्थयित्वा, तस्य अनुग्रहेण स्वस्य व्यक्तित्वस्य, कुटुम्बजीवनस्य, परितस्य परिसरस्य च दोषान् निवारयित्वा उत्तमजीवनं प्राप्तवती ।

अपालामन्त्रः[सम्पादयतु]

अपालायाः जीवनम् अद्यतने अस्माकं जीवनेऽपि सम्मिलितम् अस्ति । तस्याः शुद्धीकरणस्य विवरणस्य ऋग्वेदस्य मन्त्रान् कन्यावार वायितिः इति मन्त्रान् ऋग्वेदिनः विवाहकाले उपयोजयन्ति । कन्यादानकाले वध्वाः शिरसि लघुयुगस्य आकृतिं वा कदाचित् युगमेव वा स्थापयित्वा तस्य उत्तरदिशः रन्ध्रद्वारा काचित् स्वर्णमालाम् उपरिश्टात् स्थापयित्वा अधः आकृष्य स्वीकृत्य, अपालायाः देहशुद्धीकरणस्य ऋक्संहितायाः ८-९१-१ तः ७ पर्यन्तस्य मन्त्रान् पठित्वा तेन सह एकाग्निकाण्डस्य १-१-१० स्य मन्त्रः

शं ते हिरण्यगं शमुसन्त्वापः
शं ते मिधी भवतु शं युगस्यतृद्मा
शं त आपः शतपवित्रा भवन्तु
अथापत्या तन्वगं सगं सृजस्व ॥

एतेन सुवर्णेन भवत्याः मङ्गलं भवतु । एतेन प्रोक्षितजलेन भवत्याः सुखं भवतु । अत्र स्थापयित्वा निष्कासितस्य गोः बन्धनस्य मेधी नामककाष्ठस्य आकारेणापि भवत्याः शुभं भवतु । पत्युः मया सह सहयोगे भवत्याः शरीरं योजयतु इति वरः वदति । किन्तु एतस्य मन्त्रपठनस्य गूढार्थम् इत्युक्ते मण्डपे उपविष्टवत्यां वध्वाम् कोऽपि दोषः वा इन्द्रियरोगः वा अस्ति चेत्, वध्वाः पितरौ एतं विषयम् अनुक्तवन्तः चेदपि एतेन मन्त्रपठनेन, अपालायाः इन्द्रस्तुतिद्वारा, इन्द्रः वध्वां विद्यमानस्य दैहिकदोषस्य निवारणं कृत्वा गर्भशुद्धिं, प्रजननसामर्थ्यं च अनुगृह्णातु इत्येव अस्ति । युगस्य रन्ध्रे वधूं प्रेषयित्वा निष्कासनं तु असाध्यम् इत्यनेन, तस्याः प्रतिनिधिः इव काचित् स्वर्णमालां मन्त्रसहितस्य दर्भजलेन सह प्रेषयित्वा तां पवित्रं कुर्वन्ति इत्येव एतस्य क्रियायाः अन्तरार्थः ।

अवसानेऽपि आदर्शा[सम्पादयतु]

एतादृशं पवित्रम् इतिहासमेव प्राप्तवती अपाला स्वयं साधनया एव ब्रह्मवादिनी, ब्रह्मज्ञानिनी च अभवत् । एतावत् ज्ञानमस्ति चेदपि शारीरिकलोपेन स्वस्य जीवनं निरर्थकं भवति किल इति सा दुःखिता आसीत् । यदा सा प्रवाहे प्रवहिता तदापि सन्तानक्रियेण विना जीवनं निरर्थकम् इति दुःखेन स्वस्य जीवनमेव सोमयागमिव कृत्वा, इन्द्राय अर्पितवती । नवजीवनयज्ञे परमात्मने स्वस्य आनन्दार्पणेन सर्वं क्षेमम् इति अपाला मरणकालेऽपि कृत्वा दर्शितवती । एवं मानवस्य अर्पणबुद्ध्या तस्य जीवनस्य सार्थकता भवति, एतेन जीवनस्य निरन्तरसन्तानसाध्यमिति, एषः एव ब्रह्मानन्दः इति अपालायाः आख्यायिका दृढीकरोति ।ऋग्वेदस्य अष्टममण्डलस्य ९१ तमस्य सूक्तस्य १तः ७ पर्यन्तस्य ऋचाः एतया एव लिखितम् ।


can't use in sandboxपौराणिकधार्मिकमहिलाः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]





६)

अफ्जल् अल्टानि
मुम्बयी
मुम्बयी


सङ्केतः[सम्पादयतु]

अफ्जल् अल्टानि जनकः- महमद् हुसेन् अल्टानि वासः २७/४ हिल् राक् सोसैटि गृहस्तोम. मुम्बयी

परिचयः[सम्पादयतु]

महाराष्ट्रम् अस्माकं देशस्य प्रमुखं राज्यम्। मुम्बयीनगरं महाराष्ट्र्स्य प्रमुखं नगरम् अस्ति । भारते अधिकजनसंख्यायुक्तेषु नगरेषु एतत् द्वितीयं नगरम् अस्ति । अस्य नगरस्य बहिर्भागे हिल् राक् सोसैटि इत्यस्य सप्तविंशतितमस्य भवनस्य चतुर्थे गृहस्तोमे श्री महम्मद् हुसेन् अल्टानि सकुटुम्बं वसति । तस्य पत्नी श्रीमती रजिया अल्टानि । महम्मद् हुसेन् अल्टानि तावत् आटोरिक्षाचालकः। दम्पती द्वितीयकक्ष्यापर्यन्तं पठितवन्तौ । एतयोः प्रियः पुत्रः अफ्जल् अल्टानि । एषः १९७७ तमवर्षस्य फेब्रवरिमासस्य २० दिनाङ्के जन्म लब्धवान् । सः चतुरैः वचनैः च मातापितरौ सन्तोषयति स्म। २-३-१९८७ तमे दिने श्रीमती रजिया अस्वस्था आसीत् । वैद्यस्य निर्देशानुसारं मात्रे औषधम् आनेतुम् अफ्जल् अल्टानि औषधालयं प्रति गच्छन् आसीत् । समयः सायं पादोनसप्तवादनम् ।

साहसप्रदर्शनम्[सम्पादयतु]

मार्गदीपाः तदानीम् एव प्रकाशयितुम् आरब्धाः। मार्गस्य दीपस्य प्रकाशे एकः बालकः एका बलिका च क्रीडतः स्म । क्रीडन्ती बालिका सन्तोषभरेन धावितवती। अनतिदूरे गर्तः शरावेण पिहितः न आसीत्। । सा तत्र पतिता। प्रायः दूषितजलनिर्गमनालः मार्गमध्ये एव भवति । प्रायः अस्य षट्पादपरिमितं गभीरं, पञ्चपादपरिमितं व्यासयुक्तं भवति नालद्वारम् । जनाः वाहनानि च तस्य उपरि गच्छन्ति । यदि शरावेण न पिहितः चेत् जनाः तन्मध्ये पतन्ति । तद्दिने प्रायः कानिचन वस्तूनि नालमार्गम् अवारोधयन् । नगरसभायाः कर्मकराः शरावं तथैव स्थापयित्वा गृहं गतवन्तः । श्वः आगत्य अग्रिमं कार्यं करणीयम् इति विचिन्त्य शरावं तत्रैव स्थापितवन्तः आसन् । तत्र चतुष्पादौनत्यमितं जलमासीत् । तत्र सा बालिका पतितवती। तस्याः नाम रश्मिता । तया सह तस्याः जनकः श्री एस्. देशमुखः निवसति स्म। सा नववर्षीया आसीत् । रश्मिता यदा नालमध्ये पतिता तदा सः बालकः भीतः । सः गृहं प्रति धावितवान् । एतद् दृष्ट्वा अफ्जल् दुःखितः । हा! बालिका नाले पतिता । सहवर्ती बालकः रक्षणम् अकृत्वा धावितवान् । सा मृता भवेत् । अफ्जलः साहाय्यार्थं आक्रोशनं कृतवान्। परन्तु कोऽपि नागतवान् । विलम्बेन रश्मिता मृता भवेत् इति सः चिन्तितवान् । अधोमुखी सन् नालमुखे पश्यति । तत्र दुर्गन्धः एव घ्रातः तेन । सः काञ्चित् यष्टिकां अन्वेष्टुम् इतः ततः पश्यति । परन्तु यष्टिका न दृष्टा । हस्तं प्रसार्य ताम् उन्नेतुम् इष्टवान् । रश्मिता तावत् नववर्षीया । एषः दशवर्षीयः। प्रायः द्वयोः भारः समानः एव। आधारं विना तस्याः उन्नयनं दुष्करम् एव आसीत् । चिन्तयितुमपि समयः नासीत्। रश्मिता दूषितजले निमज्जिता सती कष्टेन श्वसिति स्म । सः स्वजानुद्वयस्य आधारेण स्वस्य सम्पूर्णबलेन ताम् आकृष्य उन्नीय तटम् आनीतवान् तदा जनाः तत्र आगताः। पूर्वं धावितवतः बालकात् विषयं ज्ञात्वा देशमुखदम्पती अपि तत्र आगतवन्तौ । रश्मितायाः स्थितिं विलोक्य दुःखितौ अभवताम्। अनुक्षणं गृहं नीत्वा शरीरं जलेन शुद्धीकृत्य नूतनं वस्त्रं धारयतः।

पुरस्कारः[सम्पादयतु]

अफ्जलस्य साहसं समय- प्रज्ञां च ज्ञात्वा भारतस्य बालकल्याणमण्डली एतं राष्ट्रसाहसप्रशस्त्यर्थम् चितवती। मातापितरौ तेन आनन्दितौ। अफ्जल् २५-१-१९८८ तमे दिने मातापितृभ्यां सह देहलीं गत्वा प्रधानमन्त्रिणः राजीवगान्धिवर्यस्य हस्ततः प्रशस्तिं स्वीकृतवान् । सः इदानीं (१९८८-८९) वीरदेसायिमार्गे वर्तमानायाः स्वामिमुक्तानन्दप्रौढशालायाः षष्ठकक्ष्यायाः छात्रः । सः विमानचालकः भवेत् इति स्वाशां प्रकटयति ।

""

can't use in sandboxबालपुरस्कारभाजः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः भाषानुबन्धः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]




७)

अब्दुर्रहमान वाहिद
अब्दुर्रहमान वाहिद
अब्दुर्रहमान वाहिद