सामग्री पर जाएँ

सदस्यः:Madhukar gupta/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अर्थनीतिः

अथ इष्टार्थपरिपूर्तये प्रयतन्ते मानवाः । इष्टं प्राप्य सुखिनो भवन्ति । किन्तु तत्‌ सुखं क्षणिकम्‌ । पुनः पुनः सुखेच्छा उद्भवति । सा च इच्छा अमिता । इच्छाशामक साधनन्तु परिमितम्‌ । अपि च आशातर्पकं साधनं उपभोगेन प्रणश्यति । त्यागेन विना भोगः न सिध्यति । इष्टार्थप्राप्तये यः त्यज्यते सोऽर्थः । यतः अपरिमिता आशा परिमितश्च अर्थः अतः तयो स”र्षः । अतः अर्थेच्छयोः समीक रणमेव आर्थिक व्यवहारः । आर्थिक व्यवहारे इच्छा, अर्थः, तृप्तिश्च प्रधानं पात्रं निर्वहति ।

व्यक्ति गतः अयं स”र्षः समाजे आतिसन्कीर्णरू पतां आप्नोति । इत्थं व्यष्टौ यस्स”र्षः सः समष्टौ च समानः अपि च सन्कीर्णः । समाजे उपभोगिनः अधिकाः । उत्पादकाः अल्पाः । अतः भोगानुगुणा उत्पत्तिः दुस्साध्या । अतः उपभोगानुगुणेन उत्पादनस्य परिपालनं आर्थिक समस्या । अत्र द्वयी गतिः । उपभोगतुल्या उत्पत्तिः भवेत्‌ । अथवा उत्पत्तेः अनुगुणः उपभोगस्यात्‌ । उत्पत्तेर्वर्धनेन उपभोगस्य न्यूनीक रणेन वा एषा समस्या परिहरणीया ।

अस्याः आर्थिक समस्यायाः परिहरणे भारतीयार्थनीतिः अनुपमं उपायं सूचयति । उत्पत्तेर्वर्धनं भारतीयानामपि सम्मतम्‌ । उपभोगिनां न्यूनीकरणन्तु जीवविरोधि अमानवीयञ्च । अतः उपभोगस्य तनूक रणं एव वरं इति उपभोगनियन्त्रणनीतिं उपदिशति भारतीयम्‌ अर्थशास्त्रम्‌ । अतः भारतीयानां अर्थनीतेः आधारः इच्छायाः नियन्त्रणमेव । इन्द्रियदन्तिनः विषमयिनः प्रकीर्णविषयारण्ये धावन्तः सन्ति । ज्ञानान्कुशेन तं वशं कुर्वीत । मनसि जिते जितो भवति । मनसः नियन्त्रणं कर्तुं अशक्तः यः सः स्वतः अशक्तः । अतः मनोनिरोधाधारेण या अर्थनीतिः समुद्भूता सा अत्र प्रस्तूयते । अत्र अर्थनीतिपदस्य अर्थव्याप्तिः प्रथमतः ज्ञेया । तथा च शुक्र नीतिसारे श्रूयते

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनम्‌ ।

ज्ञानान्कुशेन कु र्वीत वशमिन्द्रियदन्तिनम्‌ ।।

विषयामिषलोभेन मनः प्रेरयतीन्द्रियम्‌ ।

तन्निरुध्यात्‌ प्रयत्नेन जिते तस्मिन्‌ जितेन्द्रियः ।।

एक स्यैव हि योऽशक्ते मनसः सन्निबर्हणे ।

महीं सागरपर्यन्तां स कथं ह्यवजेष्यति ।।११०० इति ।

का नीतिः ? नीयते इति नीतिः दृक्‌ शक्तिः इति नीतिं वर्णयति अथशास्त्रम्‌ । सन्मार्गप्रदर्शनं नीतेः कृत्यम्‌ । नीतेः फलन्तु कल्याणोदयः । मार्गकण्टकानां उद्धरणं नीतेः बलम्‌ । अल्पज्ञानेन प्रवर्तमाना

मिथ्याचारात्‌ निवारणं नीतेः उपकृ त्यम्‌ । तथा च सोमदेवः शुक्र नीतिसारे वदति दृष्टिरिव नीतिः यथावस्थितमर्थं उपलम्भयति । अप्रत्ययान्यथाप्रतिपत्तिभ्यां सम्भाविन्याः कुद्धवप्रवृत्तेः प्रतिनिवर्तनेन निष्कण्टकं कल्याणेदर्कं च सत्पथं दर्शयन्ती कापि दीपमाला दच्छक्ति रेव नीतिः इति ।

नीतिविषये जाग्रतैः भाव्यम्‌ । न कापि नीतिः निरपेक्षा किन्तु सापेक्षा । नीतिर्हि कालदेशआश्रयभेदेन भिद्यते । उत्सर्गापवादाभ्यां नीतेः चयनं शुभं सूते । सन्मार्गं अपि आवृतनयनः न गच्छेत्‌ । दृष्टिपूतं हि पदं न्यसोदिति मनुस्मृतिः लोक व्यवस्था नीतिं अवलम्बते । अतः अर्थव्यवस्थापि नीतिं चुम्बति ।

कोऽयमर्थः ? सोऽयमर्थः यः पुरुषैः अर्थ्यते । स हि पुरुषार्थः । भारतीयचिन्तनायाः के न्द्रबिन्दुः पुरुषार्थः । ते च धर्मार्थकाममोक्षाः । तत्र धर्मार्थकामाः साधनतया पुरुषार्थः मोक्षस्तु साध्यतया इति विशेषः आर्यचिन्तनस्य आधारभूमिः धर्मः । गम्यस्थानन्तु मोक्षः । धर्ममोक्षयोः तटे एव अर्थकामयोः प्रवहनं लोकयोगक्षेमावहं इति आर्यविचारसारः । अर्थः तेषु प्रधानः । अतः अर्थः नाम बहिश्चरः प्राणः इति व्यासो ब्रूते । यतः सर्वप्रयोजनसिद्धिः सोऽर्थः । न कश्चिदर्थो भवति प्रयोजनसाधनं न भवति यदि । एतेन यत्प्रयोजनसाधनं तदेव धनं यच्च प्रयोजनस्य न साधनं तत्‌ न धनं इति अर्थपरिभाषा कृता ।

कौटिलीयं अर्थदर्शनम्‌ – अर्थनिरू पणाय प्रवृत्तं कौटिलीयं अर्थशास्त्रम्‌ । तत्र कौटिल्यः अर्थं मनुष्याणां वृत्तिं मनुते । मनुष्यवतीं भूमिं भौतिक मार्थमाह । प्रयोजनसाधनीभूतो अर्थास्तु श्रमसाध्यः । श्रमश्च वृत्तिः अतः वृत्तिरर्थः । इष्टं, इष्टसाधनञ्च श्रमापेक्षम्‌ । तदेव इष्टं भवति यत्‌ सन्तुष्टेः साधनं भवति । अतः इच्छासाधनं तृप्तिश्चेति त्रिषु अर्थतत्त्वं परिसमाप्यते ।

आधुनिकार्थशास्त्रेऽपि अर्थो नाम वस्तुगतेच्छाशामक शक्तिः । अतः अर्थपदार्थपरिग्रहे आधुनिक प्राचीनविचारधारयोः संवादः दृश्यते । अर्थशास्त्रं कृतम्‌ इति । अत्र सर्वेषां अर्थशास्त्राणां सन्गृहः कृतः ।

समाजशास्त्रान्गत्वेन अर्थशास्त्रस्य स्थानं सुभद्रं भवति नान्यथा । अतः कौटिल्यः अर्थशास्त्रं धर्मशास्त्रस्य अंगं इति अनुते । आधुनिक अर्थशास्त्रात्‌ आर्याणां अर्थशशस्त्रं अत्रैव भिद्यते । कौटिल्यः धर्मान्गमर्थशास्त्रं प्रणिनाय । आधुनिकाः कामान्गं अर्थशास्त्रं प्रतिपादयन्ति । इच्छायाः पूरणं आधुनिकार्थशास्त्रस्य गम्यम्‌ । किन्तु आशायाः नियमनं आर्थार्थशास्त्रस्य कृत्यम्‌ ।

जितात्मा सर्वार्थैः संयुज्यते । आधुनिकार्थशास्त्रं आशादास्यं अन्गीकरोति । अशाजयः आर्यार्थ शास्त्रस्य विक्रमः । एवं कौटिल्यार्थशास्त्रं आध्यात्मिक म्‌ । अर्थः अध्यात्मा च न विरोधिनौ किन्तु पूरकौ । अध्यात्मसिञ्चितार्थशास्त्रस्य आधारस्तंभाः चत्वारः अलभ्यलाभः, लब्धपरिरक्षणम्‌, रक्षितविवर्धनम्‌ वृद्धस्य तीर्थेषु प्रतिपादनञ्च । अलभ्य लाभः पादर्थौत्पत्तिप्रक्रि यां प्रतिपादयति । रक्षितविवर्धनं पुनरुत्पादनातन्त्रं तनुते । वृद्धस्य तीर्थेषु प्रतिपादनं पदार्थवितरणप्रकारं प्रदर्शयति । इत्थं आधुनिकार्थशास्त्रे अभ्युपगताः उत्पादनं, उपभोगः, वितरणं परिपालञ्च आध्यात्मिक दृष्ट्या आर्यार्थशास्त्रे उपलभ्यते । नैतदर्थतत्त्वं अप्रायोगिक म्‌ । स्वप्रयुक्तं एव प्रकाशयति कौटिल्यः ।

तथा च श्रूयते सर्वशास्त्राण्युपक्र म्य प्रयोगमुपलभ्य च।

कौटिल्येन नरेन्द्रार्थे शासनस्य विधिः कृते ।।इति ।।

कामार्थौ निराकृत्य धर्मः एव न सेवनीयः । यः कामार्थावनुपहत्य धर्ममेवोपास्ते, सः पक्वं क्षेत्र परित्यज्योषरं कृ षति । अतः नैतत्‌ सुखविमुखं चिन्तनम्‌ । कि न्तु धर्माविरोधेन कामार्थयोः प्रयोगकौशल्यम्‌ । अत एव उच्यते धर्मार्थाविरोधेन कामं सेवेत न निस्सुखः स्यात्‌ । एवं अनिवार्यः अर्थः । अपेक्षितस्य अर्थस्य उत्पत्तौ पालने च श्रमः, जागृतिः, युक्तिः नीतिश्च अपहिहार्याः ।अलभ्यलाभरू पयोगाय श्रमः अपेक्षितः । लब्धपरिरक्षणरू पक्षेमाय जाग्रतिरनिवार्या । रक्षितविवर्धनाय युक्तिः उपयुक्ता । वृद्धस्य तीर्तेषु प्रतिपादनरू पवितरणतत्त्वानुष्ठाने नीतिः भूमिकां आरचयति । एते चत्वारः न केवलं अर्थशास्त्रस्य सुभद्राः स्तम्भाः कि न्तु राष्ट्रस्यापि । तत्त्वचतुष्टयस्य अस्य आमूलाग्रं प्रतिपादनं कौटिल्यस्य अर्थशास्त्रे चतुर्दशाधिकरणेषु लभ्यते । पञ्चदशाधिक रणन्तु तत्वस्य अनावरणप्रयोजकं तन्त्रं वितनुते । अतः तस्य तन्त्रयुक्तिः इत्येव संज्ञा । सिंहावलोक नन्यायेन कौटिल्यस्य विचारधारा अत्र समासतः कटाक्षितः । वृत्यर्थो विनय वृत्तिः अर्थः इति कौटिल्यसिद्धान्तः । वृत्तिश्च प्रवृत्तिः । सा द्विविधा सहजा कृतका च। कृतक प्रवृत्तिं प्रति प्रेरणा आवश्यकी । शिक्षणं कृतक प्रवृत्तिप्रेरकम्‌ । शिक्षणञ्च विशेषतः बुद्धेः नयनम्‌ । अतः विनय एव शिक्षणम्‌ । विनयमूला प्रवृत्तिः । विनयेन व्यक्ति त्व विकासः भवति । विक सिते व्यक्ति त्वे धनं बहु भवति । लब्धे धने धर्माय व्ययः सुखस्य सोपानम्‌ । इत्थं विनयः कौटिल्यस्य अर्थचिन्तने प्राथम्यं भजते । विनयमहिमा का ? विनीतः चेत्‌ नायकः, नेयाः प्रजाः विनयसम्पन्ना भवन्ति । अतः नायकानां वृत्तिः प्रथमतः नियन्त्रयितव्या । नियमितायां नायक वृत्तौ प्रजावृत्तिः नियन्त्रिता भवति ।सर्वान्गसुन्दरं राज्यं नायकानां व्यवस्थितां वृत्तिं तदनुगुणप्रजावृत्तिञ्च अर्वलम्बते । अतः राज्ये सुव्यवस्थार्थं राजवृत्तिः नियमनीयेति कौटिल्यः राजवृत्तिं प्रथमाधिक रणे प्रस्तौति ।


सन्दर्भ:

[सम्पादयतु]
  1. http://sudharma.epapertoday.com/2009/07/30/1728/