सामग्री पर जाएँ

सदस्यः:Madhusmita 1234

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वार्तालापविधिः

(Conversation Method)

मौखिकविधिः (Oral Method)

इयं पद्धतिः संवादपद्धतिः वार्तालापपद्धतिरित्यपि व्यवहीयते। 'लप्' व्यक्तायां बाचि इत्यस्मात् धातोः आङ् इति उपसर्गयोजनेन आलापः इति निप्पद्यते। 'स्यादाभापणमालापः' इति अमरकोशवचनानुसारं आसमन्तात् भापणम् आलापो भवति। मानवजीवने वार्तालापस्य महत्त्वपूर्ण स्थानं वर्त्तते। भाषायाः व्यवहारे 75% व्यवहारस्तु वार्तालापरूपेण भवति । संस्कृतभाषायां वार्तालापस्य विधिवत् अभ्यासे कृते सति भाषाज्ञानं सुगमं भविष्यति । पद्धतिरियं संस्कृतभाषाया अत्यन्तप्राचीनतमा, आदौ भारते सर्वत्र अनयैव पद्धत्या संस्कृतं अध्याप्यमानमासीत् । अस्यां पद्धत्यां गुरुः आत्मनाधीतां शिक्षां वाचा स्वशिष्येभ्यः पाठयति । अध्यापकः सर्वं वाचा वदति, छात्राः स्वबुद्धया झटिति विषयान् गृह्णन्ति। अध्यापकः कक्षायां वार्तालापमाध्यमेन सरलवाक्यप्रयोगेन पाठगतविषयवस्तु प्रतिपादयति । प्रश्नोत्तररूपेण व्याख्यानरूपेण च विचारविनिमयः सम्भवति । पद्धतिरियं प्रत्यक्षपद्धतेः विकसितं स्वरूपं

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Madhusmita_1234&oldid=483702" इत्यस्माद् प्रतिप्राप्तम्