सामग्री पर जाएँ

सदस्यः:Maheswari2000

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

खण्डान्वयपद्धति:- खण्डान्वयपद्धत्याः नामान्तरमस्ति यत् प्रश्नोत्तरविधिरिति ।

दण्डान्वयपद्धति अपेक्षया एषा पद्धतिः उत्तमा अनया मनोरंजकतया प्रभावोत्पादकतया च कवितां शिक्षयितुं शक्यते । मनोविज्ञानसिद्धान्ताधारिता इति हेतोः छात्राः अपि अध्ययने आसक्तिं प्रदर्शयेयुरनया पद्धत्याः। इयम् दण्डान्वयप्रणाल्याः विपरीततया स्यात् ।

अन्वयप्रबोधो खण्डान्वयस्य परिभाषा

कर्तृकर्मक्रियास्तावत् श्लोके योज्यास्ततः परम्, किम् रूपं पुरस्कृत्य तृतीयादिविभक्तिः नियोजयेत्। "ल्यबन्तञ्च तुमन्तञ्च क्तवान्तं कर्मविभूषितम्। खण्डान्वये पुनः प्रश्नः पूर्वमन्ते प्रयोजयेत्" ।

दण्डान्वय इव खण्डान्वयेऽपि प्रथमतया प्रधानं वाक्यमन्वेष्टव्यम् भवति। यदा प्रधानं वाक्यमन्विष्टं भवति प्रश्नानां एवं समाधानद्वारा वाक्यशेषांशस्य ज्ञानं सम्पादनीयम्। वाक्यशेषांशज्ञानाय पद्धत्यामुपयुक्तानां प्रश्नानां एवम् उत्तरद्वारा कत्ती, कर्म, क्रिया, विशेषणम्, अव्ययम् इत्यादीनि निष्कासनीयानि। दण्डान्वयप्रणाल्यां प्रश्नाः व्याकरणाधारिताः भवन्ति । किन्तु अस्यां पद्धत्यां प्रश्नाः साहित्यमाधारीकृत्य भवन्ति। कर्तृसम्बद्धान् अंशान् छात्रेभ्यः निष्कासनाय कः, किम्, केन, कस्मै, कस्मात्, कस्य, इत्यादीनां सर्वनामशब्दानां माध्यमेन प्रश्नाः पृष्टयः भवेयुः। विशेषणानां ज्ञानाय कीदृशम्, किं भूतम्, कथं भूतम्, इत्यादयः प्रश्नाः प्रष्ख्याः। क्रियाणां ज्ञानाय किं करोति, किं कृत्वा इत्यादयः प्रश्नाः प्रष्टव्याः। क्रिया विशेषणानां ज्ञानाय कुतः, कुत्र, कदा, कथं, किमर्थम् इति रीत्या प्रश्नाः प्रष्टव्याः। अस्यां पद्धत्यां प्रश्नोत्तराणां विशेषमहत्त्वं भवति । चयनीकृतप्रश्नानां एवं समाधान द्वारा श्लोकस्य भावं निष्कासयितुं शक्यते । खण्डान्वयप्रणाल्या: श्लोक-शिक्षणे सूक्ष्मात् सूक्ष्मभावग्रहणं काव्यगत सौन्दर्यानुभूतिं एवं च रसास्वादनं भविष्यन्ति। यथा-

विद्या ददाति विनयं विनयाद् याति पात्रताम्, पात्रत्वाद्धनमाप्नोति धनाद्धर्मः ततः सुखम्।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Maheswari2000&oldid=483744" इत्यस्माद् प्रतिप्राप्तम्