सदस्यः:Medhavini varakhed

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नर्तकपथप्रदर्शकः[सम्पादयतु]

नाट्यशास्त्रं भरतमुनिना प्रणीतम्। नाट्यशास्त्रप्रवर्तकेषु प्रमुखः भरतमुनिः। भरतमुनेः कालस्य निर्णये विप्रतिपत्तिः वर्तते। दशमशताब्दस्य धनञ्जयस्य कृतिः दशरूपकं नाट्यशास्त्रस्य एव संक्षिप्तं रूपम् इति प्रतीयते। उत्तररामचरिते भवभूतिः भरतमुनिं तौर्यत्रिकसूत्रधारशब्देन निर्देशम् अकरोत्।

Medhavini varakhed
Natya Shastra (1898)
जन्म भरत मुनि
२०० बि.सी.
भारत​
वृत्तिः मुनिː
कृते प्रसिद्धः नाट्य शास्त्र​

सङ्गीतं नाटकं अभिनयः[सम्पादयतु]

इत्यादीनां सम्पूर्णः ग्रन्थः भवति नाट्यशास्त्रम्। नाट्यशास्त्रे केवलं नाट्यरचनायाः विषये न प्रतिपादितम् अपि तु अभिनेतृविषये रङ्गमञ्चस्य तथा प्रेक्षकाणां विषये अपि प्रतिपादितम् अस्ति। नाट्यशास्त्रे प्राधान्येन अभिनयादीनां वर्णनमस्ति चेदपि रस-गुण-रीति-अलङ्कारादीनामपि वर्णनं कृतम् अस्ति। भरतमुनिः एव प्रथमं काव्याङ्गानां साङ्गोपाङ्गवर्णनम् अकरोत्। काव्यतत्त्वानां नियमनिर्धारणं च अकरोत्। तस्य महत्वं भारतीयाः विद्वांसः तथा पाश्चात्याः अपि मन्यन्ते।

नाट्यशास्त्रं ३६ अध्यायेषु विभक्तं वर्तते। अस्मिन् ग्रन्थे शारदातनयमतानुसारेण १२००० श्लोकाः सन्ति। अध्ययनसौकर्यदृष्ट्या ६००० श्लोकाः सङ्गृहीताः।

एवं द्वादशसाहस्रैः श्लोकैरेकं तदर्धतः।

षड्भिः श्लोकसहस्रैर्यो नाट्यवेदस्य संग्रहः।।

अन्य विशयानि[सम्पादयतु]

अधुना नाट्यशास्त्रं ३६ अध्यायेषु अनुष्टुप्-छन्दसि ६००० श्लोकाः समुपलभ्यन्ते। आर्या छन्दः अपि दृश्यते। नाट्यशास्त्रे त्रयः भागाः दृश्यन्ते। सूत्रभागः, भाष्यभागः, श्लोकभागश्च। नाट्यशास्त्रं पञ्चमो वेदः इत्यपि उच्यते।

सर्वशास्त्रार्थसम्पन्नं सर्वशिल्पप्रवर्तकम्।

नाट्याख्यं पञ्चमं वेदं सेतिहासं करोम्यहम्।। इति।

उद्भटः भट्टलोल्लटः शङ्कुकः भट्टनायकः कीर्तिधरः इत्यादिभिः विद्वद्भिः नाट्यशास्त्रस्य उपरि टीकाः कृताः। अभिनवगुप्ताचार्येण कृता अभिनवभारती इति टीका अतिप्राचीना प्रामाणिका च वर्तते। षड्त्रिंशदध्यात्मकम् इदं नाट्यशास्त्रं सर्वाधिकप्राचीनः महत्वपूर्णः च ग्रन्थः अस्ति। अयं ग्रन्थः अतीव विशालः अस्ति। अयं ग्रन्थः यद्यपि पद्यमयः क्वचित् गद्यः अपि दृश्यते। विषयदृष्ट्या नाट्यशास्त्रस्य अध्ययनक्षेत्रम् अतीव विस्तीर्णं व्यापकं च।

निगमानि[सम्पादयतु]

विकिपीडिया |

विकिमीडिया कामन्स् |

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Medhavini_varakhed&oldid=442297" इत्यस्माद् प्रतिप्राप्तम्