सदस्यः:Meghana Subramaniya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

आडाचौ (तालः)
Classic acciaccatura.jpg

आडाचौताल: मात्रा: १४ करताला: - १,३,७,११ खण्डा:- ७ (२+२+२+२+२+२+२) अक्षराणि – धिं तिरकिट ।धिं ना।तू ना।कत् ता। तिरकिट धिं ।ना धिं ।धिं ना।

can't use in sandboxहिन्दुस्थानितालाः]] can't use in sandboxसंस्कृतिसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]



लुअ दोषः : expandTemplate: template "Short description" does not exist.

अनन्द् अमुल्
Amul factory.jpg

गुजरातराज्ये किञ्चन मण्डलमस्ति आणन्दमण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति आणन्द (गुजराती: આણંદ, आङ्ग्ल: Anand) इत्येतन्नगरम् ।

can't use in sandboxगुजरातराज्यस्य प्रमुखनगराणि]] can't use in sandboxगुजरातराज्यसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxचित्रं योजनीयम्]]


लुअ दोषः : expandTemplate: template "Short description" does not exist.

अन्देस्


थे अन्देस्

अण्डिस्-पर्वतम् दक्षिणामेरिकायाम् अस्ति। अमेसोन्-नदी अपि अस्मात् एव उद्भवति। अस्मिन् पर्वते अनेके वनानि सन्ति। चिन्चोना वृक्षात् शितज्वरभेषजम् लभते। वनेषु शृगालाः ल्लामा-उष्ट्राः मञ्जुगमनाः, वैनतेयाः इत्यादयः पशुपक्षिणः वसन्ति।

can't use in sandboxदक्षिण-अमेरिकादेशाः]] can't use in sandboxसमाजसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]



{{ Infobox settlement name = आत्म image_skyline = image_caption = }}

आत्मनिरूपणम् ज्ञानाधिकरणमात्मा।स द्विविधः।जीवात्मा,परमात्मा चेति।तत्रेश्वरस्सर्वज्ञः परमात्मा एक एव। जीवस्तु,प्रतिशरीरं भिन्नो विभुर्नित्यश्च। आत्मनो लक्षणम्----ज्ञानस्य अधिकरणं ज्ञानाधिकरणम्।ज्ञानस्येत्यत्र षष्ठ्याः आधेयत्वमर्थः।अधिकरणस्य अधिकरणताश्रयत्वमर्थः।तथाच,ज्ञाननिष्ठ आधेयतानिरूपित अधिकरणताश्रयत्वं आत्मनो लक्षणम्। आत्मनि समन्वयः----ज्ञाननिष्ठा या आधेयता इत्युक्ते आत्मनि ज्ञानमस्तीत्याकारक प्रतीतिसिद्धा ज्ञाने विद्यमाना आधेयता। तन्निरूपिता या अधिकरणता इत्युक्ते आत्मनिष्ठा अधिकरणता। तदाश्रयत्वस्य आत्मनि सत्वात्समन्वयः। नन्विदानीं काले अतिव्याप्तिः।अतस्तद्वारणार्थं ज्ञाननिष्ठ आधेयतायां समवायसम्बन्धावच्छिन्नत्वरूप विशेषणं देयम्। एवं गुणत्वावच्छिन्न आधेयतामादाय पृथिव्यादौ अतिव्याप्तिवारणार्थं ज्ञानत्वावच्छिन्नत्वरूपविशेषणं देयम्। एवं च,समवायसम्बन्धावच्छिन्न, ज्ञानत्वावच्छिन्न आधेयतानिरूपित अधिकरणताश्रयत्वम् आत्मनो लक्षणमिति निष्कर्षः। विभागस्य शाब्दबोधो यथा-----जीवात्मत्व,परमात्मत्वरूप धर्माभिन्न विभाजकधर्मद्वयान्यतरवान् आत्मा इति बोधः।

can't use in sandboxन्यायदर्शनम्]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]



लुअ दोषः : expandTemplate: template "Short description" does not exist.

ब्रह्म
Brahma, the God of Creation LACMA M.2000.30.jpg

नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने।
सविलासमहामोहग्राहग्रासैककर्मणे॥

आत्मा पञ्चकोशैः तादात्म्यात् तत्तत् कोशमयः भवतीति अतीतानन्तरश्लोके निरूपितम्। एतादृशस्य आत्मनः कथं ब्रह्मत्वं सम्पाद्यते इत्याशङ्कया इमं श्लोकमवतारयति भगवान् विद्यारण्यमुनिः,

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः।
आत्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते॥

अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकेन प्रत्यगभिन्नं ब्रह्म इति साध्यते, इत्येषः अस्य श्लोकार्थः।

आत्मा पञ्चकोशेभ्यः व्यतिरिक्तः इति ज्ञाते, तस्य सच्चिदानन्दरूप-अनतिरिक्तत्वं सम्भवति। यथा, चन्दनागर्वादेः उदकादिसम्बन्धार्द्रीभावादिना जातं क्लेदजं औपाधिकं यत् दौर्गन्ध्यं स्वरूपनिघर्षणेन स्वाभाविकेन स्वेन गन्धेन आच्छाद्यते तथा, अन्वयव्यतिरेकाभ्यां पञ्चकोशविवेकतः औपाधिकं तत्तत्कोशतादात्म्यं निरस्य आत्मनि सच्चिदानन्दरूपत्वं सम्पाद्यते।

कथमात्मा पञ्चकोशेभ्यः भिन्नः इति आकाङ्क्षायाम् एषः अनुमानप्रकारः समुपपद्यते। “यद् व्यावर्तमानेष्वनुवर्तते तत् तेभ्यो भिन्नम्” इति एषः शास्त्रप्रसिद्धः नियमः। तथा हि, “आत्मा पञ्चकोशव्यतिरिक्तः , व्यावर्तमानपञ्चकोशेष्वनुवर्तमानत्वात्, यथा मणिगणेभ्यः सूत्रम्”। एषः हेतुः अन्वयव्यतिरेकाभ्यां साध्यते।

तत्पूर्वम् अन्वयव्यतिरेकयोः लक्षणमुच्यते- तदभावे तत्सत्वम् अन्वयः, तत्सत्वे तदभावः व्यतिरेकः। प्रथमं अन्वयव्यतिरेकाभ्याम् अन्नमयकोशात् स्थूलदेहाद्वा आत्मा भिन्नः इति प्रतिपाद्यते।

स्वप्नावस्थायां स्थूलदेहस्य अभानेऽपि ’अहं घटं पश्यामि’, ’अहं कार्यं करोमि’ इत्यनेन प्रकारेण अहम्प्रत्ययविषयीभूतस्य आत्मनः ज्ञानम् अनुवर्तते। अतः स्थूलदेहात् भिन्नः आत्मा इति ज्ञायते। एषः आत्मनः अन्वयः। तस्यामेव स्वप्नावस्थायाम् अहम्प्रत्ययविषयीभूतस्य आत्मज्ञानस्य अनुवर्तमानत्वेऽपि अन्नमयकोशः स्थूलदेहः वा नानुवर्तते इत्येषः तस्य व्यतिरेकः।

सुषुप्तिकाले लिङ्गशरीरस्य अभानं वर्तते, तथापि अज्ञानस्य ज्ञानं वर्तते। यतः सुप्तोत्थितः सः ’अहं सुखमस्वाप्सं, न किञ्चिदवेदिषम्’ इति वदतीत्यतः सुषुप्तिकालेऽपि अहम्प्रत्ययविषयीभूतस्य आत्मनः अनुवर्तनमासीत् इति गम्यते। यतः या या स्मृतिः सा सा अनुभवपूर्विका। अतः एषः आत्मनः अन्वयः। सुषुप्तिकाले आत्मनः भानेऽपि लिङ्गशरीरस्य अभानात् तत् तस्य व्यतिरेकः।

ननु पञ्चकोशविवेचनमारभ्य लिङ्गशरीरविवेचनं कुर्वन्तः सन्ति। अनेन प्रकरणविरोधः न आगच्छति वा इति चेत् न, “तद्विवेकाद्विविक्ताः स्युः कोशाः प्राणमनोधियः”। लिङ्गशरीरविवेचनेनैव प्राणमय-मनोमय-विज्ञानमयकोशेभ्यः अपि आत्मनः पार्थक्यदर्शनात्।

ननु कोशत्रयमपि लिङ्गशरीरेणैव उच्यते चेत् तत्र प्राणादिकोशत्रयेषु अपि अभिन्नत्वं सिद्ध्यति इति चेत् न,। प्राणादिकोशत्रयं लिङ्गशरीरे विद्यमानसत्वरजसः अवस्थाविशेषतः भिद्यते।

समाध्यवस्थायां सुषुप्ति-उपलक्षितस्य कारणशरीरस्य आनन्दमयकोशस्य अभानेऽपि अहमित्याकारकज्ञानस्य अनुवर्तनम् अनुभवात् गम्यते। एषः आत्मनः अन्वयः। समाध्यवस्थायाम् अहमित्याकारकज्ञाने सत्यपि आनन्दमयस्य अभानम् अनुभूयते। एषः तस्य व्यतिरेकः।

एवं यथा व्यावर्तमानेषु मणिगणेषु अनुवर्तमानं सूत्रं व्यावर्तमानेभ्यः मणिगणेभ्यः भिद्यते तथा व्यावर्तमानेषु पञ्चकोशेषु अनुवर्तमानः आत्मा व्यावर्तमानपञ्चकोशेभ्यः भिद्यते इति अनेन सिद्धम्।

एवं निष्कल्मषस्य आत्मनः ब्रह्मत्वं निरूपितम्॥

- वासुदेवः आहितानलः

can't use in sandboxयोगः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxन प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]] can't use in sandboxसर्वे अपूर्णलेखाः]] can't use in sandboxसर्वे न प्राप्ताः भाषानुबन्धाः]]



लुअ दोषः : expandTemplate: template "Short description" does not exist.

गीतोपदेशः

अध्यायस्य सारः[सम्पादयतु]

गीतोपदेशः

श्रीमद्भगवदगीतायां ध्यानयोगस्यापि उपनिष्त्पद्धतेरनुसारं वैशद्येन वर्णनं प्राप्यते । अस्मिन् ध्यानयोगवर्णने श्वेताश्वतरस्योपनिषदः पूर्णः प्रभावो दृश्यते । गीतोक्तम्तानुसारेण मनः चञ्चलं भवति । अर्जुनो निवेदयति-“ चञ्चलं हि मनः कृष्णः प्रमाथि बलवद् दृढम् । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्”॥ अर्थात् चञ्चलप्रकृतिवशात् मनसो वशीकरणम् अतिकठिनं वर्तते । भगवान श्रीकृष्णः मनोनिग्रहम् उद्दिश्य आसन-प्राणायाम्-प्रत्याहारादीनां योगसाधनानामुपदेशं प्रददौ !

ध्यानयोगेन चेतसः एकाग्रीकरणेन भगवदर्पणबुद्धिः समुदिते । प्राणायामादिभिरुपायैः विशुद्धमेव चित्तं भगवदाश्रयं लभते, नतु विषयपङ्केन कलुषितमिति विचारेण गीतायां भगवता श्रीकृष्णेनोपदिष्टं यत् योगी पुरुषः एकत्वभावनया सर्वभूतेषु विद्यमानं परमेश्वरं भजति । सः कस्यामपि अवस्थायां परमेश्वरेण सहैव निवसति । एवं ध्यानयोगस्य उपयोग एकाग्रेण चेतसा सर्वता विद्यमानस्य व्यापकस्य परमात्मनः भक्तावेव उचितोऽस्ति !

श्रीमद्भगवद्गीतायां योगिनः पदं तपस्वि-ज्ञानि कर्मयोगिभ्योऽपि श्रेष्ठं प्रतिपादितम् । योगिनां प्रकारद्वयं गीतायां निर्दिष्टम् युक्तो युक्ततम्श्च । ज्ञानविज्ञानाभ्यां तृप्तान्तः करणः, समदर्शी, जितेन्द्रियो विकाररहितश्च योगी युक्तसंज्ञो भवति, किन्तु युक्तयोगिषु अपि यः अन्तरात्मानं परमात्मनि निधाय श्रद्धया सततम् ईश्वरं भजति, स एअव् युक्ततमो भवति । यथोक्तम् –

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमोमतः ॥

गीतोक्तसिद्धान्तानुसारेण भगवतः श्रद्धया भजनं विना ध्यानयोगो मात्रं शारीरिकः व्यायामो भवति, शरीरकष्टायैव प्रवृत्तिः मात्रं तदवस्थायां स्वीकर्त्तुं शक्यते । अतः ध्यानेन सह भक्तेः सामञ्जस्यम् अत्यावश्यकं प्रतीयते ।

श्लोकानाम् आवलिः[सम्पादयतु]

६.१ अनाश्रितः कर्मफं...
६.२ यं सन्यासमिति...
६.३ आरुरुक्षोर्मिनेर्योगं...
६.४ यदा हि नेन्द्रियां...
६.५ उद्धरेदात्मनात्मानं...
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः
६.६ बन्धुरात्मात्मनः तस्य...
६.७ जितात्मानः प्रशां...
६.८ ज्ञानविज्ञानतृप्तात्मा...
६.९ सुहृन्मित्रार्युदासीनं...
६.१० योगी युञ्जीत...
६.११ शुचौ देशे प्रतिं...
६.१२ तत्रैकाग्रं मनः...
६.१३ समं कायशिरोग्री...
६.१४ प्रशान्तात्मा विगत...
६.१५ युञ्जन्नेवं सदा...
६.१६ नात्यश्नतस्तु...
६.१७ युक्ताहारविहार...
६.१८ यदा विनियतं चित्तं...
६.१९ यथा दीपो निवातं...
६.२० यत्रोपरमते चित्तं ...
६.२१ सुखमात्यन्तिकं...
६.२२ यं लब्ध्वा चापरं...
६.२३ तं विद्याद् दुःखं...
६.२४ सङ्कल्पप्रभवान् ...
६.२५ शनैः शनैः उपं...
६.२६ यतो यतो निश्वरति...
६.२७ प्रशान्तमनसं ह्येनं...
६.२८ युञ्जन्नेवं सदा...
६.२९ सर्वभूतस्थमात्मा...
६.३० यो मां पश्यति...
६.३१ सर्वभूतस्थितं यो...
६.३२ आत्मौपन्येन...
६.३३ योऽयं योगः त्वया...
६.३४ चञ्चलं हि मनः...
६.३५ असंशयं महाबां...
६.३६ असंयतात्मना...
६.३७ अयतिः श्रद्धयों...
६.३८ कच्चिन्नोभयविभ्रं...
६.३९ एतन्मे संशयं...
६.४० पार्थ नौवेह न ...
६.४१ प्राप्यपुण्यकृतां...
६.४२ अथवा योगिनाम्...
६.४३ तत्र तं बुद्धिसंयों...
६.४४ पूर्वाभ्यासेन तेन...
६.४५ प्रयत्नाद्यतमानस्तु...
६.४६ तपस्विभ्योधिको...
६.४७ योगिनामपि...

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

can't use in sandboxआत्मसंयमयोगः| ]] can't use in sandboxभगवद्गीतायाः अध्यायाः]]

can't use in sandboxसारमञ्जूषा योजनीया‎]]





लुअ दोषः : expandTemplate: template "Short description" does not exist.

अब्रहमिक् रेलिगिओन्
त्रिणि विद
त्रिणि विद

अस्य शब्दस्य प्रथमः अर्थः अस्ति परमात्मा, ब्रह्म इति । अत (सातत्यगमने) मनिण् (उ ४-१५३) ।

यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावः तस्मादात्मेति कीर्त्यते ।
आत्मेव दृष्टः सहसा प्रजानामादर्शनेच्छामितरेषु दत्ते - याद १८-१३

द्वितीयः अर्थ अस्ति जीवात्मा इति ।

आत्मानं रथिनं विद्धि मनः प्रग्रहमेव च । इन्द्रियाणि हयानाहुः विषयांस्तेषु गोचरम् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः । - कठोपनिषत्

विविधेषु दर्शनेषु आत्मनः विषयः[सम्पादयतु]

चार्वाकमते[सम्पादयतु]

चार्वाकाः शरीरमेव आत्मा इति वदन्ति । पृथिवी-अप्-तेजः-वायुः एतेन भूतचतुष्टयेन शरीरम् उत्पद्यते । तस्मिन् चैतन्यं जायते । देहोत्पत्तेः पूर्वं देहस्य विनाशस्य अनन्तरम् अपि आत्मा न भविष्यति इति एतेषाम् अभिप्रायः । स्थूलोहम् कृशोहम् कृष्णोहम् इत्यादयः व्यवहाराः एव देहात्मवादस्य प्रमाणानि ।

बौद्धमते[सम्पादयतु]

बौद्धेषु माध्यमिकाः योगाचाराः सौत्रान्तिकाः वैभाषिकाः इति पक्षचतुष्टयम् । एते क्रमशः सर्वशून्यत्वम् बाह्यार्थशून्यत्वम् बाह्यार्थानुमेयत्वम् बाह्यार्थप्रत्यक्षत्वम् च प्रतिपादयन्ति ।

माध्यमिकाः वदन्ति यत् सत्-असत्-सदसत्-सदसद्विलक्षणैः अतिरिक्तं शून्यमेव आत्मा इति ।
योगाचाराः अहम्-भावनया आत्मा इति कथ्यमाना आलयविज्ञानसन्ततिः एव आत्मा इति वदन्ति ।
सौत्रान्तिकाः वैभाषिकाश्च आत्मनः विषये योगाचारपक्षम् एव अनुसरन्ति । किन्तु सौत्रान्तिकाः विज्ञानव्यतिरिक्तपदार्थाः विद्यन्ते इति ते अनुमेयाः इति कथयन्ति । वैभाषिकाः ते प्रत्यक्षाः इति च कथयन्ति ।

जैनमते[सम्पादयतु]

आत्मा ज्ञानदर्शनस्वरूपि चैतन्यवस्तु । आत्मा नित्यः । चेतनालक्षणो जीवः । आत्मा कर्मबद्धः(सोपाधिकः) कर्ममुक्तः(निरुपाधिकः) इति द्विविधम् । जीवाः संसारिणो मुक्ताश्च - तत्त्वा सू । कर्ममुक्तः आत्मा शुद्धचैतन्यस्वरूपः । सिद्धः, सर्वज्ञः, सर्वलोकदर्शी च । देहस्य परिमाणमेव आत्मनः परिमाणम् । पूर्वतनजन्मसु कृतानि पापपुण्यानां फलानि अनुभवन् सम्यक्ज्ञानसम्पादनेन कर्मनिर्मुक्तः सन् लोकाग्रे प्रतिष्ठितः भवति । इयमेव मुक्तिः इति अत्र अभिप्रायः ।

वैशेषिकमते[सम्पादयतु]

देह-इन्द्रिय-मनः-बुद्धिः - एतेभ्यः भिन्नः आत्मा । आत्मा नित्यः विभुश्च । जीवात्मा परमात्मनः भिन्नः । परमात्मा एकः । जीवात्मानः असङ्ख्याः । परमात्मनि नित्यज्ञानं कृतिः इच्छाः च वर्तन्ते । जगतः सृष्टि-स्थिति-लयकार्येषु समर्थः अस्ति सः । कुलालः यथा घटस्य कारणीभूतः जगतः सृष्टेः निमित्तमस्ति । अयं सर्वज्ञः । जीवात्मा ज्ञान-इच्छा-कृति-धर्म-अधर्म-द्वेष-सुख-दुःखादिभिः गुणैः युक्तः अस्ति । मनसा सह विजातीयसंयोगेन आत्मना ज्ञानं प्राप्यते । दुःखध्वंसनमेव मोक्षः इति एतेषाम् अभिप्रायः ।

साङ्ख्यमते[सम्पादयतु]

साङ्ख्यमते चतुर्विंशति-तत्त्वेभ्यः अतिरिक्तः पुरुषः एव आत्मा । आत्मा असङ्ख्यातः, विभुः, नित्यः, निर्गुणः, निष्क्रियः, निर्लिप्तश्च । सुखदुःखादीनां सम्बन्धः आत्मनः न भवति । संसारभोगः मोक्षश्च प्रकृतिसम्बन्धेन पुरुषे दृश्यते । प्रकृति-पुरुषयोः सम्बन्धेन जगतः सृष्ट्यादिव्यवहाराः चलन्ति । प्रकृतिपुरुषयोः विवेकज्ञानैः बुद्धितत्त्वनाशः ततः सुखदुःखछायानाशश्च भविष्यति । ततः आत्मा शुद्धः भवति । अयमेव मोक्षः ।

योगदर्शने[सम्पादयतु]

अस्मिन् जीवात्म-परमात्मनोः भेदः विद्यते । चेतनतत्त्वं पुरुषः ईश्वरः इति द्विविधम् । जीवात्मानामकः पुरुषः असङ्ख्यातः, विभुः, अजः, नित्यः, शाश्वतः, निर्लेपः, ज्ञानस्वरूपश्च । ईश्वरः क्लेश-कर्मविपाकाशयादिसम्बन्धरहितः । जीवाः ईश्वरप्रणिधानेन ईश्वरभक्त्या च समाधिस्थितिं प्राप्नुवन्ति । अयमेव मोक्षः ।

द्वैतमते[सम्पादयतु]

अस्मिन् जीवात्म-परमात्मनोः भेदः अङ्गीकृतः अस्ति । जीवः अणुज्ञानस्वरूपः, असङ्ख्यातः, अजः, नित्यः, शाश्वतः, अच्छेद्यः, अदाह्यः, अक्लेद्यः, अशोष्यश्च । परमात्मा(नारायणः) विभुः । नारायणः एव सर्वनियामकः । सर्वे तस्य आदेशानुवर्तिनः । जीवाः सुखादितरतमभावयुताः, स्त्रीपुरुषभेदयुताश्च इति एतेषाम् अभिप्रायः। जीवात्मसु उत्तम-मध्यम-अधम-भेदैः मुक्तियोग्याः-नित्यसंसारिणः-तमोयोग्याः इति भेदः विद्यते । साधनानुष्ठानेन स्वरूपानन्दं ये अनुभवन्ति ते मुक्तियोग्याः । तमोलोकप्राप्तेः साधनानि सम्पादयन्तः नित्यदुःखानुभवाय ये सिद्धाः भवन्ति ते तमोयोग्याः । साधनानुष्ठानेन नित्यसुखदुःखमिश्रानुभवाय ये सिद्धाः भवन्ति ते नित्यसंसारिणः । गुरुकुलवासः, गुरुभक्तिः, सच्छास्त्रश्रवणं, मननं, संसारदुःखदर्शनेन वैराग्यप्राप्तिः, निवृत्तिधर्मानुष्ठानम्, तरतमज्ञानम्, परमात्मभक्तिः इत्यादिभिः अपरोक्षज्ञानं प्राप्यते । ततः मोक्षः सिद्ध्यते । देहावसानावसरे जीवः ब्रह्मनाडीद्वारा प्रस्थाय अर्चिरादिमार्गे अनेकैः लोकाधिपतिभिः सत्कारं प्राप्य अन्ते भगवल्लोके तरतमभावानुगुणं सालोक्य-सामीप्य-सारोप्य-सायुज्यरूपं मोक्षम् अनुभवति ।

अद्वैतमते[सम्पादयतु]

अद्वैतमते आत्मा एकः एव । सः नित्यः, विभुः, अच्छेद्यः, अक्लेद्यः, अदाह्यः, नित्यशुद्धः, नित्यमुक्तः, निर्लिप्तः, असङ्गश्च । अस्य स्थूल-सूक्ष्म-कारणनामकाः त्रयः उपाधयः विद्यन्ते । मायानामककारणोपाधियुक्तेन चैतन्येन प्रचाल्यमानैः सृष्टि-स्थिति-प्रलयरूपकार्यैः ब्रह्म-विष्णु-रुद्र-नामकान् रूपभेदान् आप्नोति । विभिन्न-उपाधिरूपेषु शरीरेषु अनादिरूपायाः अविद्यायाः कारणेन मम मदीयम् इत्यादिभावाः उत्पद्यन्ते । ततः विविधजीवाः इव व्यवहरति । उपाधीनां नाशनः अनन्तरम् आत्मा एव अवशिष्यते । सः एव मोक्षः । ईश्वरार्पणबुद्ध्या कृतैः विहितकर्माचरणैः संसारे असारत्वबुद्धिः, कर्मफले प्रबलवैराग्यं, ततः गृहपुत्रकलत्रादिविषयेषु जिहासा उत्पद्यते । अनन्तरं देहाभिमानं परित्यज्य सद्गुरोः उपदेशं प्राप्य श्रवण-मनन-निदिध्यासादिभिः परब्रह्मसाक्षात्कारं प्राप्नोति । ततः अज्ञाननिवृत्तिः, ततः संसारपाशात् मुक्तिश्च प्राप्य ब्रह्मस्वरूपत्वं प्राप्नोति । इयमेव मुक्तिः ।

विशिष्टाद्वैतमते[सम्पादयतु]

अस्मिन् दर्शने जीवात्म-परमात्मनोः भेदम् उल्लिख्य शेषशेषिभावम् उपस्थापयन्ति । जीवः ज्ञानस्वरूपः, असङ्ख्यातः, अणुः, अजः, नित्यः, शाश्वतः, अच्छेद्यः, अदाह्यः, अक्लेद्यः, अशोच्यश्च । जीवाः सर्वे परमात्मनः शरीररूपाः । प्रत्यक्त्वं चेतनत्वं कर्तृत्वम् इत्यादयः ईश्वर-जीवयोः सामान्यलक्षणम् । शेषत्वम् आधेयत्वं विधेयत्वं पराधीनकर्तृत्वं परतन्त्रत्वञ्च जीवस्य विशेषलक्षणम् । जीवः देहेन्द्रियमनःप्राणेभ्यः भिन्नः । मम शरीरम् इति व्यवह्रियते इत्यतः शरीरादपि भिन्नः । चक्षुषा पश्यामि श्रोत्रेण शृणोमि इति व्यवह्रियते इत्यतः बाह्येन्द्रियैः अपि भिन्नः । मनसा जानामि, मम प्राणाः, जानाम्यहम् इति व्यवह्रियते इत्यतः मनः-प्राणाः-ज्ञानम् इत्यादिभिः अपि भिन्नः । प्रत्येकस्मिन् शरीरे अपि जीवः विद्यते ।

देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नः स्वतः सुखी - आत्मसि

बद्धः मुक्तः नित्यः इति जीवः त्रिविधः । संसारात् मुक्ताः बद्धजीवाः । प्रकृतिसम्बन्धात् मुक्ताः शुक-व्यास-पराशर-अल्वारादयश्च मुक्ताः । प्रकृतिसम्बन्धरहिताः अनन्त-गरुड-विष्वक्सेनादयः भगवतः परिजनाः नित्याः । फलापेक्षां विना भगवत्प्रीतेः निमित्तं कर्तव्यभावनया क्रियमाणेन कर्मयोगेन ज्ञानयोगेन वा आत्मावलोकनं सिद्ध्यति । ततः भगवति भक्तिः प्रपत्तिः इत्येतेन मोक्षोपायेन आत्मा परमात्मनः अनुग्रहं प्राप्य देहावसानावसरे सुषुम्नानाडीद्वारा सुखेन प्रयाणं कृत्वा श्रीवैकुण्ठे आनन्दमये दिव्यमण्डपे सकलवैभवैः युक्तेस्य श्रीमहालक्ष्म्यासमेतस्य श्री परवासुदेवस्य सामीप्यं प्राप्य तत्र नित्यसूरिभिः नित्यकिङ्करः सन् परमात्मानुभवम् आनन्दम् अनुभवति । इयम् एव मुक्तिः ।

शक्तिविशिष्टाद्वैतमते[सम्पादयतु]

अत्र जीवात्म-परमात्मनोः भेदः उच्यते । जीवः अणुः, परमात्मा विभुः । जीवः असङ्ख्यातः । जीवाः परमात्मनः(लिङ्गरूपस्य) अंशाः (अङ्गानि) । सर्वज्ञत्वं नित्यतृप्तत्वम् अनादिबोधकत्वं स्वातन्त्र्यम् अलुप्तशक्तिमत्त्वम् अनन्तशक्तिमत्त्वम् इत्यादीनि परमात्मनः विशेषलक्षणानि । अस्वातन्त्र्यम् अनन्तत्त्वं देहेन्द्रियाद्यतिरिक्तत्वं पराधीनकर्तृत्वम् अंशत्वम् इत्यादयः जीवस्य लक्षणानि । जीवः चैतन्यस्वरूपः । सः मायाकारणतः अल्पज्ञः अल्पशक्तः अहङ्कारी च भवति । आणवमल-मायामल-कार्मिकमल-अहङ्कारादीनां द्वारा कर्मणा बद्धः सन् जन्मान्तराणि प्राप्नोति । लिङ्गधारणात्मकया शिवदीक्षया भक्त-महेश-प्रसादि-प्राणलिङ्गि-शरण-ऐक्यनामकानां षट्सोपानानां द्वारा मलत्रयनिवृत्तिं प्राप्य ब्रह्मसाक्षात्कारेण मुक्तिं प्राप्नोति । एतैः पाशैः बद्धः चेत् जीवः । एतैः मुक्तः चेत् सदाशिवः भविष्यति । एतैः पाशैः स्वातन्त्र्यप्राप्तिः एव मुक्तिः ।

can't use in sandboxहिन्दुचिन्तनानि]] can't use in sandboxचित्रं योजनीयम्]]




लुअ दोषः : expandTemplate: template "Short description" does not exist.

अत्रेयि

आत्रेयी (Atreyi) अत्रिमहर्षेः पुत्री । पौराणिकव्यक्तिः अत्रिमहर्षिः अस्य मन्वन्तरस्य सप्तर्षिषु, ब्रह्ममानसपुत्रेषु च अन्यतमः । एषः कठिनतपसा ब्रह्मविष्णुमहेश्वरान् पुत्ररूपेण प्राप्तवान् । चन्द्रमदत्तात्रेयदूर्वासाः एव ते त्रिमूर्तिस्वरूपाः । अत्रिः कर्दपब्रह्मणः पुत्रीम् अनसूयाम् ऊढवान् । एतयोः पुत्री एव महासाध्वी आत्रेयी । एषा अपि माता इव पतिपारायणा, तपस्विनी, धर्मनिष्ठा च आसीत् । अग्निदेवस्य पुत्रेण अङ्गीरसेन सह एतस्याः विवाहः अभवत् ।

कठोरः अङ्गीरसः[सम्पादयतु]

तप्ताग्नौ जन्म प्राप्तवान् इत्यनेन एतस्य स्वभावः बहु उग्रः आसीत् । पत्न्या सह एषः बहु रूक्षतया व्यवहरति स्म । कठोरवचनैः तस्याः अपमाननं करोति स्म । तथापि आत्रेयी बहुधैर्येण पत्या सह कुटुम्बिनी आभवत् । एतयोः अनेकाः पुत्राः जाताः । तेषु आङ्गीरसः अन्यतमः । बालाः अपि मात्रा सह प्रेम्णा व्यवहरतु इति पितरं प्रार्थितवन्तः । किन्तु प्रयोजनं नाभवत् । महर्षिः कठोरस्वभावं न त्यक्तवान् ।

अग्निदेवानुग्रहः[सम्पादयतु]

अतीवदुःखेन कदाचित् आत्रेयी अग्निदेवम् एवं प्रार्थयति हे लोकप्रकाशकप्रभो भवतः द्वारा देवेभ्यः हविः प्राप्यते । भवान् जठराग्निरूपेण समस्तप्राणीनां पोषणं कुर्वन् अस्ति । सर्वेषां दोषाणां निर्मूलनकर्ता भवान् एव । भवतः चरणौ भक्त्या प्रणमामि । दोषरहितां मां भवतः पुत्रः तिरस्करोति । निन्द्यावचनेन दुःखं जनयति । कथञ्चित् भवान् तस्मै शान्तिं ददातु । एतद् श्रुत्वा अग्निदेवः वदति, पुत्रि भवत्याः पतिः तप्ताग्नौ जन्मप्राप्तवान् अस्ति इत्यनेन सः उग्रः अस्ति । सः यदा प्रज्वलाग्नौ तपः कर्तुम् आरप्स्यते तदा भवती नद्याः रूपं धृत्वा तम् आप्लावितं करोतु । तेन सः शान्तः भविष्यति । एतद् श्रुत्वा अत्रेयी आश्चर्यचकिता जाता । भोः श्वशुर अहं यानि कानि कष्टानि सोढुं शक्नोमि । किन्तु यथा तेन अग्निप्रवेशः न क्रियते तथा करोतु । तस्य ग्निप्रवेशं द्रष्टुम् अहं न शक्नोमि । तं रक्षतु इति प्रार्थयति । आश्वासयन् अग्निदेवः अवदत् पुत्रि भयं मास्तु सः मम पुत्रः, अग्निज्वालाभिः तस्य किञ्चिदपि भयं नास्ति । ज्वालाः तं न दहन्ति । जलं तं न निमज्जयति । वायुना सः उड्डीतः न भवति । विश्वासयतु केनापि वस्तुना तस्य कष्टं न भवति । अतः भवती अग्निस्वरूपेण नद्याः रूपं धृत्वा तं शान्तं करोतु । भवतः उपस्थितौ अहं कथं अग्निरूपं धरामि ? भवान् तस्य मातापिता । एवं सति नदीरूपं धृत्वा तं मयि कथं धारणां करोमि ? एषः अधर्मः किल ? एतद् कार्यं तु केवलं माता कर्तुं शक्नोति । मत्सदृशी न । क्षम्यताम् इति नम्रतया प्रार्थयत् । भवती मम पुत्रस्य पुत्रेभ्यः जन्म दत्तवती अस्ति । अतः भवती मम स्वरूपभूता अभवत् । पुत्रवती पत्नी मातुः रूपं धरति इति शास्त्रेण उच्यते । भवती तस्मै अपि मातुः प्रतिरूपा इव अस्ति । अतः शङ्का मास्तु । मम आज्ञां पालयतु । इति अग्निः स्नुषाम् उपादिशत्।

शान्तः पतिः ब्रह्मवादिनी पत्नी[सम्पादयतु]

महर्षिः अङ्गीरसः प्रज्वलिताग्नौ उपविश्य तपः आरब्धवान् । आत्रेयी नद्याः रूपं धृत्वा पतिम् आप्लाव्य प्रशान्तं कृतवती । तादृश्यां नद्यां निमज्ज्य, उत्थाय अङ्गीरसमहर्षेः स्वभावः प्रशान्तः अभवत् । तस्य उग्रस्वभावस्य परिवर्तनम् अभवत् । आत्रेय्याः नदीरूपं परुषी नाम्ना प्रख्यातः अस्ति । एषा परुषीनदी यत्र गङ्गानद्या मिलति तत् स्थानं परमपवित्रम् अस्ति । अस्मिन् सङ्गमस्थाने पुरुषाः स्नानतर्पणं च कुर्वन्ति चेत् ते समस्तपापैः मुक्ताः भवन्ति इति विश्वासः अस्ति । पत्न्याः साहसम् इष्ट्वा अङ्गीरसः ताम् अनुगृहीतवान् । परिणामेन सा केषाञ्चन वेदमन्त्राणां द्रष्टारा जाता । ब्रह्मवादिनी अपि जाता ।


can't use in sandboxपौराणिकधार्मिकमहिलाः]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxविषयः वर्धनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]]





लुअ दोषः : expandTemplate: template "Short description" does not exist.

महासंस्थानम्,आदिचञ्चनगिरि:
महासंस्थानम्,आदिचञ्चनगिरि:

पूर्वेतिहासः[सम्पादयतु]

आदिचुञ्चनगिरिक्षेत्रस्य २०००वर्षाणां प्राचीनः इतिहासः अस्ति । आध्यात्मिकशक्त्याधारिता प्राचीनवैदिकपरम्परा अत्र दृश्यते । तन्नाम प्रकृतेः आराधना अत्र मौल्यं प्राप्तवती अस्ति । यज्ञाः, प्रार्थनाः च दैवीवातावरणनिर्माणे कारणीभूताः सन्ति ।अस्मिन् क्षेत्रे शिवः तपः आचरितवान् इति प्रतीतिः अस्ति ।

क्षेत्रस्य इतिहासः[सम्पादयतु]

अत्र आदिचुञ्चनगिरिः (Adichunchanagiri) कर्णाटकराज्यस्य मण्ड्यमण्डलस्य नागमङ्गलोपमण्डले स्थितं किञ्चन क्षेत्रम् । अत्र भगवान् परमेश्वरः आगत्य वासं कृत्वा चुञ्चनामाङ्कितस्य कञ्चनामाङ्कितस्य च राक्षसयोः वधं कृतवान् । अतः एषः गिरिः चुञ्चगिरिः इति प्रसिद्धः अस्ति । अस्य औन्नत्यं १९६० मीटर्मितम् । अन्या कथा एवमस्ति । शिवकपालदुत्पन्नाय नाथसम्प्रदायस्य सिद्धयोगिने स्वयं शिवः दर्शनं दत्त्वा स्वपीठेन साकं प्रतिनिधिरूपेण कञ्चित् सिद्धयोगिनं तत्र नियुक्तवान् । स्वयं पञ्चप्राणानां द्योतकरूपेण पञ्चलिङ्गाकृतिकः पञ्चलिङ्गेश्वरः सन् अत्र स्थितवान् । तानि पञ्चलिङ्गानि गङ्गाधरेश्वरस्वामी, चन्द्रमौळीश्वरस्वामी, मल्लेश्वरस्वामी, सिद्धेश्वरस्वामी, सोमेश्वरस्वामी इति नाम्ना प्रसिद्धानि सन्ति । गङ्गाधरेश्वरस्वामी अत्र प्रमुखदेवता अस्ति । अतः एतत् क्षेत्रं पञ्चलिङ्गेश्वरक्षेत्रम् इति प्रसिद्धम् अस्ति ।

क्षेत्रदेवतारूपेण आदिशक्तिरूपिणी देवी अत्र स्थापिता अस्ति । अत्रत्यानि पुण्यतीर्थानि गविसिद्धेश्वरः, चेळूरुकम्ब, गळिगे कल्लूरु, कत्तलुसोमेश्वरः, नागचावडिभैरवमन्दिरं च । अन्नदानार्थं प्रसिद्धम् अय्यनमठम् अथवा अन्नदानीमठम् अस्मिन् क्षेत्रे अस्ति । अत्र प्रतिदिनं २०,००० अपेक्षया अधिकजनाः भोजनं कुर्वन्ति । कालभैरवेश्वरस्वामी एतस्य क्षेत्रस्य क्षेत्रपालकः अस्ति ।

बिन्दुसरोवरः[सम्पादयतु]

पर्वतस्य मध्यभागे नैसर्गिकरूपेण निर्मितः कश्चन सरोवरः अस्ति । तस्य नाम बिन्दुसरोवरः इति । शतशः पादपरिमितोन्नते पर्वते शिवः वसति । अधः एषः सरोवरः अस्ति । शिवस्य जटया निर्गता जलधारा एषा इति विश्वासः । अतः अत्रत्यं जलम् अत्यन्तम् पवित्रम् इति सर्वेषां भावना अस्ति । जनाः पापपरिहारार्थं पुण्यसम्पादनार्थं च अत्र पुण्यस्नानं कुर्वन्ति । एतत् क्षेत्रं सुन्दरवनैः आवृत्तम् अस्ति । अत्रत्ये मयूरवने मयूराः स्वच्छन्दविहारं कुर्वन्ति ।

श्री आदिचुञ्चनगिरिमहासंस्थानमठम्[सम्पादयतु]

आदिचुञ्चनगिरिः श्री आदिचुञ्चनगिरिमहासंस्थानमठस्य कारणेन प्रसिद्धः जातः अस्ति । कर्णाटके गणनीयसंख्यायां दृश्यमानानाम् ’ओक्कलिग’बान्धवानां प्रमुखं धार्मिककेन्द्रम् अस्ति इदम् । एतस्य मठस्य एकसप्ततितमपीठाधीशरूपेण स्वर्गीयः जगद्गुरुः श्री श्री श्री बालगङ्गाधरनाथस्वामी कार्यं निरवहत् । श्री बालगङ्गाधरनाथस्वामी (१८जनवरी १९४५-१३ जनवरी २०१३) प्रमुखेषु धार्मिकगुरुषु अन्यतमः ।

कर्णाटके अत्यन्तं सुप्रसिद्धस्य आदिचुञ्चनगिरिमठस्य मठाधीशः बालगङ्गाधरनाथस्वामी सद्यः एव मकरसङ्क्रमणदिने विधिवशः अभवत् । संस्कृताभिमानिनः एतस्य महत् योगदानम् अस्ति कर्णाटकस्य शिक्षणक्षेत्रे । २०१० तमे वर्षे भारतस्य तृतीयश्रेष्ठेन नागरिकसम्मानेन पद्मविभूषणेन एषः सम्मानितः आसीत् ।

आदिचुञ्चनगिरिमठद्वारा बहवः विद्यालयाः, चिकित्सालयाः, परिसरसंरक्षणकेन्द्राणि, प्राणिसंरक्षणकेन्द्राणि, वेदाध्ययनकेन्द्राणि, कृषिसाहाय्यककेन्द्राणि प्रचलन्ति । धार्मिकसामाजिकक्षेत्रेषु बालगङ्गाधरवर्यः अत्यन्तं सक्रियः आसीत् ।

द्विसप्ततितमपीठाधीशरूपेण इदानीं श्री श्री श्री निर्मलानन्दस्वामी कार्यरतः अस्ति । एषः महोदयः तुमुकूरुमण्डलस्य गुब्बिइति उपमण्डलस्य चिरनहळ्ळि ग्रामे जन्म प्राप्तवान् । अस्य पूर्वाश्रमस्य नाम नागराजः। अस्य जन्म नवषष्टि-उत्तर- नवदशशततम वर्षस्य (20-7-1969)जुलै मासस्य विंशतितमे दिनांके अभवत् ।अयं तान्त्रिकविषये स्नातकविद्याभ्यासं मैसूरुनगरे समाप्य मद्रास्नगरे भारतीय प्रौद्यौगिकी संस्थायां(IIT) स्नातकोत्तरपदवीं प्राप्तवान् ।

मार्गः[सम्पादयतु]

नागमङ्गलतः २६ कि.मी.
मण्ड्यतः ६६ कि.मी.

बेळ्ळूरु-तुमकूरुमार्गः

बाह्यानुबन्धः[सम्पादयतु]

[वर्गः: मण्ड्यमण्डलस्य प्रेक्षणीयस्थानानि]] can't use in sandboxविषयः वर्धनीयः]]





लुअ दोषः : expandTemplate: template "Short description" does not exist.

अधि पर्व

इदं महाभारतस्य प्रथमं पर्व अस्ति। अस्मिन् ग्रन्थस्य परिचयः दीयते, तथा च राजकुमाराणां जन्म इत्यादिविषयाः वर्णिताः।

अनुक्रमणिकापर्व[सम्पादयतु]

ग्रन्थस्य अस्य उपक्रमः अनुक्रमणिकापर्वतः भवति । यत्र च ग्रन्थस्थविषयाणां सङ्क्षेपसूची वर्तते, तथा च महाभारतस्य महिमा वर्णितः ।

पर्वसंग्रहपर्व[सम्पादयतु]

अनन्तरं पर्वसंग्रहपर्वणि समन्तपञ्चकक्षेत्रस्य वर्णनम्, अक्षौहिणीसेनायाः परिमाणं, महाभारतपर्वणां विषयसंक्षेपः, महाभारतस्य श्रवणपठनयोः फलं च वर्णितम् ।

पौष्यपर्व[सम्पादयतु]

तृतीये पौष्यपर्वणि जनमेजयस्य सरमायाः शापः, तस्य च सोमश्रवसः पुरोहितत्वेन वरणम्, आरुणि-उपमन्यु-वेद-उत्तङ्कानां गुरुभक्तिः च वर्णिता । उत्तङ्कः जनमेजयं सर्पयागं कर्तुं प्रोत्साहयति ।

पौलोमपर्व[सम्पादयतु]

पौलोमपर्वणि आदौ कथाप्रवेशः, ततः पश्चात् भृगुमहर्षेः आश्रमे पुलोमराक्षसस्य आगमनम्, अग्निना सह तस्य सम्भाषणं च वर्ण्यते । च्यवनस्य जन्म, तस्य तेजसा राक्षसस्य भस्मीभवनम्, अग्निदेवस्य भृगुमहर्षेः शापः, शापेन कुपितस्य अग्नेः अदृश्यत्वं, ब्रह्मणा कृतः अग्निशापस्य सङ्कोचः समाधानञ्च वर्ण्यते । ततः परं प्रमद्वरायाः वृत्तान्तः, तस्याः रुरोश्च विवाहः, सर्पाणां नाशाय रुरोः निश्चयः तस्य डुण्डुभस्य च समागमः वर्ण्यते । रुरुडुण्डुभयोः सम्भाषणं, डुण्डुभस्य आत्मकथा, तेन कृतः रुरोः अहिंसोपदेशः, जनमेजयस्य सर्पसत्रस्य विषये रुरोः जिज्ञासा च वर्ण्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


can't use in sandboxआदिपर्व]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]