सदस्यः:Mohit shastri 1991/प्रयोगपृष्ठम्
==न्यायमञ्जरी (जयन्तभट्टः)==
“ नमः शाश्वतिकानन्दज्ञानैश्वर्यमयात्मने ।
संकल्पसकलब्रह्मस्तम्बारम्भाय शम्भवे ॥”
“ नमामियामिनीनाथलेखालङ्कृतकुन्तलाम् ।
भवानि भवसन्तापनिर्वापणसुधानदीपम् ॥”
“ सुरासुरशिरोरत्नमरीचिखाचिताङ्घ्रये ।
विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥”
“ जयन्ति पुरजिद्दत्तसाधुवादपवित्रिताः ।
निधानः न्यायरत्नानामक्षपादमुनेर्गिरः ॥”
“ अङ्गानि वेदाश्चात्वारो मीमांसान्यायविस्तरः ।
पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्द ॥”
“ पुराणतर्कमीमांसाधर्मशास्त्राङ्गमिश्रिताः । देदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ ” ==दर्शनानि== – न केवलं भारतीयवाङ्मये , विश्ववाङ्मय एव भारतीयदर्शनग्रन्थानां स्थानमानादिकं अतीवभिनन्दनार्हमिति जानन्त्येव निर्मत्सरा विश्वविद्वांसः । ==दर्शनशब्दस्यार्थः== – “दृश” धातोः भावकरणयोर्ल्युडिति “ल्युट” प्रत्यये कृते निष्पन्नोऽयं दर्शनशब्दः
==दर्शनवाङ्मयस्य भेदाः == – भारतीय दर्शन शास्त्रस्यवाङ्मयं द्विधा विभज्यते । १. आस्तिकदर्शनम् । २. नास्तिकदर्शनम् । == जयन्तभट्टः - (ई.१०००) == - अस्य न्यायसूत्रस्य टीका ब्यायमञ्जरी प्रसिद्धा । अयं काश्मीरवास्तव्यः । कादम्बरीकथासारकाव्यकर्तुरभिनन्दस्य पिता । अप्रतिमप्रतिभाशालिनं स्वायत्तसर्ववाङ्मयं जयन्तभट्टं, अथवा भट्टजयन्तं अधिकृत्य नाधिकं साक्ष्यादिकं लभ्यते । यल्लभ्यते तदपि बहुभिरेतावतैव सङ्गृहीतम् । तदीयकृतिरत्नरूपेयं न्यायमञ्जरी स्वसौरभं सर्वत्र प्रसारयन्ती तस्य कीर्ति विस्तारयति दिगन्तेषु इति तु सन्तोषस्य स्थानम् ॥ स्वपाण्डित्येन, प्रतिभया,वश्यवाचा,धीततादिनाऽयं ग्रन्थकारः सर्वानप्यतिशेत इति नात्युक्तिः स्यादेतद्ग्रन्थपरिशीलनरसिकानाम् । परन्तु इदमेवात्र खेदस्थानं यत् , अयं स्वस्वरूपानुगुणां कीर्ति नावहति भारतीय दर्शनक्षेत्रे , यादर्शी वहन्ति कुमारिलोदयनवाचस्पत्यादय इति । ‘ पुन्यैर्यशो लभ्यते ’ इत्येवोत्तरं वक्तव्यमत्र । अथाप्यागच्छता कालेन विद्वल्लोकः इदं ज्ञातु प्रयतमानो दृश्यत इत्याप्याप्यायते मनः । एतद्ग्रन्थस्थविषयमधिकृत्य यद्यपि बहु वक्तव्यम् । सारतस्तु कथने विलक्षण एवायं ग्रन्थः । यथा हि नवीनशास्त्रग्रन्थेषु इतरसर्वशास्त्रणां उच्चावयं खण्डनं दृश्यते, न तथात्र पश्यामः । प्रत्युत परस्परपोषणं क्रियते ? व्याकरणशास्त्रवैफ्यल्यमाशंक्य, विस्तरेण तत्सार्थक्यं वर्णयति जयन्तः । ‘ पृथवप्रस्थाना हीमाविद्याः । प्रमाणविद्या चेयमान्वीक्षकी, न वाक्यार्थविद्या ’ इति व्यायमीमांसास्त्रयोः विषयभेदं स्पष्टं प्रदर्श्य शास्त्रमर्यादां संरक्षति जयन्त इति आश्चार्यावहम् । वाक्यशास्त्रं हि मीमांसा । ‘पदवाक्यप्रमाण’ इति व्याकरणमीमांसान्यायशास्त्राणां यथासंख्यं विषयव्यवस्था । ==न्यायमञ्जरी== – सूत्रभाष्यकारैः गौतमवात्स्यायनमहर्षिभिः प्रदर्शिते तर्कमार्गे प्रमाणसमुच्चयकारेण दिङ्नागेन दूषिते, तदुद्धाराय भारद्वाजोनोद्येकारेणवार्तिकं व्यधायि । परन्तु उद्योतकानन्तरं प्रमाणवार्तिककर्त्रा धर्मकीर्तिना वैदिकमार्गे सर्वेऽपि दूषिते, तत्परिहाराय पूर्वमीमांसाप्रक्रियामवलम्ब्य कुमारिलैः वार्तिकं व्यधायि । परन्त्तु तत्रापर्याप्तिं न्यूननाञ्च पश्यता जयन्तेनेयं न्यायमञ्जरी व्यधायि अतः एवास्मिन् ग्रन्थे आन्तं धर्मकीर्तिप्रक्रिया खण्ड्यते तत्र-तत्र, प्रदर्श्यते च न्यूनता कुमारिलवार्तिकग्रन्थे ॥ ==षोडश पदार्थोद्देश्याः== – अभिधेयास्तु प्रमाणादयो निग्रहस्थानपर्यन्ताः षोडश पदार्थाः प्रथमसूत्रे निर्दिष्टाः तेषां स्वरूपमुपरिष्टाद्वक्ष्यते ॥ 1. अर्थपरिच्छित्तिसाधनानि प्रत्यक्षादीनि प्रमाणानि । 2. तत्परिच्छेद्यमात्यादि प्रमेयम् । 3. नानार्थवनर्शः संशयः । 4. हिताहितप्राप्तिपरिहारौ, तत्साधनं च प्रयोजनम् । 5. हेतोः प्रतिबन्धावधारणं दृष्टान्तः । 6. प्रमाणतोऽभ्युपगमस्यमानः सामान्यविशेषवानर्थः सिद्धान्तः । 7. परार्थानुमानवाक्यैकदेशभूताः प्रतिज्ञादयोऽवयवाः । 8. सन्दिग्धेऽर्थेन्यतरपक्षामुकुलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययस्तर्कः। 9. वीतरागकथा वस्तुनिर्णयफला वादः । 10. विजिगीषुकथा तु पुरुषशक्तिपरीक्षणफला जल्पः । 11. तद्विशेषो वितण्डा । 12. अहेतवो हेतुवदाभासमानाः हेत्वाभासाः । 13. अर्थविकल्पैर्वचनाविघातः छलम् । 14. हेतुप्रतिबिम्बनप्रायं प्रत्यवस्थानं जातिः । 15. सत्यवस्त्वप्रतिभासः विपरीतप्रतिभासश्च निग्रहस्थानम् 16. साधनोपलम्भजन्मा तत्त्वावबोधे निर्यणः ॥