सदस्यः:Mssriraksha/छात्राणां राजनीतौ प्रवेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                            छात्राणां राजनीतौ प्रवेशः

प्रास्ताविकम्

   वस्तुतः छात्रजीवनमतीव सुखकरं भवति, अस्मिन्नेव जीवने, आगामिसुखस्य आधरभूमि स्थिता। छात्रणाम् जीवनम् दर्पणवत् निर्मलं निश्चलम् च भवति, यथा शिशुः सर्वप्रकारेण प्रसन्नः, चिन्तनिर्मुक्तः, परमानन्दयुक्तः स्वस्थश्च भवति तथैव छात्रोsपि विद्यध्ययनतत्परः स्वतन्त्रः जीविकाजालनिर्र्मुक्तः स्वस्थश्च भवति। छात्राः त्पस्विनः भवन्ति। अतःएवोंsक्तम् छात्राणामध्ययनं तपः" इति। गुरुभक्तिः, अनुशसनम्, श्रद्धा च छात्रेषु परमावश्यकम्। गुरुभक्ता एव छात्राः गुरुर्ब्रह्मा गुरुविष्णुः गुरुर्देवो महेश्वरः इति मत्व स्वजीवनं यापयन्ति ते एव गुरोः आशिषा महत्कार्यम् कुर्वन्ति। गुणग्राहितापि छात्रेषु आवसश्यकरूपेण भवति। छात्राणां जीवनं यदि शुद्धम् सुनियोजितम् सफलम् च भवति भवेत् तर्हि राष्ट्रस्योन्नतिः निश्चिता एव यतः ते एव भाविनः देशकर्णधाराः भवन्ति। अतः सत्यमेव छात्राः देशस्यधारभित्तिकाः सन्ति।
  छात्राणां राजनीतौ प्रवेशः स्यात् न वेति, विषयोsयं न केवलम् भारते अपितु विश्वस्मिन् जगति प्रतिराष्ट्रं  समस्यरूपेण प्रचरति। अस्मिन् विषये विदुषां प्रचुरो विवादः दृश्यते। विषयोsयं शाश्वतविवादास्पदः। छात्राव्याख्याः गुरोः छत्रम् इति छात्रः, जीवनपर्यन्तम् यः शिक्षार्थ प्रयत्नशीलो भवति सः छात्रः।

छात्राणां कर्तव्यम्- विषयोsस्मिन् समेषामपि सुधियाम् एकमत्यं यत् छात्राणां अध्ययनं प्रमुखं कर्म। विद्योपदानम्। गुणार्जनम्, चरित्रोन्नतिः, शारीरिक-मानसिक-नैतिक्-बलाधानम्, पुष्टत्वम् च सदैव छात्रेष्वभीष्यते। विंशतिवर्ष यावद् ब्रह्मचर्यसश्रमकालो विद्याध्ययनकामलश्च। अस्मिन् काले सद्गुणेश्यभिरुचिः अध्ययने प्रवृतिः गुणार्जनेsभिनिवेश्च काम्यते। के छात्राणां राजनीतौ प्रवेशं प्रोत्साहन्ति ते वदन्ति शिक्षणं एव साक्षरतं नास्ति इति परन्तु शिक्षणं छात्राणां व्यक्तित्व वृद्धिरिवं प्रोत्साहति। छात्राणां राजनीतौ सहभागं तु तस्य व्यक्तित्वस्य संमति प्रति नयति। तस्य देशस्य स्थितिम् किमर्थम् इति आसीत् इति सः ग्नानम् प्राप्तवान्। तस्य मनसि नेतृत्व भावम् आगच्छति। सः (छात्रः‌) लज्जेन भरितः, भीरुः, भीतः च न भवति अपि तु सः प्रबलः, विगृह्यः, सतर्कः च भवति। साम्प्रतिकीस्थितिः - सत्यमेतद् यद् गुणार्जनं विद्याग्रहणम् चारित्रिकोन्नतिश्च छात्रणां प्रमुखं कर्तव्यम्। परं को न जानति देशस्य विदेशस्य वा साम्प्रतिकीं लोकस्थितिम्। न हि साम्प्रतं प्राक्कालवद् जीवने निक्षिन्तता, धनाधान्यावाप्तिः, सुखसौविध्यम्, अनासक्तत्वम् सर्वविषयविनिवृत्तिश्च। न केवलं भारतेsपितु समग्रेsपि भुवने शान्तिर्मृगतृष्णेव वर्तते। क्षुत-पिपासामन्तापः सन्तापयति जीवनमखिलं भुवनं निखिलं च। अन्न-वस्त्राद्यभावः समग्रविश्ववद् भारतमपि अतितरां शोषयति। वृत्यभावः, आजीविका-साधनानाम् अभावः, जीवनोपयोगिवस्तुतूनाम् दुरवापता च कं न प्रेरयति जीवनोद्देश्यानां पुनर्मूल्यान्कने समयानुकूलगतिविधिसंचालने च। छात्राः राजनीतौ प्रवेशम् कुर्युः न वेति प्रतिपदम् प्रतिविद्यालयं प्रतिविश्वविद्यालयम् च चर्चविपयो विचारविनिमयविषयश्च। ये राजनीतौ प्रवेषं लभन्ते, कृत्येन अकृत्येन दुष्कृत्येन व नेतृत्वम् भजन्ते। तेषमेव राज्यसंचालने च प्राधन्यं। राजनीतिरहितस्य जनस्य मुनेरिव जीवनम् निवृत्तिप्रधनम् एकान्तवासप्रमुखम् च। सर्वत्र नेतृणामेव गतिः प्रगतिः सद्गतिश्च। नेतरो नेतृपुत्रा नेतृसम्भन्धिश्च सर्वतो भरतभुवम् अकालमेघवद् दुर्भिक्ष- अन्नद्यभाव-भ्रष्टाचारादिकम् अशुभम् सूचयन्त आच्छादयन्ति। आचारणे अनाचारणे दुराचारणे वा यत् तैः क्रियते तत् चाटुकारैर्देवकृत्यवत् प्रशास्यते स्तूयते च। पराधीनतापशानिगडिते भारतवर्षे महात्मागान्धिप्रभृतिभिर्नेतृभिः स्वातन्त्र्ययुद्धे आत्मबलिदानं कर्तृ राष्ट्रहितं च विधातुं छात्रा उद्बोधिताः। 1942 ईसवीये भारतभुवम् त्यजत आन्दोलने भारतीयैश्छात्रैः किम् किम् न बलिदनम् कृतम्। एकतः सत्याग्रहादिकर्मसु प्रवृतैश्चत्रैर्महात्मन आन्दोलनम् समर्थितुम्, अपरतश्च रामप्रसाद बिस्मिल-चन्द्रशेखर-भगतसिंह- राजगुरु-राजेन्द्रलाहिरी प्रभृतिछात्रैः उत्तरप्रदेश-बंगदेशादिषु क्रान्तिपूर्णम् आन्दोलनम् प्रवर्तितम्। राजनीतिनिरोध: - छात्रः अभिभावकाः अध्ययनप्रवणा अध्येतारश्च सततं काम्यते यन्न स्याद् अस्माकम् राजनीतौ प्रवेशः परं प्रतिपदं संलक्ष्यते यत् छात्रसंधमाध्यमेन स्वार्थप्सुभिर्नेतृभिश्छात्रवर्गे स्वस्ववादप्रचारर्थम् ते प्रबोध्यन्ते, आदिश्यन्ते, निर्दिश्यन्ते धनाधिभिः समर्थ्यन्ते च। के छात्राणां राजनीतौ प्रवेशं लम्बयन्ति ते वदन्ति राजनीतिः तु कलुषितम् अस्ति। छात्राणां राजनीतौ प्रवेशम् तेन जीवनेन भागम् कल्पयति अपि तु शाश्वत वैरत्वम् अपि कल्पयति इति। राजनीततिं छात्राणां मनःशान्तिः अपि विलक्षी करोति। छात्राणां प्राथमिक ध्यानम् तु शिक्षणम् प्रति अस्ति। राजनीतिः इदं विलक्षी करोति इति जनाः वदन्ति। शिक्षणं छात्राणां तपः इति वदन्ति। शिक्षणम् त्यक्त्वा राजनीतौ प्रवेशं उचितम् नास्ति इति कश्चित् जनाः वदन्ति। राजनीतौ प्रवेशः छात्रणां अधुकारः अस्ति। महात्मना उक्तम्-यत्-राष्ट्रस्य भविष्यम् वर्गखण्डे अस्ति। छात्राः देशस्य सम्पत्तिः। अस्याः सम्पत्याः यदि सदुपयोगो भवति चेत् राष्ट्रस्य निर्मणे न कापि बाधा भवेत् अन्यथ यदि अस्या दुरुपयोगः भवेत् चेत् राष्ट्रं पतिष्यति एव। राष्ट्रनिर्माणे, समाजसेवयै, छात्रैः राजनीतौ शुद्धबुद्धचरित्रैः प्रवेशः अवश्यमेव कर्तव्यः स्वार्धलिप्सुछात्रैः अत्र प्रवेशो न कर्तव्यः। सदाचारिणः सेवव्रता छात्राः एव राष्ट्रनिर्माणे प्रवृत्ता भवन्ति। तु भुजंजिह्वावत् अस्ति। विचारदित्व राजनीतिः करणीया इति।