सदस्यः:Mukipandey
भाषायाः उद्गमाविकाससिद्धान्ताः
अत्र प्रथमा या वार्ता विद्यते सा तू सर्वासु पशुपक्षिषु अन्येषु जीवेषु प्राप्यते । तेषां समीपे ध्वनितन्त्रम् अर्थात् मुखं विद्यते । तेन मुखेन ते स्वाभिप्रायान् अस्पष्टतया प्रकटेयन्ति । तेषाम् समीपे व्यक्तवाचः अभावो विद्यते । ते कावँ - कावँ , चीं- चीं , म्याँऊ - म्याँऊ इत्यादयः अस्पष्टध्वनयः उच्चारयन्ति । परन्तु मनष्येषु इयं क्षमता अर्थात् स्पष्टोच्चारणस्य क्षमता जन्मतः प्राप्ता वर्तते । अतः ते स्पष्टवाचा स्वाभिप्रायं प्रकटयन्ति । विचारणीयो विषयो विद्यते यत् मनुष्यः सर्वप्रथमं शब्देन साकं अर्थस्य सम्बन्धः कथं स्थापितवानिति । भाषोत्पत्तिविषयकाणाम् अनेकेषां सिद्धान्तानां प्रचलनानन्तरमपि भाषायाः उत्पत्तैः सम्बन्धं निश्चितं निर्णयात्मकं च उत्तरं न प्राप्तम् , एतदर्थं अ भाषावैज्ञानिकैः भाषाविज्ञानक्षेत्रात बहिर्निष्काषितः षषष्ट्युत्तर - अष्टादशशततमे ( 1866 ) वर्षे पेरिसदेशे भाषाविज्ञानस्य Law society the linguistique नाम्ना एकस्याः समितेः स्थापना अभवत् । समितेः अधिनियमे निर्देश आसीत् यत् भाषायाः उत्पत्तिः तथा विश्वभाषायाः निर्माणम् इति उभयोरपि विषययोः उपरि चर्चा नैव भविष्यति । अस्य बहिष्करणस्य मूलकारणम् एतदेवासीत् यत् भाषोत्पत्तिविषयकसिद्धान्तः अनुमानाश्रितः परन्तु विज्ञानं तथ्याश्रितमेव । भाषायाः मूलरूप अप्राप्यं भवति । अतः भाषा विज्ञानम् अस्मिन् क्षेत्रे असामर्थ्य प्राकटयन् अयं विषयः दर्शनस्य , मानवविज्ञानस्य , समाजविज्ञानस्य च विषय इति निरदिशत् । वस्तुतः प्रसङ्गेस्मिन् भाषायाः उत्पत्तिविषये विविध वादाः सिद्धान्ताश्च लक्ष्यन्ते । यथा - 1. दिव्योत्पत्तिसिद्धान्तः 2. संकेतसिद्धान्तः 3. ध्वन्यनुकरणसिद्धान्तः 4 . आवेगसिदधान्तः 5. रणन - सिद्धान्तः 6. श्रमध्वनिसिद्धान्तः इंगितसिद्धान्तः 8. संपर्क - सिद्धान्तः संगीतसिद्धान्तः 10. प्रतीकसिद्धान्तः 11. समन्वय - सिद्धान्तः 12.प्रतिभसिद्धान्तः इत्यादयः सिद्धान्ताः सन्ति। इत्येतदन्यतमेषु केचन सिद्धान्ताः अत्र प्रस्तूयन्ते तेषु यथा 1दीव्योत्पत्तिसिद्धान्तः मतमिदम् अतीवप्राचीनम् । अस्य मतस्य कथनं विद्यते यत् परमात्मना सृष्टिः कृता तथैव मानवानां कृते काचित् एका परिष्कृता भाषा निर्मिता प्रदत्ता च । अस्मिन् मते प्रत्येकस्मिन् कार्ये दैवी शक्तेः सत्ता विद्यते । सा च शक्तिः सृष्टेः आरम्भे वैदिकज्ञानं दत्तवती मानवाः स्वकार्यकरणे समर्थाः अभवन् । अनेन प्रकारेण 1 वैदिकसंस्कृतभाषा आदिभाषायाः रूपं प्राप्तवती । अपौरुषेयः वेदः । वेदः ईश्वरेण विरचितः । प्रसङ्गेस्मिन् वेदोपनिषदादि तथा दर्शनस्मृतिग्रन्थादिषु बहुशः प्रमाणानि उपलभ्यन्ते - देवीं वाचमजयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । तस्मात् यज्ञात् सर्वहुत ऋचः समानिजज्ञिरे । छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत । अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थम् ऋग्यजुः सामलक्षणम् ।। सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे || अउण् इत्यादि चतुर्दशमाहेश्वरसूत्राणि भगवतः शिवस्य डम्बरूनादेन उत्पन्नानि इति ज्ञायन्ते । अत्रापि भाषा दिव्योत्पत्तेः सूचको व नृत्तावसान नटराजराजो ननादढक्कां नवपञ्चवारम् ।। संस्कृतम् आदिभाषा विद्यते । सर्वे सम्प्रदायाः स्व स्वभाषाम् आदिमभाषा इति कथयन्ति । यथा - जैनेन बौन च अर्धमागधी पालीभाषां , ईसाई जनाः यहूदी जनाः च हिब्रूभाषां , मुसल्लिमजनाः कुरानस्य भाषा अरबीभाषाम् आदिमभाषा इति कथयन्ति । जर्मन् विद्वान् मुसमिल्शमहोदयः दिव्योत्पत्तेः समर्थनं कुर्वन् कथयति भाषा मानवकृता नास्ति अपितु परमात्मना प्राप्तं उपहारं बियते इति । - 2संकेतसिद्धान्तः - ( Agreement Theory ) अस्य सिद्धान्तस्य अपर नाम निर्णयवादः , स्वीकारवादः निर्णयसिद्धान्तो वा वर्तते । अस्य सिद्धान्तस्य मूलप्रवर्तकः अष्टादशशताब्दयाः प्रसिदधः फ्रेंच विचारकः रूसोमहोदयः आसीत् । अस्य प्रवर्तकस्य मख्याभिप्रायो विदयते यत् - प्रारम्भे मनुष्याः पश्वत् शिरश्चालनादि आंगिकचेष्टया संकेतैर्वा स्वाभिप्रायं प्रॅकटयन्तः आसन् । परन्तु अनेन माध्यमेन सर्वविधकार्यस्य सिदूधिः नैव संजातः अतः ग्रामस्य मुख्याः सभायाः आयोजनं कृत्वा प्रति वस्तूनां नाम निर्धारणं कृतवन्तः । एतत् सामाजिकनिर्णयम् अपि वक्तुं शक्यते । अनेन निर्णयेन ध्वन्यात्मकसंकेतस्य उत्पत्तिः अभवत तथा तस्मात् भाषा प्रादुर्भूता । प्रसंगेस्मिन् काव्यालंकारे भामह वदति
3ध्वन्यनुकरणसिद्धान्त : ( Onomatopoic Theory , Bow - Bow Theory , Echoic Theory ) - अनुकरेणमूलकतावादः शब्दानात्मकाकरणसिद्धान् - वादः कः - कः = इत्यादिभिः नामभिः अयं सिद्धान्तः सुपरिचितः । अस्य सिद्धान्तस्य अभिमतम एवं वर्तते यत् - प्राकृतिकवस्तु तथा पशुपेक्ष्यादितः यथा ध्वनिः निर्गच्छति तदन तस्य वस्तुविशेषस्य नामकरणं भवति । यस्मात् पदार्थात यथा ध्वनिः निस्सरेति तदनु तस्य पदार्थस्य नामापि तथैव भवति । इत्थं भाषायाः रचना अभवत् । यथा - कॉव - काव ध्वनितः काकः ध्वनितः कोयल ( पिकः ) झर झर ध्वनितः निर्झरः , पेट् - पट् ध्वनितः पटाखा आदयः श्रावण - प्रत्यक्षवत चाक्षुष प्रत्यक्षाधारेणापि शब्दाः निर्मीयन्ते । यथा हिन्दयाँ चमाचम् , जगमग चकमक इत्यादयः । ध्वन्यनमूलककतिपयनामानि बाल्ये बालाः आकारयन्ति परन्तु स च ध्वैनिः क्रमशः प्रसिद्धिं प्राप्नोति । यथा म्याऊँ कथनेन मार्जारस्य बोधः , भों - भों कथने। 4 आवेगसिद्धान्तः ( Interjectional Theoryन कक्करस्य बोधो जायते । न्वारे महोदयानूसारं एतादृशेभ्येः शब्देभ्यो भाषायाः उत्पत्तिः अभवत् इति , Pooh - Pooh Theory ) मनोभावाभिव्यञ्जकतावादः , मनोभावाभिव्यक्तिवादः पह इत्यादयः पह = · मनोरागव्यञ्जकशब्दमूलकतावादः सिद्धान्तस्य नीमान्तराणि वर्तन्ते । अस्य सिद्धान्तस्य अयमेवाशयः वर्तते यत् - आदिकालतः मनुष्यः स्वकीय हर्ष - शोक - विस्मय - भय - घृणा क्रोधादिभावान् प्रकटीकर्तुं शब्दस्य ध्वनेः वा उच्चारणं कृतवानासीत करोति च । क्रमशः स च ध्वनिः भाषोत्पत्तेः कारणम अभवत् । यथा - हर्षावेगवशात् मनुष्यस्य मुखात् अहो , आहा , वाह इत्यादयः ध्वनयः स्वतः निर्गच्छन्ति तथैव क्रोधात् आः , घृणावशात् छिः धिक् इत्यादयः निर्गच्छन्ति । आवेगसूचकध्वनिनां प्रयोगेण प्रारम्भे मनुष्यः स्वकीयमनोभावान् प्रकटयति स्म । पुनः क्रमेण भाषणशक्तेः विकासः अभवत् । सा च शक्तिः भाषोत्पत्तेः कारणम् अभवत । ·5 रणनसिद्धान्तः ( Ding - Dong Theory ) धातुसिद्धान्तः , अनुकरणमूलकतावादः , डिंग डांगवादः इति अस्य सिद्धान्तस्य विविधानि नामानि वर्तन्ते । अस्य सिद्धान्तस्य मूलप्रवर्तकः प्लेटोमहोदयः । अस्य मतानुसारं शब्दार्थयोः कश्चन रहस्यात्मक - स्वाभाविको सम्बन्धो विद्यते । कथनस्य अयमभिप्रायो यत् प्रकृतौ कश्चन सामान्यनियमो वर्तते यत् कमपि वस्तूविशेषं यदा वयं नोदयामः तदा तस्मात् विशेषध्वनिर्निर्गच्छति । स च ध्वनिः तस्य वस्तुविशेषस्य विशेषता एव भवति । यथा - लौहः , काष्ठम् , टिन् , कांच इत्याि कश्चित एकः विशेषध्वनिः निर्गच्छति , स च ध्वनिः रणननाम्ना परिचीयते । अयं च रणनध्वनिः भाषा उत्पत्तेः कारणमिति अस्य सिद्धान्तस्य अभिमतं वर्तते । श्रमध्वनिसिद्धान्तः ( Yo - He Ho Theory श्रमापहारमूलकतावादः आहोसित यो - हे - हो अस्य सिद्धान्तस्य पर्यायपदानि वर्तन्ते । अस्य सिद्धान्तस्य मूलप्रवर्तकः न्वारे । अस्य अयमेव आशयः वर्तते यत् मनुष्यः यदा शारीरिकपरिश्रमं करोति तदा श्रमवशात् श्वासप्रश्वासे तीव्रता आयाति । परिश्रमे न केवलं मांसपेशादिषु बलं दीयते अपितु स्वरतन्त्रेषु संकोच