सदस्यः:NehalDaveND/प्रयोगपृष्ठम्/102

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

बहुदृष्ट्या |

संसद्‍ (भारतम्)

संसद् लोकतन्त्रस्य अभिन्नाङ्गम् अस्ति । संसदः कार्यपालिका, विधायिका इत्येते नामान्तरे स्तः । लोकतन्त्रव्यवस्थायाः वर्गीकरणं त्रिषु अङ्गेषु भवति - व्यवस्थापिका, कार्यपालिका, न्यायपालिका च । एतेषु व्यवस्थापिकायाः महत्त्वम् अधिकम् अस्ति । यतो हि कार्यपालिकायाः, न्यायपालिकायाः च नियमनस्य दायित्वं व्यवस्थापिकाप्रणाल्याः पार्श्वे भवति । केचन बुद्धिजीविनः कथयन्ति यत्, “भारतीयसंविधानम् आङ्ग्लानाम् अनुसरणं कृत्वा निर्मितम् । अतः वयम् अद्यापि वैचारिकपरतन्त्रतायाः पाशे बद्धाः स्मः” इति । परन्तु अत्र श्माम लाल शकधर इत्यस्य कथनं स्मरणीयम् – ब्रिटिश्-सर्वकारात् यद् वयं प्राप्तवन्तः, अस्माकं भारतीयसंस्कृत्यानुसारं यत् आवश्यकम् आसीत् च, तत्सर्वं मेलयित्वा वयं भारतीयसंविधानस्य निर्माणम् अकुर्म । संविधाननिर्माणे वयम् अन्यदेशानाम् अनुभवस्य लाभं स्व्यकुर्म । अस्माकं संसदीयशासनव्यवस्था अस्माकं विचाराणां फलम् अस्ति । कोऽपि विदेशी एतां व्यवस्थाम् अस्मत्सु न आरोपयत् ।

(अधिकवाचनाय ») |

विषरहितान्नोत्पदानार्थं साम्प्रदायिककर्षणम्

कृषिः शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते । एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता । लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति । अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति । कृषिः एका प्राथमिकी क्रिया अस्ति । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति ।

(अधिकवाचनाय ») |

महादेवी वर्मा

महादेवी वर्मा हिन्दीभाषायाः प्रतिभावातीषु कवयित्रीषु अन्यतमा । हिन्दीसाहित्यस्य छायावादियुगस्य प्रमुखेषु चतुर्षु स्तम्भेषु प्रमुखस्तम्भत्वेन तस्याः गणना भवति । आधुनिकहिन्दीभाषायाः सर्वाधिकरचनात्मकशक्यत्याः उत्तमा कवयित्री सा आधुनिकमीरात्वेन प्रसिद्धा अस्ति । सूर्यकान्त-इत्याख्येन एकेन कविना तस्यै “हिन्दीभाषायाः विशालमन्दिरस्य सरस्वत्याः” उपाधिः प्रदत्तः । महादेव्या स्वतन्त्रतायाः पूर्वतनस्य भारतस्यापि दर्शनं कृतम् आसीत्, तथा च स्वातन्त्र्योत्तरस्य भारतस्यापि सा साक्षिणी आसीत् । सा तासु कवियित्रीषु अन्यतमा आसीत्, याभिः व्यापकक्षेत्रे कार्यं कृत्वा भारतस्य आन्तरिकः हाहाकारः, जनानां रुदनं च अनुभूतम् । अतः व्यापकक्षेत्रे कार्यं कुर्वती सा अन्धकारं दूरीकर्तुं प्रयत्नम् अकरोत् । न केवलं तस्याः काव्यानि, अपि तु तस्याः सामाजोन्नत्याः कार्याणि, महिलाजागृत्याः कार्याणि च जनान् प्रभावयन्ति । सा स्वमनसः पीडां सलीलं, शृङ्गारेण च उपास्थापयत् । अतः दीपशिखा-इत्याख्ये पुस्तके पाठकाः, समीक्षकाः च अतिप्रभाविताः अभूवन् ।

(अधिकवाचनाय ») |

कस्तूरबा गान्धी

कस्तूरबा गान्धी महात्मनः अर्धम् अङ्गम् । भारतीयस्वतन्त्रतासङ्ग्रामे तस्याः महत् योगदानं वर्तते । स्वास्थ्यस्य विचारमपि अकृत्वा सत्याग्रहान्दोलनाय स्वयोगदानम् अयच्छत् सा । उन्नतपर्वतस्य समीपस्थानि लघुशिखराणि यथा स्वस्य औन्नत्यं सिद्धं कर्तुं न शक्नुवन्ति, तथैव महात्मनः विशालव्यक्तित्वस्य छायायां कस्तूरबा स्वप्रतिभां सिद्धयितुं न शक्तवती । परन्तु उन्नतपर्वतस्य औन्नत्यस्य आधारस्तु समीपस्थानि लघु शिखराणि एव भवन्ति । तथैव महात्मनः विशालव्यक्तित्वस्य एकः आधारः कस्तूरबा अपि आसीत् । सा सुख-दुःखेषु महात्मना सह स्थित्वा पत्नीधर्मस्य, राष्ट्रधर्मस्य च उत्तरउत्तरदायित्वंम् अवहत् ।

(अधिकवाचनाय ») |

भगिनी निवेदिता

भगिनी निवेदिता इति स्वामिविवेकानन्देन प्रदत्तं नाम । तस्याः वास्तविकं नाम तु मार्गरेट् एलिजबेथ् नोबल् आसीत् । भारतस्य स्वतन्त्रतासङ्ग्रामे तस्याः अपि अविस्मरणीयं योगदानं वर्तते । मेडलीन् स्लेड्, एनी बेसन्ट् सदृशम् एषा अपि भारतमातुः विदेशिपुत्री । एषा अपि सर्वस्वं त्यक्त्वा भारतस्वतन्त्रतायै योगदानम् अयच्छत् । मेडम कामा-द्वारा निर्मितस्य "वन्दे मातरम्"-ध्वजस्य अनुसरणं कृत्वा अनया अपि भारतीयराष्ट्रध्वजस्य निर्माणे स्वयोगदानं कृतम् । स्वामिविवेकानन्दस्य जीवनीलेखने अपि एतस्याः महत्योगदानं वर्तते ।

(अधिकवाचनाय ») |

पार्श्वनाथः

पार्श्वनाथः जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु त्रयोविंशतितमः तीर्थङ्करः अस्ति । भगवतः पार्श्वनाथस्य वर्णः नीलः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं सर्पः अस्ति । भगवान् पार्श्वनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयः च आसीत् । कौमारावस्थायां पार्श्वनाथस्य शरीरस्य औन्नत्यं नव (९) हस्तमात्रात्मकम् आसीत् । भगवतः धार्मिकपरिवारे “पार्श्व” इत्याख्यः यक्षः, “पद्मावती” इत्याख्या यक्षिणी च आसीत् ।


(अधिकवाचनाय ») |

हेलेन् केलर्

हेलेन एड्मन्स् केलर अन्धा, बधिरा, मूका चासीत् । परन्तु सा अन्येभ्यः मूकबधिरान्धेभ्यः, सामान्यनागरिकेभ्यश्च प्रेरणायाः स्रोतः आसीत् । यतो हि ज्ञानेन्द्रियविहीना हेलेन केलर स्वप्रयत्नैः, अविरतकार्यैः च विश्वस्मिन् अनेकानि कठिनतमानि कार्याणि अकरोत् । अमेरिका-देशीया हेलेन केलर लेखिका, राजनीतिज्ञा, प्राध्यापिका चासीत् । सा प्रप्रथमा मूका, बधिरा च व्यक्तिः आसीत्, यया स्नातकपदवी प्राप्ता । तुस्कुम्बिया-नगरस्य पश्चिम-भागे यत्र हेलेन इत्यस्याः जन्म अभवत्, तत्र सद्यः एकः सङ्ग्रहालयः (museum) वर्तते । हेलेन केलर इत्यस्याः जन्मदिने जून-मासस्य सप्तविंशतितमे (२७) दिनाङ्के अमेरिका-देशस्य पेन्सिलवेनिया-राज्ये हेलेन केलर-दिनस्य आचरणं भवति । हेलेन केलर-दिनस्य आधिकारिकघोषणा जिम्मि कार्टर्-आख्येन राष्ट्रपतिना १९८० तमे वर्षे कृता, तत् वर्षं हेलेन केलर इत्यस्याः जन्मशताब्दीवर्षम् आसीत् ।

(अधिकवाचनाय ») |

विजयनगरसाम्राज्यम्

विजयनगरसाम्राज्यस्य स्थापना कर्णाटकराज्ये चतुर्दशशतकस्योत्तरार्धे अभवत्। कर्णाटकस्य इतिहासे अत्यन्तं प्रमुखघटना एषा इति इतिहासकाराः वदन्ति । विजयनगरसाम्राज्यं १३३६ तमे वर्षे हरिहरः (हक्क) तथा बुक्करायः इति सहोदराभ्यां संस्थापितम् । अस्य साम्राज्यस्य राजधानी आसीत् विजयनगरम् । विजयनगरम् इदानीन्तनस्य कर्णाटकस्य "हम्पी"प्रदेशः । कृष्णदेवरायस्य शासनावसरे एतत् साम्राज्यम् उत्तुङ्गस्थितिं प्राप्नोत् । यद्यपि १५६५ तमे वर्षे ताळीकोटेयुद्धे अस्य साम्राज्यस्य पराभवः जातः तथापि पुनरेकं शतकं यावत् लघुप्रमाणेन शासनम् अकरोत् । तदानीन्तनकालस्य दक्षिणभारतस्य राज्यानि इण्डोनेशियापर्यन्तम् अपि प्रभावस्य प्रसारम् अकुर्वन् । विशालः आग्नेय-एषिया-प्रदेशः अपि एतेषाम् अधीने आसन् । कालान्तरे हिन्दुराजवंशाणां बहमनिसुल्तानानां च परस्परं कलहः आरब्धः । तस्य परिणामरूपेण तावत्पर्यन्तं दूरे एव स्थितयोः हिन्दु-मुस्लिं-संस्कृत्योः परस्परं सम्पर्कः सञ्जातः । कला-शिल्पकलाक्षेत्रे विजयनगरसाम्राज्यस्य योगदानं महत् अस्ति । कन्नडं,तेलुगुभाषा, संस्कृतभाषायाःइत्यादिभाषासाहित्ये अपि तेषां योगदानम् अविस्मरणीयम् । अस्य साम्राज्यस्य पतनस्य कारणीभूताः उत्तरभारते साम्राज्यस्थापनं कृतवन्तः सुल्तानाः । एते सुल्तानाः रजपूतानां स्थानस्य देहल्याः समीपे एव प्रथमं राज्यस्थापनम् अकुर्वन् । विजयनगरसाम्राज्यस्य पतनेन सह २००० वर्षाणि यावत् पुरातनी भारतस्य अभिजातसंस्कृतिः ह्रासमार्गम् आप्नोत्, भारतीये इतिहासे नवः अध्यायः च आरब्धः ।

(अधिकवाचनाय ») |

मदनमोहनमालवीयः

मदनमोहनमालवीयः इत्याख्यः महापुरुषः अस्मिन् देशे जातः । श्रीमालवीयः अत्यन्तप्रज्ञावान् । मेधाविनः, प्रतिभावतः तस्य जन्मना न केवलं पितरः, अपि तु देशोऽपि भाग्यशाली अभवत् । उत्तरभारते झान्सीपट्ट्णस्य समीपे मालवा इति प्रदेशः अस्ति । मालवीयस्य पूर्वजाः तत्र आसन् । नाम्नः अन्ते निवासप्रदेशस्य योजनम् एकः सम्प्रदायः । मालवीयस्य पितामहः प्रेमधरः उत्तमां ख्यातिम् अर्जितवान् आसीत् । १८५७ तमे वर्षे आङ्ग्लेयान् एतस्मात् देशात् प्रेषयितुं झान्सीराज्ञी लक्ष्मीबाई,नानासाहेबः, तात्याटोपे इत्यादयः वीराः अत्यन्तं साहसं प्रदर्श्य युद्धं कृतवन्तः । तेषां प्रयत्नाः सफलाः न जाताः । भारतदेशः आङ्ग्लसाम्राज्यस्य कश्चन भागः अभवत् । तेन भारतीयजीवने महान् परिणामः जातः । धनिनः, मध्यमवर्गीयाः जनाः आङ्ग्लेयान् अनुकुर्वन्ति स्म । वेषभाषासु, जीवनविधाने च एते परिणामाः स्पष्टं दृष्टाः ।

(अधिकवाचनाय ») |

Badge of the Indian Air Force.svg

भारतीया वायुसेना भारतस्य सशस्त्रसेनायाः कश्चन भागः । सर्वकारीयसुरक्षामन्त्रालयेन नियन्त्रिता इयं संस्था आकाशयुद्धम्, लोकरक्षणस्य महत्वपूर्णकार्यं सर्वदा करोति । अस्य आरम्भः सा.श. १९३२तमवर्षस्य अक्टोबर् मासस्य अष्टमे दिने अभवत् । सम्पूर्णगणतन्त्रात् पूर्वमेव अस्य नाम रायल् इण्डियन् एर्फोर्स् इति आसीत् । सा.श. १९४५तमवर्षस्य द्वितीयविश्वयुद्धे अस्याः सेनायाः महत्त्वपर्णं योगदानम् आसीत् । भारतस्य स्वातन्त्र्योत्तरं रायल् इति पदम् अपनीय इण्डियन् एर्फोर्स् (भारतीयवायुसेना) इति नाम रक्षितम् । स्वातन्त्र्योत्तरं पार्श्वदेशेन पाकिस्तानेन सह सम्भूतेषु चतृषु युद्धेषु, चीनादेशेनसह सञ्जाते एकस्मिन् युद्धे भारतीयवायुसेनायाः योगदानम् अनुपमम् अस्ति । एतावति काले इयं सेना अनेकेषु युद्धप्रकल्पेषु परिणामम् अदर्शयत् । भारतीयवायुसेना विजयः इति गोवामुक्तिसङ्ग्रमे, आपरेशन् मेघदूतम्, आपरेशन् कैक्टस्, आपरेशन् पुमलायी, इत्यादिषु युद्धप्रकल्पेषु आत्मसात् कृत्वा यशोवती अभवत् । कांश्चन विवादान् अतिरिच्य भारतीयवायुसेना संयुक्तराष्ट्रसङ्घस्य शान्तिमिश्न् सङ्घटनस्यापि सक्रियः सदस्यः । भारतस्य राष्ट्रपतिः वायुसेनायाः मुख्यसेनापतिः (कमाण्डर् इन् चीफ्) इति कार्यं करोति । वायुसेनाध्यक्षः एर् चीफ् मार्शल् (ए.सि.एम्) चत्वारिनक्षत्रधारी सेनपतिः वायुसेनायाः नेता भवति । भारतीयवायुसेनायाम् एकस्मिन्नेव काले अनेके एर् चीफ् मार्शल् सेवायां न भवन्ति । अस्य प्रधानकार्यालयः नवदेहल्याम् अस्ति । सा.श. २००६तमवर्षस्य गणनानुगुणम् आहत्य १७०००० सैनिकाः, १३५० लडाकूविमानानि, सन्ति । इयं सेना विश्वस्य चतुर्थी बृहद्वायुसेना इति स्थानम् आप्नोत् ।

(अधिकवाचनाय ») |

जैनमतम्

जैनदर्शनं (Jainism) भारतीयदर्शनेषु अन्यतमं वर्तते । चार्वाकविचारधारायाः अनन्तरं नास्तिकदर्शनेषु जैनदर्शनस्य महत्त्वपूर्णं स्थानमस्ति । चार्वाकमतस्य स्थूलतत्त्वानां चिन्तनस्य अपेक्षया सूक्ष्मचिन्तनं प्रति चिन्तनस्य प्रावाहिकता जैनदर्शने दृश्यते । यत्र चार्वाकः शरीरमेवात्मानं स्वीकरोति तत्र जैनदर्शनेन आत्मा इति शरीरातिरिक्तम् अभौतिकं तत्त्वं स्वीकृतम् । तच्च शरीरपरिमाणं मध्यमपरिमाणं वाऽभिमतम् । वैदिकदर्शने प्रायेणेदं प्रतिपादितमस्ति यदात्मा अणुपरिमाणो महत्प्रमाणो वाऽस्ति-‘अणोरणीयान् महतो महीयानिति' । अणुपरिमाणस्य महत्परिमाणस्य वा नित्यत्वात् आत्मा नित्योऽस्ति इति वैदिका मन्यते । तन्मतानुसारेण मध्यमपरिमाणात्मकाः पदार्था अनित्याः सन्ति । जैनदर्शने मध्यमपरिमाणः आत्मा नित्योऽस्ति । स भौतिकपदार्थवत् अनित्योऽस्ति ।

(अधिकवाचनाय ») |

Yoga Meditation Pos-410px.png

अष्टाङ्गयोगः अर्थात् योगस्य अष्टानाम् अङ्गानां समूहः । पातञ्जलयोगसूत्रे उ्ल्लेखः वर्तते यत्, यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोsष्टाङ्गानि ।।२.२९।। इति । अनेन सूत्रेण एव राजयोगनामकस्य अध्यायस्य आरम्भः भवति । एतानि अष्टाङ्गानि एव राजयोगत्वेन पतञ्जलिमूनिना प्रोक्तानि । अतः एतस्य राजयोगस्य नामान्तरम् एव ‘अष्टाङ्गयोगः’ इति । पतञ्जलिमुनिः अष्टाङ्गयोगस्य भागद्वयम् अकरोत् । बहिरङ्गः, अन्तरङ्गश्चेति ।

(अधिकवाचनाय ») |

प्यारासिंह गिल

डॉ. प्यारासिंह गिल इत्येषः प्रख्यातः भौतिकविद् । ब्रह्माण्डकिरणानाम् (Cosmic Ray) अनुसन्धाने अग्रणीः सः १९५१ तः १९६३ पर्यन्तं गुलमर्ग-अनुसन्धान-वेधशालायाः निदेशकपदं व्यभूषयत् । ततः १९६३ तः १९७१ पर्यन्तं केन्द्रियवैज्ञानिकोपकरणसङ्घटनस्य (चण्डीगढ) निदेशकत्वेन उत्तरदायित्वम् अवहत् । मॅनहॅटन्-प्रकल्पे अपि तस्य महत्त्वपूर्णं योगदानम् आसीत् ।


(अधिकवाचनाय »)

|

ज्ञानी जैल सिंह

श्रीज्ञानी जैल सिंह भारतस्य सप्तमः राष्ट्रपतिः । अस्य नाम्ना ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खविरोधिहिंसायाः च स्मरणं भवत्येव । भारतस्य तयोः हृद्व्रणयोः दोषी कः इति पञ्चत्रिंशत्वर्षपश्चाद् अद्यापि प्रश्न एवास्ति । अतः देशजनाः खिन्नमनसा श्रीज्ञानी जैल सिंह इत्येनं स्मरन्तः सन्ति । परन्तु सत्यता तु अस्ति यत्, देशस्य हृदि यथा ‘ऑपरेशन् ब्लू स्टार्’ इत्यस्य, सिक्खहिंसायाः च पीडा अस्ति, तथैव तस्य हृदि अपि आसीत् । स्वयं सः, तस्य पुत्री च बहुवारं तयोः व्रणयोः विषये स्वपीडां देशस्य सम्मुखम् उपास्थापयत् । (अधः यत् चलच्चित्रस्य परिसन्धिः अस्ति, ताम् अवश्यमेव पश्यन्तु । भवतां सत्यतायाः सम्यक् ज्ञानं भविष्यति ।) सः देशभक्तः, धार्मिकसिक्ख-जनः, योग्यराष्ट्रपतिः च आसीत् ।

(अधिकवाचनाय »)

|

कारगिलयुद्धम्

कारगिलयुद्धं (आङ्ग्ल: Kargil War, हिन्दी: करगिल युद्ध) भारतस्य ऐतिहासिकविजयस्य स्मारकत्वेन इतिहासे अङ्कितम् अभवत् । १५,००० मीतपादौन्नते पर्वते एतत् युद्धं जातम् आसीत् । पाकिस्थानदेशेन कारगिल, द्रास, बटालिक इत्यादिभ्यः स्थानेभ्यः भारतस्योपरि आक्रमणं कृतम् आसीत् । भारतगणराज्यस्य जम्मूकाश्मीरराज्यस्य श्रीनगर-महानगरस्य, लेह-नगरस्य च मध्ये स्थितं राष्ट्रियमहामार्गं ध्वंसितुं पाकिस्थानस्य प्रयासः आसीत् । परन्तु पाकिस्थानस्य सैनिकानां सः प्रयासः भारतीयसैनिकैः खण्डितः । तस्मिन् युद्धे भारतेन पाकिस्थानस्योपरि महान् विजयः प्राप्तः । पाकिस्थानविरुद्धं यत् युद्धं भारतगणराज्यम् अकरोत्, तस्याः युद्धस्य योजनायाः नाम ‘ऑपरेशन् विजय’ आसीत् ।

(अधिकवाचनाय »)

|

भारतस्य राष्ट्रपतिः

भारतस्य राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः । राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां (भूसेना-नौसेना-वायुसेनानां) प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति । एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति । एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत् ।


(अधिकवाचनाय ») |

भारतस्य राष्ट्रध्वजः

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेण सुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् । भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् । राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः (spokes) सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपि रेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।

(अधिकवाचनाय ») |

बेङ्गळूरु

"बेङ्गलूरु"(Bangalore) नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । २००६ तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम् । एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम् । अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति । बेङ्गलूरुनगरे ५१% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति । बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति ।

(अधिकवाचनाय ») |

ब्रह्मगुप्तः

ब्रह्मगुप्तः(५९८-६६८) महान् गणितज्ञः, ज्योतिषी च आसीत् । तस्य जन्म भिल्लमलपुरे अभवत् । सः हर्षमहाराजस्य राज्ये वसति स्म । अयं गणितविषये ज्योतिष्यविषये च बहूनि पुस्तकानि अलिखत् । तदीयं सुप्रसिद्धः ग्रन्थः नाम 'ब्रह्मस्फुटसिद्धान्तः' । एतं ग्रन्थं सः ६२८ तमे वर्षे अलिखत् । अस्मिन् ग्रन्थे २५ अध्यायाः सन्ति । ब्रह्मगुप्तः ५९८ तमे वर्षे भारतस्य राजस्थनमण्डले स्थिते भिन्माल्-नगरे जन्म प्राप्नोत् । अस्य पिता जिष्णुगुप्तः । जिष्णुगुप्तः स्वस्य जीवनस्य महान्तं भागं भिल्लमलपुरे (अद्यत्वे अयं प्रदेशः भिन्माल् इति कथ्यते) एव अयापयत् । तस्मिन् समये राज्ञः व्याघ्रमुखस्य शासनम् आसीत् । अतः एव जनाः ब्रह्मगुप्तं भिल्लमलाचार्यः इति कथयन्ति स्म । ब्रह्मगुप्तः उज्जयिन्यां विद्यमानस्य खगोलवीक्षणकेन्द्रस्य प्रमुखः आसीत् । अस्मिन् समये तेन गणित-ज्योतिष्यविषययोः चत्वारः ग्रन्थाः लिखिताः - चण्डमेखला (६२४ तमे वर्षे), ब्रह्मस्फुटसिद्धान्तः (६२८ तमे वर्षे), खण्डखाद्यकम् (६६५ तमे वर्षे) । तेषु ब्रह्मफुटसिद्धान्तः अत्यन्तं प्रसिद्धः जातः । अस्य ग्रन्थस्य अराबिक्-भाषया अनुवादः अपि कृतः ।

(अधिकवाचनाय ») |

Asha Bhosle - still 47160 crop.jpg

आशा भोंसले इति अनुपमां भारतीयगायिकां प्रन्तीयभेदेन आषा, आशा भोसले, आशा भोस्ले, इत्यादिभिः नामभिः अभिजानाति । अस्याः जन्म क्रि.श.१९३३तमवर्षस्य सेप्टम्बर् मासस्य अष्टमे दिने अजयत । एषा भारतीयबहुभाषाणां ख्याता गायिका अस्ति । मूलभूतरूपेण एषा हिन्दीभाषायाः चलच्चित्रस्य निपथ्यगायिका इति सुप्रसिद्धा अस्ति । अस्य वृत्तिजीवनं क्रि.श.१९४२तमे वर्षे आरब्धम्। तस्याः वृत्तेः एव षष्ट्यब्दम् अभवत् । सामान्यतः १००० हिन्दीचलच्चित्रस्य नेपथ्यगानानि गीतवती । अपि च अनेकानि गीतगुच्छार्थं गीतवती । भरते अन्यदेशेषु च अस्याः अगणिताः गानगोष्ट्यः अभवन् ।

(अधिकवाचनाय ») |

भारतस्य संविधानग्रन्थस्य मुखम्

भारतस्य संविधानं नाम प्रजानां प्रशासनस्य नियमानुशासनानां ग्रन्थः । सर्वकारस्य मूलरचनस्य मार्गदशकम् एतत् संविधानम् । एतत् क्रि.श.१९४७तमे वर्षे डिसेम्बर् मासस्य ९दिनाङ्कात् क्रि.श.१९४९तमवर्षस्य नवेम्बर् २६दिनाङ्कपर्यन्तं भारतसंविधानरचनकार्यम् अनुवृत्तम् । क्रि.श.१९५०तमे वर्षे जनवरिमासस्य २६दिनाङ्के कार्ये अनुष्ठितम् । अतः भारते प्रतिवर्षं तद्दिनं गणराज्योत्सवः आचर्यते । भारतीयसंविधानस्य ४४४विधयः १० अनुच्छेदाः च विद्यन्ते । नैकाः परिष्काराः अस्य अभवन् । विश्वस्य लिखितेषु संविधानेषु भारतस्य संविधानग्रन्थः अतिबृहत् अस्ति । अस्य संविधानस्य आङ्ग्लभाषायाः आवृत्तौ १,१७,३६९पदानि सन्ति ।

(अधिकवाचनाय ») |

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्

भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम् भारतदेशस्य सर्वकारीयम् अन्तरिक्षसंशोधनसङ्घटनम् । दूरवाणी-सुविधा, भौगोलिक-छायाचित्रणं, वातावरणानुमानार्थं छायाचित्रणं, दूरसञ्चारसुविधाः इत्यादयः अद्यतनीयाः बह्व्यः सुविधाः उपग्रहाणाम् उपयोगकारणादेव अनुभवामः । एतादृशाः इदानीन्तन-मूलभूतावश्यकतानां परिपूरणार्थं बृहत्तन्त्रज्ञानम् आवश्यकम् । ५० वर्षेभ्यः प्रागस्माकं देशे याः सुविधाः आसन् ताः सर्वाः स्वदेशितन्त्रज्ञानोपरि आधारिताः नासन् । परम् इदानीं वयं स्वाभिमानेन वक्तुं शक्नुमः यत् अस्माकं देशस्य उपग्रहाः, उपग्रह-प्रक्षेपक-वाहनानि, तन्त्रज्ञानं च सर्वं भारतीयम् अस्ति । एवं कथनसामर्थ्यमपि येन सङ्घटनेन अस्मभ्यं दत्तं तत् सङ्घटनम् अस्ति इसरो

(अधिकवाचनाय ») |

हॉकी-क्रीडायाः मुख्यकेन्द्रम्

ध्यानचन्द इत्यस्य मूख्यं नाम ध्यानसिंह इति आसीत् सः युवभिः सह क्रीडाङ्गणे क्रीडन् आसीत् । तस्य गतिः अश्व इव आसीत् । तत् सर्वं क्रीडाङ्गणात् बहिः स्थित्वा 'पङ्कज गुप्ता' इति नामकः अनुभवी प्रशिक्षकः (कोच्) पश्यति स्म । सः तं युवानम् आहूय "त्वम् एकदा क्रीडाङ्गणस्य राजा भविष्यसि" इति अवदत् । तदनन्तरं ध्यानसिंहः बहुपरिश्रमम् अकरोत् । यदा तौ पुनः मिलितवन्तौ, तदा पङ्कज गुप्ता त्वं गृहे सिंहः भव, किन्तु कीडाङ्गणे चन्द्र भव इति प्रार्थयत । सः न कश्चन अपरः अपि तु विश्वस्य सुप्रसिद्धः हॉकी-क्रीडकः ध्यानचन्दः आसीत् ।


(अधिकवाचनाय ») |

दौलतसिंह कोठारी.gif

दौलतसिंहः भारतस्य प्रसिद्धः वैज्ञानिकः । १९६१ तमात् वर्षात् दशवर्षाणि यावत् सः विश्वविद्यालयानुदानायोगस्य अध्यक्षपदं व्यभूषयत् । १९६४ तमे वर्षे सः राष्ट्रियशिक्षायोगस्यापि अध्यक्षः आसीत् । प्रशासकीयसेवायै १९६२ तमे वर्षे सः पद्मभूषणं, १९७३ तमे वर्षे च पद्मविभूषणं प्राप्नोत् । १९०६ तमस्य वर्षस्य जुलाई-मासस्य सप्तमे (६/७/१९०६) दिनाङ्के राजस्थानराज्यस्य उदयपुरे दौलतसिंहस्य जन्म अभवत् । तस्मिन् काले उदयपुरं मेवाडराज्यस्य अङ्गभूतम् आसीत् । दौलतसिंहस्य पिता फतेहलाल कोठारी शिक्षकः आसीत् । तस्य ज्येष्ठः पुत्रः दौलतसिंहः । दौलतसिंहस्य अन्ये त्रयः भ्रातरः, एका भगिनी च आसन् । १९१८ तमे वर्षे अष्टात्रिंशत् (३८) वर्षीयः फतेहलाल-महोदयः दिवङ्गतः । तस्मिन् काले दौलतसिंहः द्वादशदेशीयः (१२) आसीत् । ज्येष्ठपुत्रे सति पितुः निधनोत्तरं गृहदायित्वं दौलतसिहंस्योपरि आपतितम् । दौलतसिंहस्य माता जैनमतानुयायिनी आसीत् । सा सर्वदा अन्येषां साहाय्यार्थं तत्परा भवति स्म । दौलतसिंहस्य जीवने तस्य मातुः प्रभावः प्रत्यक्षः आसीत् ।


(अधिकवाचनाय ») |

सोमनाथस्य मन्दिरम् वेरावळ

सोमनाथमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे प्रभासपाटणपत्तने समुद्रतटे स्थितं भव्यमन्दिरं वर्तते । समुद्रस्य तरङ्गाः सोमनाथस्य पादक्षालनेच्छया पौनःपुन्येन आगच्छन्तः तस्य पादपद्मे लीनाः भवन्ति । सोमनाथः द्वादशज्योतिर्लिङ्गेषु प्रप्रथममं महत्तमञ्च ज्योतिर्लिङ्गं वर्तते । सोमेश्वरः इत्यप्यस्य नामान्तरम् । चन्द्रः (सोमः) अस्य लिङ्गस्य स्थापनां कृतवान् । अत्रैव कपिलानदी-सरस्वतीनदी-हिरण्यानदीनां सङ्गमः भवति । अत एतद् क्षेत्रं त्रिवेणीक्षेत्रमिति नाम्नापि प्रसिद्धम् । पुराणेषूल्लेखोस्ति यत् त्रेतायुगे वैवस्वतमन्वन्तरे शुक्लपक्षस्य तृतीयायां अस्य मन्दिरस्य स्थापना बभूव । अत्रैव चन्द्रः तपः कृतवानासीत् । एतल्लिङ्गं चन्द्र एव अस्थापयत् ।

(अधिकवाचनाय ») |

नागौरदुर्गम्

नागौर राजस्थानराज्ये स्थितस्य नागौरमण्डलस्य केन्द्रम् अस्ति । नागौर-नगरस्य स्थापना नागवंशिभिः कृता इति तस्य नाम्ना ज्ञायते । एतस्य नगरस्य स्थापना द्वितीयायाम् उत तृतीयायां शताब्द्याम् अभवत् । यतो हि कुषाण-जनानां विरुद्धं नागवंशिनः आहताः अभूवन् । ततः वाकाटक-वंशीयाः, गुप्तवंशीयाः च सम्राजः तेषाम् उन्मूलनम् अकुर्वन् । अहिच्छत्रपुरं, नागपुरं, नागपट्टनम्, अहिपुरं, भुजङ्गनगरं च नागौर-नगरस्य नामान्तराणि । नागौर-नगरस्य सुन्दरतायाः वर्णनं कुर्वन् मोहम्मद हलीम सिद्दीकी इत्येषः अलिखत्, प्रत्येकेन दृष्टिकोणेन नागौर-नगरम् अत्यन्तं सुन्दरं नगरम् आसीत् । नागौर-नगरत् २ माइल दक्षिणपूर्वदिशः सौन्दर्यं नागौर-नगरस्य मुख्याकर्षणम् आसीत् । एतत् नगरम् परितः काश्चित् दीर्घा भित्तिका आसीत् । तस्याः भित्तिकायाः दैर्घ्यं ४ माइल् आसीत् । तस्याः भित्तिकायाः औन्नत्यं प्रदेशानुसारम् आसीत् । कुत्रचित् सा भित्तिका २.५ फीट्, अन्यत्र ५ फीट्, अपरत्र १७ फीट् च उन्नता आसीत् । नागौर-नगरस्य षट्द्वाराणि आसन् । तेषु द्वारेषु त्रीणि दक्षिणदिशायाम्, चतुर्थद्वारम् उत्तरदिशायां, पञ्चमद्वारं पश्चिमदिशायां, षष्ठमद्वारं पूर्वदिशायां च आसीत् । एतानि षट्द्वाराणि क्रमेण अजयमेरुद्वारं, जोधपुरद्वारं, नखासद्वारं, भायाद्वारं, देहलीद्वारं च प्रसिद्धानि । नागौर-नगरे अनेके देवनागरीलिप्या, फारसी-लिप्या च लिखिताः शिलालेखाः प्राप्यन्ते । नागौर-नगरात् अनेकाः देवमूर्तयः प्राप्ताः । ताः मूर्तयः नागौर-नगरस्य मन्दिरेभ्यः, गृहेभ्यः, समाधिस्थलेभ्यः, यवनप्रार्थनागृहेभ्यः च प्राप्ताः ।

(अधिकवाचनाय »)

|

Somanatha view-II.JPG

भगवान् शङ्करः सर्वेषां जीविनां कल्याणार्थं तीर्थक्षेत्रेषु लिङ्गरूपेण वसति इति उक्तम् अस्ति शिवपुराणे । यत्र यत्र भगवद्भक्ताः रक्षणार्थं भगवन्तम् आहूतवन्तः तत्र सर्वत्र भगवान् शिवः आविर्भूतः सन् ज्योतिर्लिङ्गरूपेण स्थितः । तादृशानि अगणितसंख्याकानि शिवस्थानानि सन्ति अस्माकं देशे । तादृशेषु असंख्येषु शिवस्थानेषु द्वादश ज्योतिर्लिङ्गानि सर्वप्रधानानि ।

(अधिकवाचनाय »)

|

Konark Temple.jpg

भारतस्य सूर्यमन्दिराणि भारतीयमन्दरिप्रथायां विशिष्टं स्थानम् आवहन्ति । उन्नावस्य सूर्यदेवालयस्य नाम बह्यन्यदेवमन्दिरम् इति । एतत् भारतस्य मध्यप्रदेशराज्यस्य उन्नाव इति ग्रामे अस्ति । अस्मिन् मन्दिरे भगवतः सूर्यस्य शिलामूर्तिः इष्टिकापीठे विराजते । २१कलानां प्रातिनिधिकरूपेण २१त्रिकोणाकारस्य सूर्यस्य मन्दिरं निर्मितम् अस्ति ।

(अधिकवाचनाय ») |

India, uttar pradesh, jina rishabhanatha, 800-900.JPG

ऋषभदेवः जैनधर्मस्य चतुर्विंशत्यां तीर्थङ्करेषु प्रथमः तीर्थङ्करः आसीत् । सः आदिनाथः, वृषभनाथः इति नाम्ना अपि ज्ञायते । सः योगी आसीत् । तस्य पुत्रस्य भरतस्य नामानुसारम् एव भारतदेशः इति नाम प्रदत्तम् । ऋषभदेवस्य जन्म अयोध्या-नगरे चैत्र-मासस्य कृष्णपक्षस्य नवम्यां तिथौ अभवत् । तस्मिन् दिने उत्तराषाढा-नक्षत्रमासीत् ।

(अधिकवाचनाय ») |

वायोः गुह्यस्वरूपम्

वायुः अस्माकं जीवनस्य अत्यावश्यकं तत्त्वं वर्तते । वायुं विना जीवनम् असम्भवम् अस्ति । प्रतिदिनं वयं द्विवारं त्रिवारं वा भोजनं कुर्मः । एकस्मिन् दिवसे अपि अनेकवारं वयं जलं पिबामः । किन्तु श्वसनं वयं प्रतिक्षणं कुर्मः । जीवनाय वायुः सर्वेभ्यः जीवेभ्यः आवश्यकः वर्तते । पृथिव्याः परितः वायूनाम् आवरणम् अस्ति । तत् आवरणं वायुमण्डलं कथ्यते । जीवनाय वायवः वायुमण्डलात् प्राप्यन्ते । सूर्यस्य हानिकारकाणां किरणानां प्रभावात् वायुमण्डलम् अस्मान् रक्षति । यदि वायुमण्डलं न भवेत्, तर्हि दिवसे सूर्यकिरणानां तापेन वयं ज्वलितुं शक्नुमः । अयं वायुराशिः उच्यते येन निवासयोग्यं पृथिव्याः तापमानं भवति ।

(अधिकवाचनाय »)

|

राजकोट

राजकोट महानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रप्रदेशे आजीनद्याः तीरे स्थितमस्ति । एतन्महागरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । भारतस्य बृहत्तमनगरेषु अस्य क्रमः २६ तमः, शीघ्रविकसितनगरेषु २२ तमः अस्ति । एतस्मिन्महानगरे महात्मागान्धेः गृहमासीत् । एतन्महानगरं राजकोटमण्डलस्य प्रशासनिककेन्द्रमस्ति ।

(अधिकवाचनाय ») |

GuruGobind Singh.jpg

गुरुगोविन्दसिंहस्य व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्दः अवोचत्, "स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति, तर्हि गुरुगोविन्दसिंहः इव भवतु । भारतवासिनां सहस्रशः दोषाणाम् अन्वेषणावसरे, तेषु हिन्दुरक्तं प्रवहतीति मा विस्मरतु भवान् । ते भवतः हानिं कर्तुम् उद्यताः चेत् अपि चिन्ता मास्तु, तान् आराध्यदेवान् मत्वा पूजयतु । भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु । ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु । तादृशः एव नैजहिन्दुरूपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत् । आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयत्वं सर्वत्र प्रवाहयामः " इति ।

(अधिकवाचनाय ») }}