सामग्री पर जाएँ

सदस्यः:Nitai69

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शब्दानुशासनस्य प्रयोजनम्

अनुबन्ध-चतुष्टयेषु (अधिकारी- बिषय- सम्वन्ध- प्रयोजनानि) प्रयोजनस्यापि अनिवार्यरूपेण प्ररिग्रहः भवति एव,यतः - “प्रयोजनमनुदिश्य न मन्दोऽपि प्रवर्तते”।एतदर्थं भाष्यकारः पतञ्जलिः शब्दानुशासनस्य प्रयोजनमाह-“रक्षोहागमलघ्वसन्देहाः प्रयोजनम् “। अर्थात् रक्षा-ऊह-आगम- लघु -असन्देहाश्चेति शब्दानुशासनस्य प्रयोजनम्। रक्षा -भाष्यकारेण पतञ्जलिना आह॒-“रक्षार्थं वेदानामध्येयं व्याकरणम्।लोपागमवर्णविकारज्ञो हि सम्यग् वेदान् परिपालयिष्यति“। अर्थात् ऋग्वेदादीनां रक्षार्थं व्याकरणमध्येयं प्रयोजनम्।यः व्याकरणमध्येयं न करोति तस्य लोपागमादिविषये ज्ञानं नैव भवति।अतः सः वेदानाम् रक्षा कर्तुं नैव शक्नोति।तस्माद् व्याकरणमध्येतव्यम्। ऊहः ऊहोऽपि शब्दानुशासनस्य प्रयोजनम्।ऊहः शब्दस्यार्थः परिवर्तनम्। परिवर्तनम् इत्युक्ते नवीनपदानां परिकल्पना। वेदे प्रधानतः द्विविधं यागं वर्तते-प्रकृतियागः विकृतियागश्चेति। प्रकृतियागमन्त्रान् दृष्ट्वा विकृतियागमन्त्राः परिवर्तनं भवति। अर्थात् यज्ञस्य आवश्यकतानुसारं वेदे प्रयुक्तमन्त्रानां विभिन्नविभक्तिषु लिंगेषु च परिवर्तनं भवति।अतः यः व्याकरणं न जानाति सः मन्त्रान् परिवर्तनं कर्तुं नैव शक्नोति।तस्माद् अध्येयं व्याकरणम्। आगमः आगमोऽपि(शास्त्रम्) भवति शब्दानुशासनस्य प्रयोजनम्।यतः आगमं श्रुत्वा अपि व्याकरणाध्ययने प्रवृत्तिः भवति,अतः आगमो भवति प्रवर्तकरुप-प्रयोजनम्।अपि च रक्षा- ऊह -लघु-असन्देहाश्चेति फलरुप-प्रयोजनम्। लघु- पतञ्जलिना आह-“लघ्वर्थं चाघ्येयं व्याकरणम्।न चान्तरेण व्याकरणं लघुनोपायेन शब्दाः शक्या ज्ञातुम्।“ यथा,अ-कारान्तः पुंलिंगशब्दाः ’नर‘ शब्दवत् भविष्यति।तथैव आ- कारान्तः स्त्रीलिंगशब्दाः’लता’ शब्दवत् इत्यादयः।तस्माद् अध्येयं व्याकरणम्। असन्देहः “असन्देहार्थं चाघ्येयं व्याकरणम्” – पतञ्जलिः।अर्थात् सन्देहदूरीकरणार्थं व्याकरणाध्येयं प्रयोजनम्।यथा ‘स्थूलपृषतीम्’ पदेऽस्मिन् यदि पुर्वपदः प्रकृतिस्वरः भवति चेत् , तर्हि बहुब्रीहिसमासः।पुनः यदि तत्र अन्तोदात्तः भवति तर्हि तत्पुरुषसमासः। अतः असन्देहार्थं व्याकरणाध्ययनं प्रयोजनम् l इमानि च शब्दानुशासनस्य गौणप्रयोजनानि-(१)“ तेऽसुराः”(२)”दुष्टः शब्दः” (३)”यदधीतम्” (४)'’यस्तु प्रयुंक्ते(५)”अविद्वांसः’’(६)”विभक्तिं कुर्वन्ति” (७)” यो वा इमाम्’’(८)’”चत्वारि”(९)“उत त्वः”(१०)”सक्तुमिव” (११) “सारस्वतीम्”(१२) “दशम्यां पुत्रस्य”(१३) “ सुदेवो असि वरुण” इति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nitai69&oldid=442847" इत्यस्माद् प्रतिप्राप्तम्