सामग्री पर जाएँ

सदस्यः:Padmabati99

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

समाजे शिक्षायाः भूमिका

विस्तृतप्रपञ्चेऽस्मिन् विविधप्रकारकाः जीवाः निवसन्ति । विविधप्राणीपक्षीणः जनाश्च विशिष्टपद्धत्या विशिष्टरूपेण अपि शोभन्ते । शिक्षा नाम सामाजिकीप्रक्रिया भवति । मानवानां समूहः समाजः इति कथ्यते । वास्तविकार्थः तु विनयशीलता , बुद्धिमत्ता, नैपुण्यं, शान्तस्वभावः इत्यादिसमीचीनगुणाः येषु वर्त्तते, तेषां समूहः एव समाज इति व्यवहारः । सच्चिदानन्द-उडुपमहोदयैः लिखिते पुस्तकेऽपि-समीचीनगुणभूयिष्ठः इत्येव अर्थः समाजस्य । हीनदुराचारगुणयुक्तानां जनानां प्राणीनां समूहः एव समाज इति उल्लिखितम् । यदि मानवाः अपि दुर्जनाः भवन्ति, तर्हि तत्र समाजः इत्येव व्यवहार इति ज्ञायते अनेन सामाजिकान्तः क्रियाणां ज्ञानेन विना शिक्षोद्देश्यं निर्धारयितुं न शक्यते । सामाजिकपरिवर्त्तने नियन्त्रणे च शिक्षायाः महत्वपूर्णभूमिका वर्त्तते । अतः शिक्षा नाम सामाजिकप्रक्रिया इति उच्यते सामाजिकपरिवर्त्तने शिक्षायाः दायित्वावमस्ति इति शिक्षकः प्रथमं जानीयात् भारतीयसमाजस्य स्वरूपज्ञानं प्रथमं तस्मिन् भवेत् । अस्माकं भारतीयस्मस्कृतेः जीवनमूल्यानाञ्च ज्ञानं यदि तस्मिन् स्यात्तर्हि सः शिक्षकः समाजानुगुणं शिक्षाप्रदातुं शक्नोति ।

शिक्षासमाजयोः सम्बन्धः सामाजिकव्यवस्था तथा सामाजिकप्रगतेश्च विज्ञानमस्ति । मानवः समाजस्य आधारो भूत्वा समाजे मम अधिकारः कः  ? इति ज्ञात्वा सर्वविधरूपेण प्रोन्नत्यै स्वकीयं जीवनर्पयति । सः. चिन्तयति यत् सामाजिकव्यवहारः , भाषा, विचारः , अनुभवः, क्रिया इत्यादिरूपेण अहमपि समाजे सदस्यरूपेण अस्ति । मयापि शिक्षाया समाजानुगुणं. परिवर्त्तनं कर्त्तव्यं, सहयोगं कर्त्तव्यः इति ।

अद्य भारतं महात्याः संस्कृत्याः उत्तराधिकारी अस्ति। किन्तु दुर्भाग्यवशात्तं समुचितशिक्षितराष्ट्रं नास्ति इति शिक्षाऽयोगेन उक्तम् । यावत्पर्यन्तमस्माकं राष्र्टं शिक्षितं भवति । तावत्पर्यन्तमात्मानमाधुनिकमिति अवगन्तुं न शक्नुयाम । अतः ज्ञातव्यं यत् शिक्षायां सामाजिकपरिवर्त्तनं, सामाजिकपरिवर्त्तनेप्रभावञ्जास्तिति डां राधाकृष्णन्महोदयैः उक्तं यत्- शिक्षा परिवय्त्तनस्य् साधनमस्ति। समाजे शिक्षायाः स्थानं मूर्द्धन्यं भजते । समाजमुखेनैव ज्ञातुं शक्यते यत् तस्मिन् परिसरे शिक्षाया प्रभावः कथंं वर्त्तते ? कीदृशाः जनाः सन्ति  ? इति औत्रत्ये परिदृश्यते इति।

समाजे स्थायिसमाजः , गत्यात्मकसमाजः इति द्वौ प्रकारौ स्थ । मन्दगत्या राधते सः समाजः स्थायिसमाजः । इत्युक्ते अत्यल्पगतिमान भवति स्थायिसमाजः । तन्नाम प्राचीनसमाजः इति द्रुतगत्या यत्र परिवर्त्तनं भवति सः भवति गत्यात्मकः समाजः इति। तन्नाम आधुनिकसमाजः यदि शिक्षितः पुरुषः स्वगृहं गत्वा कार्यं करोति चेत् तत्रापि तस्य स्थानमौन्नत्यै तिष्ठति । चेत् तत्रापि तस्य स्थानमौन्नत्यै तिष्ठति । अत्र व्याप्यव्यापकसम्बन्धः वर्त्तते । किन्तु समाजे एवं परिदृश्यते यत् शिक्षायाः व्याप्य नास्ति व्यापकस्थानमेव अलंकरोति इति । कालिदासः अपि उत्तमकाव्यं रचितवान् । यदि सः शिक्षितः न स्यात्तर्हि तस्य नवनवोन्मेषशालिनीप्रतिभा व्यर्थतां गच्छति स्म।

भगवद्गीतायां चर्तुर्वण्यं मया स्मृष्टिं गुणकर्मविभागशः इति स्मर्यते । पूर्वं वेदाधिकारः यस्य कृते भवति स एव वेदादीन् पठति स्म । देवतासम्बन्धिकार्यं करोति स्म । यः शिक्षणं प्राप्य कर्म करोति तद् द्वारा तस्य समाजे स्थानं लभ्यते स्म । शङ्कराचार्येण या कर्ममीमांसा असत्या , ब्रह्मजिज्ञासा एव सत्या इति प्रतिपादितम् । मण्डनमिश्रस्य गृहं परितः स्तितेः द्वौ अपि शुक्तौ मीमांसाविषये जानोतः इति वयं जानीमः एव । तदर्थं समाजस्य निर्माणार्थं शिक्षायाः आवश्यकता महती वर्त्तते । विज्ञानक्षेत्रे, वाणिज्यक्षेत्रे अणुक्षेत्रे सर्वेषु क्षेत्रेष्वपि शिक्षायाः योगदानमस्ति एव । शिक्षा अस्ति चेत् गृहं , परिवारं, समुदायं, समाजं भारतश्च तदगुणं परिवर्त्तयितुं शक्नुमः ।

" विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं गुणं धनम्।

विद्या योगकारी यशः सुखकारी विद्या गुरूणां गुरुः ।।

विद्या वन्धुजनो विदेशगमने विद्या परा देवता ।

विद्या राजसु पूज्यते न तु धनं विद्याविहोनः पशुः " ।।

इत्यादि अवश्यं सहकरोति । व्यक्तेः व्यवहारः कथमस्ति.? ज्ञानं कथं वर्त्तते  ? इत्यादिकं पश्यति समाजः । अतः नैतिकमानसिकवैज्ञानिकादिज्ञानं प्राप्तं समाजे शिक्षायाः महत्वमुत्तमोरूपेण वर्त्तते ।


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Padmabati99&oldid=449372" इत्यस्माद् प्रतिप्राप्तम्