सामग्री पर जाएँ

सदस्यः:Pai.Rahul/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शालासु छात्राणां ग्रन्थपठनरुचिम्‌ उत्पादयितुं वर्धयितुं च कर्णाटक प्रशासनं चिन्तयतीति ज्ञात्वा मोदामहे । यः पठति लिखति परिपृच्छति पण्डितान्‌ उपाश्रयति । तस्य दिवाकरकिरणैर्नलिनी दलमिव विकास्यते बुद्धिः इति प्राचीनोक्तिः । अद्यत्वे च्छात्राः पठनमेव विस्मृतवन्तः । सदा कालं गणक यन्त्रस्य दूरदर्शनस्य वा पुरः उपविश्य कालं नयन्ति । यदापि पठन्ति, तदा परीक्षोपयोगिपाठान्‌ एव । अनेन कारणेन तेषु वाचनाभिरुचिरेव नष्टा । इदानीं क र्णाटक प्रशासनस्य चिन्तनाम्‌ अनुसृत्य शालायां प्रतिदिनम्‌ अर्धघण्टाकालः पाठ्येतरपुस्तकानां वाचनायारक्ष्यते । तत्र उत्तमानि पुस्तकानि तेषां कृते प्रसार्यन्ते । यथारुचि विद्यार्थी किमपि पुस्तकं गृहीत्वा पठितुं शक्नोति । एवं यदि वाचनं प्रोत्साह्यते, तर्हि परस्तात्‌ छात्राः स्वजीवने ग्रन्थपठनं जीवनस्य अविभाज्यम्‌ अङ्गं कुर्वन्ति । देशे साहित्यवृद्धिरपि सम्पत्स्यते । उत्तमाम्‌ इमां योजनां कृतवत्‌ कर्णाटक प्रशासनम्‌ अभिनन्दनम्‌ अर्हति । अन्यानि राज्यानि चैव कुर्वीरन्‌ ।