सामग्री पर जाएँ

सदस्यः:Palash Das1995/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आधुनिकसमाजे योगाङ्गस्य यमस्य प्रयोजनीयता महर्षिपतञ्जलिप्रणीतः योगशास्त्रः न केवलं संस्कृतधर्मीयशास्त्रः ग्रन्थसर्वस्वः वा,अत्र विश्वब्रह्माण्डस्य समस्तपदार्थान् एकसूत्रे संयोगस्थापनं कृत्वा मानवजीवनस्य परमसाधनः तथा आनन्दनाभूतिं प्राप्तयित्वा दुःखस्य ऐकान्तिकम् आत्यान्तिकतां च निवारणं कारयति। तस्मात् कारणादेव योगः केवलं भारतीयदर्शनस्य एकम् अङ्गरूपेण मोक्षप्राप्तेः उपायरूपेण भारतवर्षेषु सीमाबद्धः न तिष्ठति,अपितु समग्रविश्वस्य प्रधानङ्गं भूत्वा योगः आध्यात्मिकसाधनस्य पश्चादेवं जीवस्य विशेषतः मानवस्य शारीरिकः, मानसिकः,बौद्धिकः चारित्रिकः अर्थात् सर्वाङ्गीनविकासः साधयति आधुनिकसमाजे । महर्षिपतञ्जलिः अष्टाङ्गयोगस्य उपकारिताप्रसङ्गे उक्तवान्- ‘योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः।’ अर्थात् योगाङ्गानुष्ठानेन अशुद्धेः क्षयानन्तरं विवेकख्यातिपर्यन्तम् ज्ञानदीप्तिः भवति । अतः परं महर्षिपतञ्जलिना अष्टाङ्गयोगस्य नामोल्लेखपूर्वकम् उच्यते- “यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि।” अर्थात् यमः,नियमः,आसनम्,प्राणायामः,प्रत्याहारः, धारणा,ध्यानम्,समादिः इति अष्टानि योगाङ्गानि । एतानि परस्परं परस्परस्य परिपूरकम् अर्थात् एकस्य सिद्धिः यदि न भवति तर्हि अपरस्यापि सिद्धिर्न जायते। परन्तु वर्तमानकाले योगस्य प्रथामाङ्गं यमं द्वितीयाङ्ग नियमं च विना केवलं आसनस्य प्राणायामस्य च अधिकं गुरूत्वं दीयते। अयमपि अनस्वीकार्यं यत् केवलं आसनेन प्राणायामेन च शारीरिक-मानसिकसुस्थता वर्तते परन्तु इयं सुस्थता तावत् पर्यन्तं दीर्धस्थायी न भवति यावत् पर्यन्तं यमस्य नियमस्य च पालनं न भवति ।वर्तमानकाले योगरूपेण केवलं आसनप्राणायामयोः चर्चा क्रीयते तेन महर्षिपतञ्जलिप्रणीतस्य योगस्य महात्म्यता यथार्थरूपेण न वर्तते। महर्षिणा यमस्य प्रसङ्गे योगेसूत्रे उक्तम्–

 “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः।”अर्थात् अहिंसा,सत्यं,अस्तेयं,ब्रह्मचर्यं परिग्रहश्च पञ्चयमाः।सर्वदा सर्वप्रकारेण समस्तभूतान् प्रति अनभिद्रोहः अहिंसा इति कथ्यते –
“अहिंसा सर्वथा सर्वदा सर्वभूतानामनभिद्रोहः।” सत्यम् इत्युक्ते यस्य यः स्वरूपं तं तत् स्वरूपरूपेण मत्वा वाक्येन मनसा च ग्रहणम् । तस्मात् मुण्डकोपनिषदि उच्यते- ‘सत्यमेव जयते नानृतं सत्येन पन्था विततो देवयानः।’  

महर्षिपतञ्जलिना सत्यप्रसङ्गे उक्तं-

‘सत्यं यथार्थे वाङ्गमनसे यथा दृष्टं यथानुमितं यथा श्रुतं तथा वाङ्मनश्चेति।’
अर्थात् यथाभूतार्थोयुक्तेन मनोवाक्याभ्यां दृष्टानुमितश्रुतविषयं यथायुक्तरूपेण कथनं तथा चिन्तनं भवति सत्यम् ।अशास्त्रपूर्वकम् अपरस्य द्रव्यग्रहणं भवति स्तेयं तथा अस्तेयं भवति अस्पृहारूपस्य स्तेयस्य प्रतिषेधः –“स्तेयम् अशास्त्रपूर्वकं द्रव्याणां परतः स्वीकरणम् ,तत् प्रतिषेधः पुनरस्पृहारूपमस्तेयमिति। ब्रह्मचर्य नाम इद्रियसंयमः-“ ब्रह्मचर्य गुप्तेन्द्रियस्योपस्थस्य संयमः।”अर्जन-रक्षण-क्षय-सङ्ग-हिंसाः विषयस्य एतनि  पञ्चविधानि दोषदर्शनं कृत्वा अग्रहणं भवति अपरिग्रह। तस्मात् आचार्येन उच्यते- “ विषयाणामर्जनरक्षणक्षयसङ्गहिंसादोषदर्शनादस्वीकरणमपरिग्रहः।”

एतस्य पञ्चविधस्य यमस्य पालनं मानवस्य केवलं आसनादिसिद्धेः सहायकरूपेण कार्यं न करोति अपितु एताः यमाः जीवानां परमकाम्यमोक्षलाभस्य प्रधानाङ्गरूपेण अनस्वीकार्यः। अपि च आधुनिककाले मनुष्यस्य स्वार्थपरता-हिंसा-लोभ-काम-कोधाभ्यः मुक्तेः उपायः यमं विना न सम्भवं तस्मात् कारणात् अष्टाङ्गयोगेषु यमस्य प्रयोजनीयता अनस्वीकार्यम् । यमस्य पालनं समस्तमानवानां कृते अत्यावश्यकेमिति मम अभिप्रायः।