सामग्री पर जाएँ

सदस्यः:Pinku Kalita/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महापुरुषः शंकरदेवः

         अखण्डित उत्तर-पूर्वभारतवर्षस्य धर्मगुरुषु अन्यतमो वर्तते ‘महापुरुषः शंकरदेवः’ । आंग्ल १४४९ तमे ख्रीष्टाब्दे सम्प्रति असमप्रदेशे नगाओनामकजिलायामवस्थितायां ‘वरदोवा’ इति नामके स्थाने असौ महापुरुषो जन्मोsलभवत् । जन्मलब्धा स द्वादशवर्षपर्यन्तं क्रीडादिमाध्यमेनैव समयमतिवाहितं करोति स्म । जन्मनः पश्चादेव तस्य मातुः सत्यसन्ध्यायाः तथा जन्मनः कति वर्षानन्तरं पितुः कुसुम्वरभूञाया अपि मरणमभवत् । तस्मात् कारणादेव तं तस्य मातामही खेरसूती एव भरणं पोषणं कारयित्वा परिचर्यां कृतवती । एवं द्वादशवर्षे खेरसूती शंकरदेवम् अध्यापनार्थं गुरुमहेन्द्रकन्दलीदेवस्य समीपे नीत्वा तत्र तस्य प्रवेशं कारयति स्म । शंकरदेवोपिs गुरुसमीपं गत्वा तत्र वेद – उपनिषद् – पुराणादिनां सम्यक् ज्ञानमलभवत् ।

         शंकरदेवो गुरुसमीपं गत्वा वर्णमालायाः ज्ञानं लब्धा एव एकां कविताम् अरचयत् । कविता यथा –

करतल कमल  कमल दल नयन ।

भवदव  दहन   गहन  वन शयन ।।

नपर   नपर  पर   सतरत   गमय ।

सभय मभय भय ममहर सततय ।।

खरतर  वर  शर   हत  दश वदन ।

खगचर  नगधर  फनधर  शयन ।।

जगदघ   मपहर   भवतय  तरण ।

पर पद लय कर कमलज नयन ।।

एवं शंकरदेवो वेदस्य ज्ञानकाण्डमङ्गीकृत्वा तथा अष्टादशपुराणेषु भागवत्पुराणं प्रधानरूपेणाङ्गीकृत्वा संसारस्य सृष्टि – स्थिति – लयानां कारणस्वरूम् एकमेव मन्यते । अर्थात्, शंकरदेवः ‘एकशरण – हरि – नाम – धर्मः’ इति धर्मं प्रचारं कृत्वा श्रीकृष्णमेव जगतो मूलकारणरूपेण उपस्थापयति स्म । एवं शंकरदेवो धर्मप्रचारमाध्यमरूपेण वरगीतम्, भाओना, अङ्कीयानाटकम्, सत्रीयानृत्यादयः, खोलादयो वाद्ययन्त्रादयः सृष्टिमकरोत् । येन माध्यमेन असमीयाजातीयजीवनस्य संस्कृतेश्च समृद्धिं जायते ।

शंकरदेवस्य प्रभावो न केवलम् उत्तर - पूर्वभारतवर्षे सम्पूर्णे विश्वे एव तस्य प्रभावो वर्तते । शंकरदेवस्य प्रभाववशादेव अद्यापि बहवो वैदेशिकाः गवेषणा करणार्थम् असमप्रदेशेsवस्थितः माजुली इति नामके स्थाने आगच्छन्ति । तत्रागत्य शंकरदेवस्य कृति विषये बहवो जनाः गवेषणां कुर्वन्ति ।

असौ शंकरदेवः साधरणजनापेक्षया किञ्चित् पृथक् आसीत् । पुनश्च तस्य धर्मगुणमपि अतिप्रावल्यं दृश्यते । स साहित्य – संस्कृतिविभिन्नासु कलासु अपि सिद्ध आसीत् । तस्मात् कारणादेव तं ‘महापुरुषः’ इति आख्यायते । एवं रूपेण महापुरुषोsयं  १५६८ तमे ख्रीष्टाब्दे इहलोकं त्याक्त्वा परलोकं प्रति गतवान् ।