सदस्यः:Piyush kumar panda
दिखावट
दलशिक्षणस्य उद्येश्यम्
1.शिक्षकेषु योग्यता, दक्षताश्च,रूचि,इत्यादीनां सर्वश्रेष्ठःउपयोगः ।
2.छात्राणां रूचिक्षमातानुसारं कक्षाशिक्षणे प्रभावशीलतायाः आनयनम् ।
3.अनुदेशनस्य गुणवत्तायाः बृद्धिकरणम् ।
4.विषयस्य स्पष्टीकरणम् ।
5. छात्राणां समस्यानां समाधानम् प्रभावपूर्णरित्या क्रियते ।
दलशिक्षणस्य गुणाः
1 .उत्तमानुशासनम् 2.छात्रशिक्षकयोर्मध्ये उत्तमसम्बन्धः 3.शिक्षकाणां दक्षतायाः समीकरणम् 4 .आर्थिकलाभः
दलशिक्षणस्य दिशाः
1 . सहयोगस्याभावः 2. दायित्वबोधस्याभावः
3.पारस्परिकशिक्षणं प्रति व्यामोहः 4. व्ययाधिक्यम्
5.अवरोधकतत्वम्
दलशिक्षणं एतत् समुहे प्रचलितत्वात् बालकानां ज्ञानेन्द्रियाणां प्रशिक्षणं प्राप्यते । अध्यापकाः अत्र व्यवस्थापकत्वेन छात्राणाम् अधिगमार्थं व्यवस्थापयन्ति । शिक्षणकार्यं तदा एव सफलं भवति, यदा व्यवस्थापकेषु कर्मचारिषु च उत्तमसम्बन्धः कल्पितः भवति । सर्वेषां दृष्टिकोणः सहयोगात्मकः भवेत् । शैक्षिकसङ्घटने दलशिक्षणं तादृशमेकं रूपं,यत्र कक्षायामेकस्य अध्यापकस्य स्थाने विभिन्नविषयविशेषज्ञाः अध्यापकाः तेषां सहायकाश्च भवन्ति । एते सर्वे अपि मिलित्वा प्रभावपूर्णतया शिक्षणकार्यं कुर्वन्ति । साम्प्रतं शैक्षिकप्रविधेः विकासेन सह शिक्षणे नवीनोपकरणानाम् उपयोगिताम् अवलोक्य शिक्षाविद्भिः कक्षायां शिक्षणाधिगमप्रक्रियां सुष्ठुरीत्या सञ्चालयितुं दलशिक्षणं महत्वपूर्णसाधनत्वेन स्वीकृतमस्ति ।