सदस्यः:Pradhan Arati
व्यक्तित्वम्
आरती प्रधान
शिक्षाशास्त्री प्र.वर्षम्
अनुक्रमाङ्कः - 30
व्यक्तित्व शब्दस्य प्रयोगः साधारणतया लोकव्यवहारे पर्याप्तः तथा भवति । सामान्यतः व्यक्तित्वस्य प्रयोगः कमपि गुणं विशेषतां च प्रकटयति । इयं सर्वे जनाः विभिन्नपरिस्थितिषु व्यवहाराय पारस्परिक सम्बन्धानां दृष्टया महत्वं ददाति । यथा – रमेशस्य व्यक्तित्वं मोहकः वर्तते । राकेशस्य व्यक्तित्वं मधुरं वर्तते । रमायाः व्यक्तित्वम् आकर्षकं च वर्तते । एतादृशान् शब्दं वयं लोके शृणुमः । परं च व्यक्तित्वं परिभाषितुं प्रयासः न क्रियते । तथापि सर्वे अवगच्छन्ति अस्याभिप्रायः स्पष्टमेव सामान्यार्थे व्यक्तित्वस्य अभिप्रायः शारीरिकगठनं, वर्णादि, वेशभूषा, वार्तालापशैलि, व्यवहारादि रूपेण भवन्ति । व्यक्तित्वशब्दस्य आङ्गलपदं “Personality” इत्यस्य शाब्दिकअर्थं व्यक्तेः बाह्यगुणं बाह्याचरणं च द्योतयति । Personality शब्दः लाटिन् भाषायाः Persona शब्देन निष्पद्यते । यस्यार्थः भवति छन्दमुखः । अस्याभिप्रायम् आहार्येण वेशभूषया च आसीत् । यं धृत्वा नाटकस्य पात्रं कस्यापि अन्यस्य अभिनयं करोति स्म । अयं व्यक्तित्वस्य बाह्यपक्षं द्योतयति । व्यक्तित्वस्य अयम् अर्थः संकुचितार्थं द्योतयति । आधुनिकसन्दर्भे व्यक्तित्वशब्दस्य अर्थः व्यापकः वर्तते । मनोविज्ञानदृष्टया अस्यार्थः भ्रामकः, जटिलः, अस्पष्टः च वर्तते । यस्य परिभाषा यथार्थः रूपेण न कठिनम् अपितु असम्भमेव कार्यं वर्तते । मनोविज्ञाने व्यक्तित्वस्य अनेकाः परिभाषाः वर्तन्ते । परन्तु सर्वाः पर्याप्तभिन्नाः वर्तन्ते । गिल्फोर्ड मसोदयानुसारेण – “ व्यक्तित्वं गुणानां समन्वितं रूपं भवति ।“ वुडवर्थ मसोदयानुसारेण – “ मानवीय व्यवहाराणां मूलभूतः समुदितः यः धर्मविशेषः तस्य नाम व्यक्तित्वम् ।“ कैटल मसोदयानुसारेण – “ व्यक्तित्वं तदेव वर्तते येन वयम् एतत् भविष्यकथनं कर्तुं शक्नुमः यत् कश्चित् जनः कस्मिंचित् परिस्थितौ किं करिष्यति ।