सदस्यः:Pragyan Gouda
क्रियानुसन्धानमौलिकानुसन्धानयोः भेदः
सम्प्रति शिक्षा प्राचीनदृष्टिकोणं विहाय नवीनदृष्टिकोणं धारयन्ती दरीदृश्यते । एतेन नवीनशैक्षिकसिद्धान्तानाम् , आधुनिकविधीनां , नवीनपरीक्षणानां च प्रतिपादनं जायमानं वर्तते । एतेषां सर्वेषाम् एकमेव कारणम् - " निरन्तरम् अनुसन्धानम् " इति । एतादृशमौलिकानुसन्धानानां कारणतः अद्य शिक्षायाः सैद्धान्तिकपक्षः अत्यन्तं शक्तिशाली सुदृढश्च जायमानो विद्यते । परन्तु अद्य सैद्धान्तिकपक्षस्य दृढताकारणतः शिक्षासम्बद्धसमस्यानां समाधानं पूर्णतया तु भवितुं नार्हति । यदि वस्तुतः शिक्षा प्रभावशालिनी सर्वतोन्मुखिनी कर्तुम् इच्छामः , तर्हि तत्र क्रियात्मकस्य व्यावहारिकस्य च पक्षस्य यथोचितं महत्त्वं कल्पनीयम् । इदानीं शिक्षायाः सैद्धान्तिकपक्षः एव केवलं प्रभावशाली भवेदिति नास्ति , अपि तु विद्यालयीयकार्यप्रणालीनां कथं संशोधनं परिवर्तनं च सम्पादनीयं , कथं सा कार्यप्रणाली सामर्थ्ययुक्ता महत्त्वपूर्णा च भवेत् तस्याः विविधपक्षाः कथं छात्रानुकूलाः विधेयाः , तस्याः सङ्घटने कथं सौष्ठवं सम्पादनीय , नित्यव्यावहारिकसमस्यानां समाधानार्थं कथं सा समर्था स्यात् इत्यादीनां पूर्वोक्तानाम् उद्देशानां प्राप्तये एकमेव साधनं शिक्षाक्षेत्रे दश्यते- " क्रियानुसन्धानम् " इति । अनेकशिक्षणसमस्यानां समाधानार्थं क्रियानुसन्धानस्य शिक्षाप्रक्रियायां महत्त्वपूर्णयोगदानं विद्यते । शिक्षणे आगम्यमानानां समस्यानां वैज्ञानिकपद्धत्या अत्र गभीराध्ययनं विधाय तत्समाधानं परिवर्तनोपायाः च सूच्यन्ते ।
क्रियानुसन्धानस्य विकासः-
क्रियानुसन्धानम् आधुनिकलोकतान्त्रिकयुगस्य एव अवदानम् । वैज्ञानिकतायाः प्रविधेश्च विकासः , तत्रत्यपरिवर्तनम् आवश्यकता च शिक्षाक्षेत्रे क्रियानुसन्धानस्य स्रष्टारः इति मन्यते । अस्य शुभारम्भः अमेरिकादेशे अभवत् । द्वितीयविश्वयुद्धसमये सर्वप्रथम क्रियानुसन्धानम् ' ( Action research ) इत्यस्य शब्दस्य प्रयोगः कोलियर ( Collier ) महोदयेन कृतः । तस्य मतानुसार “ यावत् पर्यन्तं सामान्यव्यक्तयः प्रशासनाधिकारिणः अनुसन्धानकार्य स्वयं भाग नहीष्यन्ति , तावत् पर्यन्तं तेषां परिष्कारः न सम्भवति । तदनन्तरे लेविन ( Lewin ) महाभागेन 1946 तमे वर्षे सामाजिकक्षेत्रे मानवसम्वन्ध समुचित कर्तुं क्रियात्मकानुसन्धानप्रणाल्याः प्रयोगे महन्त प्रदत्तम् । गइट् स्टोन ( Wrightston ) महाभागेन पाठ्यक्रमविभागस्य कार्यविवरणं कुर्वन् “ क्रियानुसन्धानाम् " ( Action research ) इत्यस्य शब्दस्य प्रयोगः कृतः । तावा ( Taba ) , बेड़ी ( Brady ) , रोविन्सन् ( Robinson ) इत्यादिभिः शिक्षाविद्धिः क्रियानुसन्थानस्य प्रयोगः समस्यासमाधानस्य विशिष्टविधिरूपेण विहितः । शिक्षाजगति 1953 तमे वर्षे कोलम्बियाविश्वविद्यालयस्य आचार्यः प्रो.स्टिफन् एम् कोरे ( Stephen M.Corey ) महाशयः क्रियानुसन्धानम् अग्रे नीतवान् । सदा आरभ्य अद्य पर्यन्तं क्रियानुसन्धानस्य प्रयोगः विकासश्च शिक्षाक्षेत्रे निरन्तरं जायमानः अस्ति । सम्पत्ति प्रायः सर्वेषु देशेषु शिक्षाक्षेत्रे क्रियानुसन्धानस्य प्रयोगः अवलोक्यते । सर्वादी क्रियानुसन्धानस्य विकासः शिक्षाक्षेत्रे 1926 तमे वर्षे सञ्जातः इति मन्यते , यतो हि बकिंघम् महाभागेन सर्वप्रथम Research for | chers ' इति पुस्तके एतस्य उल्लेख कृतः । परन्तु कोरि महाशयेन क्रियानुसन्धानस्य प्रयोगः सर्वादी शिक्षासमस्याना समाधानार्थ कृतः आसीत् ।
क्रियानुसन्धानस्य अर्थः
विद्यालयीयकार्यप्रणाल्याः परिष्कारार्थ परिवर्तनार्थ च एषः कश्चन महत्त्वपूर्णः विधिः । एतस्य अनुसार शिक्षकः स्वशिक्षणासमस्याः समाधातुम् अस्य प्रयोगं कुरुते प्रधानाचार्यः विद्यालयीयसमस्याः समाधान वैज्ञानिकाध्ययनेन तत्र परिवर्तन सम्पादयति । इयञ्च क्रियानुसन्धानप्रक्रिया , समस्या केन्द्रिता भवति । शोधकार्यप्रणाल्या विद्यमानसमस्या समाधाय , तत्र परिवर्तनस्य आनयनम् एतस्याः केवलम् उद्देश्य न , अपि तु क्रियानुसन्धानस्य माध्यमेन शिक्षायाः तादृशदैनिकसमस्यानां समाधानम् अध्यापकः स्वसहयोगिनां साहाय्येन प्रभाविरूपेण प्रस्तौति । एतेन शिक्षाम् अधिकोपयोगिनीं विधाय शैक्षिकसमस्यानां समाधान वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रामाणिकरूपेण च प्रस्तूयते । । एतस्य पुष्टिं कुर्वन् स्टिफन् कोरे ( Stephen Corey ) महाभागः इत्थं स्वाभिप्राय प्राकटयत् यत् , “ यावत् पर्यन्तं शिक्षकाः , छात्राः , निरीक्षकाः , प्रशासकाः , विद्यालयसंरक्षकाः च सम्भूय ' कि ते कुर्वन्तः सन्ति ' इत्यस्मिन् विषये निरन्तरं परीक्षणं न कुर्वन्ति , तावत्पर्यन्तम् अस्माकं विद्यालयाः जीवनानुकूल कार्यं कर्तुं न प्रभवन्ति । इमामेव प्रक्रियाम् अहं क्रियानुसन्धानम् इति कथयामि" इति ।
क्रियानुसन्धानमौलिकानुसन्धानयोः भेदः-
शिक्षाक्षेत्रे क्रियानुसन्धानेन सह मौलिकानुसन्धानस्य अपि विशेषमहत्त्वं वर्तते । एकस्मिन् पक्षे तु शिक्षाक्षेत्रे सिद्धान्तानां प्रतिपादनम् अपेक्षितं , तत्रैव अपरस्मिन् पक्षे व्यावहारिककाठिन्य दूरीकर्तुं सम्बद्धव्यक्तीनां वैज्ञानिकप्रयासाः अपि तावदेव अपेक्षिताः भवन्ति । उपर्युक्तयोः द्वयोरपि अनुसन्धानयोः मौलिकभेदान् अवगत्य वेस्ट ( Best ) महोदयेन स्वपुस्तके लिखित यत् मौलिकानुसन्धानं वैज्ञानिकविधिना विश्लेषणस्य सामान्यीकरणस्य च औपचारिकी व्यवस्थिता च प्रक्रिया । क्रियानुसन्धानेन मौलिकानुसन्धानस्य वास्तविकाभिप्रायान् स्वीकृत्य सिद्धान्तपतिपादनस्य स्थाने समस्यासमाधाने एव स्वीयम् अवधान केन्द्रीकृतम् । मौलिकानुसन्धानस्य क्रियानुसन्धानस्य च मध्ये विद्यमानभेदः अत्र प्रस्तूयते।
1.उद्देशः आधारेण
2.समस्या आधारेण
3.परिकल्पना आधारेण
4.अनुसन्धाता आधारेण
5.न्यादर्शः आधारेण
6. उपयोगः आधारेण
7.व्यवस्था . आधारेण
8.मूल्याङ्कनम् आधारेण
9.प्रदत्ताना विश्लेषणम् आधारेण
10.प्रारूपम् आधारेण यथासंख्याः क्रमशः भेदाः सन्ति…
क्रियानुसन्धानम् ( Action Research )
1. विद्यालयस्य कक्षायाश्च कार्यप्रणाल्यां समीकरणम् ।
2 समस्यायाः रूपं विद्यालयपर्यन्तं परिमितं भवति । अर्थात् समस्यायाः बाह्यमूल्याङ्कन न भवति ।
3. परिकल्पनानां प्रतिपादनं कारणानां विश्लेषणे आधारितं भवति । एकसिन् काले एकस्याः परिकल्पनायाः एव सत्यापन भवति ।
4. शिक्षकस्य , प्राचार्यस्य , प्रशासकस्य , विद्यालयस्य निरीक्षकस्य च प्रत्यक्षसम्बन्धः भवति ।
5. न्यादर्शचयनस्य समस्या न भवति । शिक्षकः यत्र पाठयति , तत्रैव तस्य न्यादर्शः भवति ।
6. विद्यालयस्य कक्षाशिक्षणस्य च समीकरणं क्रियते । अभ्यासकर्ता स्वकार्यकौशलं प्रभावशालि करोति ।
7. शिक्षकः स्वयमेव साधनानि एकत्रीकरोति ।
8. समस्यायाः समाधाने कियत् साफल्यं प्राप्तं न वेति शिक्षकः स्वयं निश्चिनोति ।
9. सरलसांख्यिक्याः प्रयोगः क्रियते । निरीक्षणस्य आधारेण निर्णयः स्वीक्रियते ।
10.अस्य प्रारूपं मृदु भवति । अतः शोधकर्तृणां कृते विशेषप्रशिक्षणस्य आवश्यकता न भवति ।
मौलिकानुसन्धानम् ( Fundamental Research )
1. नूतनतथ्यानामनुसन्धानं , नवीनसिद्धान्तानां च प्रतिपादनम् ।
2. समस्यायाः रूपम् अधिक व्यापक मौलिकं च भवति । एतस्य स्वरूपं सैद्धान्तिकं भवति ।
3. परिकल्पनानां प्रतिपादनं पूर्वसंशोधननिष्कर्षेषु , सिद्धान्तेषु , अनुभवेषु च आधारितं भवति एकमिन् काले सर्वासां परिकल्पनानां सत्यापनं भवति
4. शोधकर्ता निर्दिष्टविषये स्नातकोत्तरोपाधि सम्पादयेत् । समस्यया सह प्रत्यक्षसम्वन्धः भवेत् इति नास्ति नियमः ।
5. न्यादर्शस्य समस्या कठिना भवति । न्यादर्शप्रविधेः ज्ञानम् अपेक्षितं भवति
6. शिक्षासम्बद्धसमस्याः अधीत्य व्यवहारविज्ञानस्य विकासः क्रियते ।
7. अनुसन्धाता स्वयं साधनानि एकत्रीकरोति ।
8. नियुक्ताः विशेषज्ञाः वाह्य मूल्याङ्कनं कृत्वा उत्तमकार्यस्य कृते उपाधि प्रयच्छन्ति ।
9. उच्चस्तरसांख्यिक्याः प्रयोगः क्रियते । सांख्यिकी- परिकल्पनायाः विशेषमहत्त्वं भवति ।
10. मौलिकानुसन्धानस्य प्रारूपं मदु न भवति । अत्तः अत्र शोधकर्तृणां कृते विशेषप्रशिक्षणस्य आवश्यकता भवति ।
निष्कर्षः-
क्रियानुसन्धान विद्यालयीयकार्यपणाल्याः परिष्कारार्थं परिवर्तनार्थं च एषः कश्चन महत्त्वपूर्ण विधिः । विद्यालयसदस्याः स्वसमस्याः समाधातुं वैज्ञानिकाध्ययनेन परिवर्तयन्ति । इयञ्च क्रियानुसन्धानप्रक्रिया , समस्या केन्द्रिता भवति । अनुसन्धानस्य कार्यप्रणाल्यां विद्यमानसमस्याः समाधाय , तत्र परिवर्तनसम्पादनम् एव एतस्याः केवलम् उद्देश्यं न , अपि तु क्रियानुसन्धानम्म्य माध्यमेन शिक्षायाः तादशदैनिकसमस्यानां समाधानम् अध्यापकः स्वयमेव स्वसहयोगिनां साहाय्येन प्रभाविरूपेण विचिन्त्य प्रस्तूयात् । एतेन शिक्षाम् अधिकोपयोगिनीं विधाय शैक्षिकसमस्यानां समाधानं वैज्ञानिकरूपेण वस्तुनिष्ठरूपेण प्रामाणिकरूपेण च प्रस्तोतुं शक्यते । अत्र विद्यमानानां सोपानानां पक्रियाणां च सुष्ठ अवलोकनेन एतद्विषये काचित् स्थूलकल्पना भवति । तेनैव क्रियानुसन्धानेन शिक्षणप्रक्रियायां समुचितपरिवर्तनं सम्पादयितुं शक्यते । यद्यपि एतस्य काश्चन न्यूनताः भवन्ति , तथापि आवश्यकतां विलोक्य एतस्य प्रासङ्गिकता वर्तते एव । क्रियानुसन्धानस्यास्य आविर्भावन शिक्षाक्षेत्रे एक क्रान्तिकारिपरिवर्तनं समवलोक्यते ।