सामग्री पर जाएँ

सदस्यः:Pravin321/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                       श्रृंगारप्रकाशः
                    अस्य प्रणेता भोजराजः

अयं ग्रन्थः राजाभोजेन लिखितमस्ति । अस्मिन् ग्रन्थे षट्त्रिंशत् 36 अध्यायाः सन्ति । एते शब्दालङ्कारः अर्थालङ्कारः उभयालङ्कारश्च त्रिविधालङ्काराणां स्वीकुर्वन्ति । पुनः एकैस्य २४ भागः कृत्वा ७२ भेदः स्वीकरोति । अतः निम्नलिखितानुसारेण प्रारम्भः भवति । यथा – अछिन्नमेखल-मलब्धदृढोपगुढम् अप्राप्तचुम्बन-मवीक्षित-वक्तकान्ति कान्ताविमिश्रापुषः कृतिपलम्भ- सम्भोगसख्यमिव पातु वपुः पुरारेः अनेन श्लोकेन अयं ग्रन्थः प्रारम्भः भवति । अस्मिन् प्रकाशे काव्यस्य लक्षणं वर्णनं कुर्वन् कः शब्दः ? कोऽर्थः ? किं साहित्यम् ? इति विषये विश्लेषणमस्ति पुनश्च एतेषां विषयाणां संक्षपतया विश्लेषणमपि कृतोऽस्ति ।

कः शब्दः ?

येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणिनां सम्प्रत्ययो भवति स शब्दः । 1. प्रकृति २. प्रत्ययः ३. उपस्कारः ४. उपपदम् ५. प्रातिपदिकम् ६. विभक्तिः ७. उपसर्जनम् ८. समासः ९. पदम् १०. वाक्यम् ११. प्रकरणम् १२. प्रबन्धः इति । कः पुनरर्थः ? यः शब्देन प्रत्याच्यते । स च अर्थः द्वादशधाः । यथा – १. क्रिया २. कालः ३. कारकः ४. पुरुषः ५. उपाधिः ६. प्रधानम् ७. प्रातिपदिकार्थः ८. विभक्त्यर्थः ९. वृत्तर्थः १०. पदार्थः ११. वाक्यार्थः इति किं साहित्यम् ? यः शब्देर्थयोः सम्बन्धः । स च सम्बन्धः द्वादशधाः । यथा- १.अभिधा २. विवक्षा ३. तात्पर्यम् ४. प्रतिभागः ५. व्यपेक्षा ६. सामर्थ्यम् ७. अन्वयः ८. एकार्थी भावः ९. दोषहानम् १०. गुणोपादानम् ११. अलङ्कारयोगः १२. रसावियोगः इति इत्यादि क्रमेण अग्रेषु अध्यायेषु विस्तृतपूर्वकं विश्लेषणमस्ति । परन्तु शृंगारेप्रकाशेः राजाभोजेन काव्यस्य लक्षणं दीयते । यथा – शब्दार्थॊ सहितौ काव्यम् ॥ परन्तु सः एव तस्य एव ग्रन्थः सरस्वतीकण्ठाभरणे ददाति । यथा – निदौषं गुणवत्काव्यम् – अलङ्कारैरलङकृतम् । रसाऽन्वितं कविः – कुर्वन्कीर्ति प्रीतिं च निन्दति ॥ अर्थात् दोषारहितं गुणयुक्तं अलङ्कृतं रसयुक्तं च काव्यमेव यत् कविः निर्माणं करोति तद् एव कविः कीर्ति प्रीति च प्राप्नोति एवं प्रकारेण सरस्वीकण्ठा भरणेन वदति भोजराजः । भोजराजस्य समयः ९१६ -१०५१ मन्यते । महाराजभोजः सरस्वीकण्ठाभरणं शृङ्गारप्रकाशश्च नाम्नाः अलङकारग्रन्थयोः प्रणयनं कृतवान् । एषां सिन्धुराजस्य पुत्रः आसीत् पुनश्च विद्वानपि आसीत् । विद्वदजनान् प्रति सोऽपि उदावानासीत् । “प्रत्यक्षरं लक्षं ददौ” अयं सुक्तिः तस्य दानशीलतायाः परिचयमस्ति । “सरस्वतीकण्ठाभरणं शृङ्गारप्रकाशश्च” एतयोः द्वयोः अतिरिक्तमन्येषु ग्रन्थेषु निम्नलिखिताः ग्रन्थाः अत्याधिकं प्रख्यातं आसन् । व्याकरणे शब्दानुशासनम् राजमृगाङ्कं भोजवृत्तिः या मार्तण्डः नाममालिका कलायां शालिहोत्रं समराङ्गणसूत्रधारश्च युक्तिकल्पतरु सन्ति । प्रथमं परिच्छेदे १६ पददोषाः सन्ति । तावान् एव वाक्यदोषाः वाक्याऽर्थदोषाश्च पुनः २४ शब्दागुणानां वाक्यार्थगुणानां च वर्णनं सन्ति । द्वियांशः २४ शब्दालङ्काराणां सविस्तृतपूर्वकं निरुपितमस्ति । चतुर्थांशे २४ उभयाऽलङ्काराणां विस्तृतपूर्वकं निरुपितमस्ति । पञ्चमांशे रसः भावः नायकः नायिका च एतेषां विषयानां लक्षणं भेदः पञ्चसन्धिविषये पञ्चवृत्तिविषयेऽपि निरुपितमस्ति । सरस्वतीकण्ठाभरणे ६४३ श्लोकाः सन्ति । एतेषु श्लोकेषु दण्डीमहोदयस्य काव्यादशात ५०० श्लोकाः स्वीकृतः सन्ती केचन श्लोकः ध्वन्वालोकात् स्वीकृतोऽस्ति । प्राचीनकविनां प्रायः १५०० सहस्रश्लोकाः सन्ति । परन्तु शृङ्गारप्रकाशे ३६ अध्यायः सन्ति । एते अस्मिन् ग्रन्थे शब्दालङ्कारः अर्थालङ्कारः उभयालङ्कारश्च त्रिविधाः भेदाः कृत्वा प्रत्येकस्य २४ भेदाः कृत्वा अलङ्काराणां ७२ भेदाः स्वीकृतोऽस्ति ।