सदस्यः:Pritimayee300/प्रयोगपृष्ठम्
व्याकरणशिक्षणविधये हारिस्टिविधिः (Heuristic Method)
शिक्षाक्षेत्रे दिनानुदिन सामान्यो विशिष्टये वा विधिः अन्विष्टः, आविष्कृतो वा भवति। नवपद्धतिरपि वातावरणानुगुणं स्वतन्त्ररूपेण आविष्कृता भवति। यथा- हरवर्टीयपञ्चपदी, माण्टेसरी-वालोद्यानपद्धतयः आगमननिगमनविधिः, एवं आगमनसमस्याविधयोः संयोजनेनाविष्कृतोऽयं विधिः छूरिस्टिविधिरिति नाम्ना प्रथते। शिक्षाक्षेत्रे अस्प विषेः असाधारणं स्थानं वर्तते।
:
Publish
अर्थ:- "मितं भाषेत, बहु कुर्वीत' इति सिद्धान्तं, 'अध्यापकेन छात्राः अत्यल्पमेव पाठ्येरन्, अत्यधिकं अन्वेषणे प्रोत्साह्येरन् इति । Herbert Spencer महोदयस्य हरवर्टीय सिद्धान्तं चाधारीकृत्य प्रो० एच. ई आर्मस्टॉग [Prof H.E. Armstrong महोदयः नवदशशताब्द्यां विज्ञानविषय-शिक्षणार्थम्, अमुं विधिं पर्यकल्पयत्। प्रथमं यदा विद्यालयेषु विज्ञानविषयः अनिवार्यतया पाठ्यक्रमे संयोजितः, तदा प्रयोगशालाः, उपकरणानि च विना कथं शिक्षयेत् शिक्षकः इति समस्या समुदैत्। आर्मस्टॉग महोदयः सरततया उपकरणे, विना विज्ञानविषयशिक्षणार्थममुं विधिं समदर्शत्। ततः आरम्भायं स्वतन्त्रविधित्वेन प्रयुज्यमानो वर्तते। अद्य अस्योपयोगः न केवलं विज्ञानविपये, अपि च गणित-व्याकरण-प्राकृक्तिकविज्ञानादिष्वपि विपयेषु वर्तन्ते। हारिस्टिक इति पदं ह्युरिस्की [Heurisco] इति ग्रीक्शब्दात् विकृत्तं वर्तते । तस्यार्थः "अहमन्विष्यावगच्छामि इति। अस्मिन् विधी छात्राः स्वयमेव तत्त्वमन्विष्य अवगच्छन्ति । अध्यापकः तदर्थ व्यवस्थापयति। स तु केवलं मार्गदर्शकलवेन कर्म करोति । न तु सर्व शिक्षयति । छात्रेभ्यः तत्वानामवलोकनार्थ निरीक्षणार्थं चावसर परिकल्पयति। छात्राः तत्त्वानि स्वयं विविधोपकरणानां साहाय्येनावलोक्य नियम, मूलभूत तत्त्वं वा अवगच्छन्ति । छात्रेभ्यः तत्त्वानि न पाठ्यन्ते, किन्तु ते स्वयमेव अन्वेषकाः भूत्वा तत्त्वानि आविष्कुर्वन्ति। आगमनविधेः तत्त्वतान्यतिरिच्य अत्र विधौ किमपि नावीन्यं न वर्तते। अत्र छात्राः स्वीयसमस्यायास्समाधानम् अन्येषां साहाय्येन विना स्वयमेव सपरिश्रमं सप्रयासं च प्राप्नुवन्ति। विधिरयं छात्रान् शोधकर्मणि प्रेरयति । छात्राः स्वीयान् आक्षेपान् स्वयमेव सम्पादयति। अन्ते स्वयमेव तत्त्वज्ञानमन्विष्य समाधानं प्राप्नुवन्ति। छात्राः स्वानुभवैः ज्ञानं प्राप्नुवन्ति। एवञ्च हारिस्टिक् विधी छात्राः समस्यां श्रुत्वा स्वयमेवावश्यकोपकरणान्येकीकृत्यान्विष्य परीक्ष्य तत्त्वज्ञानं प्राप्नुवन्तीति स्पष्टं प्रतीतं भवेत्। अत्र प्रक्रियाया एवं महत्त्वं वर्तते। यतः इयं खलु प्रक्रिया छात्रेषु विविधकौशतानि संवर्धयति ।
ह्यूरिस्टिक् विधेः प्रमुखानि उद्देश्यानि-
1. परिश्रमः, निरीक्षणं, चिन्तनमित्येषां महत्त्वप्रतिपादनम् ।
2. अनुसन्धानतत्त्वानां परिचयः।
3. छात्रेषु वैज्ञानिकासक्तेः प्रवृत्तेक्ष संवर्धनम्
4. स्वाध्यायान्मा प्रमदितव्यमितिज्ञानोत्पादनम् ।
5. स्वप्रयासैरधिगततच्चानां व्यवस्थापनाय नियमनाय च प्रशिक्षणम्।
6. स्वीयानुभवानां तर्कसङ्गतरीत्या व्यवहारे नयनम् ।
7. तत्त्वज्ञानं कथं प्राप्नुयाच्छात्र इति विपये प्रशिक्षणम्। इत्येतानि ह्यूरिस्टिक विधेः प्रमुखान्युद्देश्यानि भवन्ति ।