सामग्री पर जाएँ

सदस्यः:Puspa Behera

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोणार्कसूर्यः मन्दिरम्

कोणार्कसूर्यदेवालयः ओडिशाराज्ये अस्ति। अस्य देवालयस्य प्रमुखः देवः श्रीसूर्यः अस्ति। राजा नरसिंहदेवः-प्रथमः अस्य देवालयस्य निर्माणम् अकरोत्। कोणार्कसूर्यदेवालयस्य आकारः रथः इव अस्ति। देवालयस्य रथाकारे द्वादश पाषाणनिर्मितानि चक्राणि सन्ति।देवालयः रथं सूर्यदेवस्य रथम् इव अस्ति, यत्र रथस्य सप्त महापाषाणाश्वाः सन्ति। परन्तु अधुना देवालयस्य बहवः भागाः जीर्णाः सन्ति। अयं देवालयः ' यूनेस्को 'इति संस्थायाः जगत्संस्कृतिस्थानरूपेण घोषितः। प्रतिवर्षम् अत्र नैके जनाः पर्यटनाय आगच्छन्ति। कोणार्कशव्दः 'कोण' 'आर्क' इति शब्दैः निर्मितः अस्ति। अर्कस्य अर्थः सूर्यः , कोणः इत्यस्य अर्थः कोणः वा भारः भवति स्म। गङ्गवंशस्य तात्कालीनसामन्तराजेन नृसिंहदेवेन १२३६-१२६४ ईपूर्वं यावत् अस्य निर्माणं कृतम् ।सत्यमेव, कोणार्कसूर्यदेवालयः भारतसंस्कृतेः प्रतीकम् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Puspa_Behera&oldid=490475" इत्यस्माद् प्रतिप्राप्तम्