सदस्यः:Puspapradhan97

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
        मानवजीवने प्राणायामस्य आवश्यकता

व्याकरणमहाभाष्यस्य प्रणेता तथा भगवत: शेषस्यावतार: महर्षि पतंजलि: योगसूत्रं रचितवान्। तस्मिन् योगविषये अष्टांगेषु प्राणायामं प्रतिपादितवान्। चित्तवृत्तिनां निरोध: एव योग:। प्राणायाम:- विपर्यय:- विकल्प:- निद्रा- स्मृति: इति पंचवृत्तय: सन्ति। एतासां वृत्तिनां नियन्त्रणम् एव योग: भवति। , शरीरं पूर्णतया रोगरहितम् आरोग्यश्च करोति योग: । पृथ्व्यां तादृश: य: कोऽपि रोग: एव नास्ति यस्य निवारणं योगेन न स्यात्। श्रीमद्भागवतगीतायां भगवान् श्रीकृष्णः उक्तम्- ' योगः कर्मसु कौशलम् '। योगस्य अभ्यासेन मानवः पूर्णतया स्वस्थः भवति । अर्थात् स्वस्थ जनस्य शास्त्रोक्तलक्ष्यणानि कथितानि सन्ति तेषां प्राप्तिः भवति योगस्य अभ्यासेन ।

                             तद्यथा आयुर्वेदे सुश्रुतः -            

समदोषस्समाग्निश्च समधातु मलक्रियः

प्रसन्नात्मेन्द्रियमनः स्वस्थ इत्याभिधीयते ।


                   प्राणायामः
              प्राणः + अपाणः = प्राणायामः,  इत्यस्य शाब्दिकार्थः भवति प्राणवायुः  (श्वसन ) वा प्राणः  (जीवनशक्ति) । प्राणायामस्य अर्थः भवति 'श्वासस्य नियन्त्रणम् '। प्राणः श्वास वा येन  प्रथते सः प्राणायामः । अयं प्राणशक्तेः प्रवाह्रत्य व्यक्तर्य जीवनशक्तिं प्रददाति । श्वास-प्रश्वासयोगर्तिविच्छेदेव प्राणायामो भवति । अनेन रजस्तमसोः यत् आवरणम् अस्माकं परितः भवति तत् स क्षीयते । तस्य नाशनेन मनः धारणाय भवति । नियमितरूपेण ध्यानपूर्वकं विशेषानुपातं गृहीत्वा श्वसनं क्रीयते चेत् तर्हि मनसः शैथिल्यं भवत्येव । मनसः क्षमता निर्मीय एका अपूर्वाशान्ति प्रस्थापनं भवति । अहंकारस्य लोपः भवति । तस्य फलस्वरूपः वासनानाम् इच्छानाञ्च अभावःभवति । शुद्ध अन्तःकरणः निर्मलं सहजं च भवति । शारीरिक - मानसिक  आरोग्यस्य प्राप्तिर्भवति । अतः अस्माकं जीवने प्राणायामस्य  महती आवश्यकतास्ति ।
          
          नासिकाच्छिद्रद्वयात् केनापि एकेन छिद्रेण श्वासस्य गमनागमनं प्रचलति । तच्च छिद्रद्वयं श्वरोदयशास्त्रानुसारं 'सूर्य - चन्दौ ', 'इडा- पिङ्गले ', ' गंगा-यमुने ', इत्यादिभिः नामाभिः प्रसिद्धम् अस्ति । वामच्छिद्रं ' चन्द्रनाडिका ' इति दक्षिणच्छिद्रं ' सूर्यनाडिका ' इति च निर्दिश्यते । तच्च तज्ज्ञानां प्रतीतम् एव । आधुनिकाः अभिप्रयन्ति यत् एकस्मिन् छिद्रे ४-५ निमेषः यावत् श्वासोच्छ्वासप्रक्रिया प्रचलति इति । एवं च आदिनं परिवर्तनं सततं भवति एव । सततं श्वासप्रश्वासगतिं यः निरीक्षते सः इदम् अनुभवेत् । छिद्रेण केनचिदपि श्वासः प्रवहेत् नाम, परं सर्वोऽपि सः वायुः फुफ्फुसद्वयं न एकमेव फुफ्फुसं प्रविशति । कण्ठभागे श्वासनलिका किल एका एव, परम् अग्रे तस्याः शाखाद्वयं भवति वामदक्षिणफुफ्फुसगमनरूपम् । अग्रे च तदेव शाखाद्वयं त्रयविंशति (२३) प्रशाखारूपेण विभिद्यते । अन्ते च द्राक्षा स्तबकवत् अनेकवायुकोषरूपेण भिद्यते एवं च श्वसनतन्त्रं समाप्तिं गच्छति । 
              प्राणायामस्य लाभः


अस्माकं जीवने शारीरिकस्वस्थतायाः महत्वं वर्तते । वैज्ञानिकयुगे केवलं पठन- पाठने आवश्यकता न वर्तते अपितु प्राणायामस्य आवश्यकता अपि वर्तते । प्राणवायुं विना शरीरस्य अस्तित्वं नास्ति । अस्माकं शरीरस्य प्राणः भवति नासिकाच्छिद्रद्वयम् ।

● प्राणायामस्य मुख्योद्देश्यः शरीरे ऊर्जा संचालन कर्तृणां मुख्यस्त्रोतानां संस्करोति । अतः अभ्यासोऽयं सम्पूर्णशरीरं पुष्यति ।

● मनसि निश्चलता आनयति शान्तिं प्रददाति च, सहैव एकाग्रतां वर्धयति ।

● जीवनशक्तिं वर्धयति चिन्तायाः स्तरं न्यूनं करोति ।

●अयं पित्तविकारमपि क्षयति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Puspapradhan97&oldid=449710" इत्यस्माद् प्रतिप्राप्तम्