सदस्यः:RAKESH KUMAR TRIPATHY
सङ्गणकसहकृताधिगमः , ई-अधिगमः च
सम्प्रति समाजस्य निर्माणे विज्ञानस्य प्रविधेश्च महत्वपूर्ण भूमिका वर्तते । अनयोः प्रभावेण अद्यतनमानवानां दृष्टिकोणः वैज्ञानिकःसञ्जातः अस्ति । सामाजिकविज्ञानेऽपि प्रतिक्षेत्रं सार्थक्यं प्राप्तुं विज्ञानस्य प्रविधेश्च सिद्धान्तान् परिणामान् च क्रियान्वितान् कर्तुं मानवाः प्रयत्नमानाः वर्तन्ते । आधुनिक कालेस्मिन् यान्त्रिककरणस्य प्रभावः अवलोक्यते । अत्र मनुष्यस्य बहुनि कार्याणि यान्त्रिकपद्धत्या स्थानान्तरितानि क्रियन्ते । येन यन्त्रवत् कार्याणि कर्तुं जनानाम् अवकाशः लभ्यते । तेन ते अन्येषु सर्जनात्मककार्येषु स्वसमयस्य उपयोगं कर्तुं शक्नुयुः ।
यान्त्रिकीकरणक्षेत्रे सङ्गणकस्य विशेषभूमिका वर्तते । प्रतिदिनं परिवर्तनसामाजिक आर्थिक संरचनायां शिक्षायाः गुणात्मकस्वरुपे अत्यन्तमहत्व प्रदियमानमस्ति । येन शिक्षा जगति यान्त्रिकिकरणं सङ्गणकस्य कालः इत्युच्यते । छात्राणां संख्यावृद्धि दृष्टवा छात्रेषु उत्तमतया शिक्षणाधिगमपरिस्थितिम् उत्पाद्या ज्ञानस्यसञ्चयर्थं सङ्गणकं महत्वपूर्णं साधनं इति मन्यते । अद्य शिक्षाक्षेत्रे सङ्गणकं प्रविधिकी सामाजिकी च उत्पाद्यं वर्तते । भाविसंसारस्य स्वरुपं निर्मातुम् एतत् निर्माणकृत्वेन एकं शक्तिशालि विद्युदयन्त्रं मानवसमाजे एतादृशयन्त्रस्य आविर्भावेन समाजस्य प्रत्येकं क्षेत्रम् अनेन प्रभावितं दृश्यते।
पञ्चत्रिशंत् बर्षेभ्यः पूर्वं विद्यालयेषु विश्वविद्यालयेषु सङ्गणकं नासीत् । गणकानां अपि उपयोगः अत्यन्तं सीमितमेव आसीत् । यान्त्रिकगणकयन्त्राणां उपयोगः विश्वविद्यालयेषु स्नातकोत्तरकक्षासु केवलं क्रियमाणः आसीत् । न तु अन्यत्र अधुना तु गृहे गृहे सङ्गणकयन्त्रं विद्यते । मार्गे मार्गे सङ्गणकशिक्षककेन्दाणि विराजन्ते । किमधिककथनेन प्राथमिक विद्यालयानां अपेक्षया सङ्गणक केन्दाणि एव अधिकानि दृश्यन्ते।
• सङ्गणकसहकृताधिगमः
सङ्गणकं तादृशम् एकं यन्त्रं यत् मस्तिष्कस्य सर्वविधकार्य कर्तुमर्हति । तादृशं शुद्धं तीव्रं यन्त्रमेतत् यत् सूचनाः प्रदत्तां विश्लिष्य शुद्धपरिणामं प्रयच्छति । आरम्भकाले सङ्गणकानि केवलं गणनायन्त्रत्वेन मन्यते । किन्तु अनन्तरम् अनुभुतं यत् गणनायाः उपेक्षया अधिकं कार्यमपि अनेन साधयितुं शक्यते । सङ्गणकेन अतिजटिलसमस्याः अपि समाधातुं शक्यते । अतः प्रत्येकं क्षेत्रे अस्योपयोगः आरब्धः अस्ति ।
सङ्गणकस्य शिक्षादानकाले सर्वे छात्राः युगपत् उपविशन्ति । पत्येकं छात्रस्य साक्षात्सम्बन्धः सङ्गणकस्य शिक्षादानकाले सर्वे छात्राः श्रवणयन्त्रेण सह ध्वनिमुद्रणयन्त्रेण सह पिञ्जपट्टिकया सह च कार्यते । सर्वादौ पाठ्यक्रम पाठ्यवस्तु लघुभिः अंशौः विभाज्य अभिक्रमः रुपेण सङ्गणके संस्थाप्यते । एतत् भारणं पुरणम् इत्युच्यते । एते पाठ्यांशाः छात्राणां पुरतः विद्यमानदुरदर्शनस्य जवनिकायां समायान्ति । छात्राः तत्पठित्वा अवगच्छन्ति । पुनश्च तैः श्रवणयन्त्रस्य ध्वनिमुद्रणयन्त्रस्य जवनिकायाः प्रश्नाः पृच्छयन्ते । तदा कक्षायाः वातावरणं शान्तं भवति । प्रश्नानां उत्तराणि आं न वेति प्रकारेण लघुवाक्यैः वा दातुं शक्यन्ते । छात्रः प्रथमं प्रश्नं स्विकृत्य तत् पिञ्जपट्टिकया टङ्कयति । अनुक्षणमेव उत्तरं सङ्गणकमाध्यमेन दियते । यदि उत्तरं शुद्धं तर्हि तस्य उत्पीटिकायां विद्यमान हरितदीपः ज्वलति । यदि उत्तरमशुद्धं तर्हि रक्तवर्णस्य दीपः ज्वलति । एतादृशस्थितौ सः सम्बद्धपिञ्जं नुदित्वा शाखीय अभिक्रमेण पाठ्यक्रमम् अवगन्तुम् अधिकज्ञानं च प्राप्नुमर्हति ।
यदि कश्चन छात्रः पाठ्यसामग्री शीघ्रम् अवगतवान् तर्हि पिञ्जं नुदित्वा स्वशिक्षणमितं यदि कश्चन छात्रः पाठ्यसामग्रीं शीघ्रम अवगतवान् तर्हि वर्धयितुमर्हति । एतस्य विपरीततया पाठ्यसामग्रीमवगन्तुं यदि काचन् अधिककालं अपेक्षते तर्हि सः सम्बद्धपिञ्जं नुदित्वा शिक्षणगतिं मन्दां कत्तुमर्हति ।
सङ्गणकं कस्याश्चित् कक्षायां प्रदत्तस्य शिक्षणस्य गणनायपि स्थापयति । एतस्य प्रमुखः लाभसु कस्याचित् पाठस्य मध्ये अन्ये वा केन छात्रेण कीदृशं कार्यं कृतमिति परिक्षणमपि भवितुमर्हति । निर्दिष्टछात्रः अन्येषां छात्राणां अपेक्षया अग्रे गतोऽस्ति पृष्ठतः स्थितः अन्यैः सह मिलित्वा गन्तुमर्हति वा इति ज्ञातुं शक्यते ।
कक्षायाः शान्तवातावरणत्वात् छात्राणां अवधानां श्रवणयन्त्रे वा तिष्ठति अनेन शिक्षणे सरलं भवति । छात्राः यत् शिक्षन्ते तस्य परिक्षणमपि अनेन यन्त्रेण तदा तदा भवितुमर्हति । स्वप्रगतिविषये समुचित ज्ञानप्राप्तित्वात् एतत्माध्यमेन छात्रेभ्यः प्रेरणा प्रोत्साहनं च लभ्यते ।
ई-अधिगमः
ई-अधिगमः प्रद्योगिकी समर्थिता शिक्षा एव ई अधिगम । यथा स्वाभाविकतायाः क्रियात्मिका तथा उद्येश्यं बालकानां अनुभवः अभ्यासः एवं ज्ञानं निर्माणकत्तुं प्रभावयति । सूचना एवं प्रणासियां सुखव्यवस्थितरुपेण शिक्षणप्रक्रियया कर्मनित्वं तथा सेवां प्रदायति । अतः अनया प्रक्रियया ई-शिक्षा प्रचलति ।
ई-शिक्षा अनिवार्यरुपेण कौशलं ज्ञानं च प्रदायति । पुनः ई-शिक्षा सम्पुर्णरुपेण सङ्गणकं तथा अन्तर्जाले शाकं समन्वितं भवति । एषा शिक्षा अन्तर्जाल आधारित शिक्षा सङ्गणकाधारितशिक्षा,आभारीशिक्षा,डिजीटल सहयोगेन आधारित भवति । पाठ्यक्रमस्य सामग्रीणां विवरणं अन्तर्जालमाध्यमेन ओडिओ माध्यमेन,विडिओ माध्यमेन,उपग्रहटीवी माध्यमेन भवति । अस्यां शिक्षायां माध्यमः भवति छवी,एनिमेशन्,ओडिओ माध्यमेन पठन-पाठनं चलति । ई-शिक्षा साधारणतः कम्प्युटर आधारित प्रशिक्षा इंटरनेट् आधारित प्रशिक्षा वेब आधारित शिक्षा माध्यमेन प्रचलति ।
ई-अधिगमस्य लाभः
ई-अधिगमे अनेकाः लाभाः सन्ति । तन्मध्ये कश्चन प्रदतवन्तः –
• विभिन्नप्रकारेस्थाने पाठ्यक्रमस्य उपयोगः ।
• सार्वजन्यपाठ्यक्रमस्य उपयोगः भवति ।
• विविधज्ञानस्य आरोहण प्राप्तिः अल्पसमये भवति ।
सम्प्रति सर्वेषु विकसितदेशेषु एतस्य मस्तिक यन्त्रस्य प्रभावसाधनत्वेन उपयोगः क्रियमाणः करोति । सङ्गणकेन सह कार्यं कृत्वा छात्रान् अवलोक्य अवगम्यते यत् क्रियायाः उत्साहेन ते कार्यक्रमः सम्पादयति । अद्य एषा प्रणाली औपचारिकानौपचारिकशिक्षायोः द्वयोः अपि स्तरयोः कृते प्रयुज्यते । दुरस्थशिक्षाव्यवस्थायां तदीयपाठ्यक्रमस्य च निर्माणे दुरदर्शन माध्यमेन उपग्रहमाध्यमेन च दीयमानं शिक्षणम् एतस्य योगदानमिति मन्तव्यम् । एतस्याः परियोजनायाः उद्येश्यं छात्रेषु सङ्गणकं प्रति जागरुकानि,सङ्गणकस्य विभिन्नोपगेषु ज्ञानप्रदानासीत् । अद्य NCERT,NCTE,VGC,CTET इत्यादिषु बहुविधसंस्थाषु सङ्गणकशिक्षणं शिक्षा समाश्रिताः सन्ति । एतेन शिक्षणं यद्यपि यान्त्रिकशिक्षणम् इति बहवः अभिप्रयन्ति । तथापि अनेन अल्पीयसि काले बहुभ्यः छात्रेभ्यः स्तरानुगुणं शिक्षणं प्रदातुं शक्यते । तत्र यन्त्राणाम् अवलम्बनं नावश्यकं । तत् अनुचितमपि कार्याणि वयं एव कर्त्तुं शक्नुमः न तु यन्त्रं वयं स्वनिर्मिताय यन्त्रमपि पूर्णं स्वातन्त्रे न दद्याम येन सङ्गणकम् अस्माकं सहकारमात्रं करोति । न तु अन्य किमपि अतः तस्य उपयोगितां विलोक्य प्रयोजनं कुर्मः येन महत् लाभः भविष्यति ।