सदस्यः:Rajalakshmy M
अभिज्ञानशकुन्तलचर्चा
पुस्तकप्रकाशनविभागः केरलविश्वविद्यालयः तिरुवनन्तपुरम्
१९७७
॥ श्रीः ॥
अभिज्ञानशकुन्तलचर्चा
सारं यन्निगमस्य यत्क्रतुभुजामाहुः क्रतुं चाक्षुषं
यस्यायं शिवया शिवेन च पुनस्सम्यक् प्रयोगः कृतः ।
ब्रह्मास्वादसहोदरो रसविदां यस्मात् प्रमोदो महान्
यत्रार्थाः पुरुषस्य सन्ति सुलभास्तन्नाटयमुत्कृष्यते ।।
कवीन्द्रोऽयं कालीपदयुगलनालीकविगल
न्मधुस्रोतःकेलीनियतनिरताली विजयते ।
परिस्फूर्जद्वाणीरसभरितवेणीमधुरिमो
न्मिषत्सूरिश्रेणिस्फुरितरमणीयेन यशसा ॥
गुणदोषविभागज्ञाः सदा गुणपरायणाः ।
सचेतसो निरीक्षन्तामिदं नाट्यनिरूपणम् ॥
इह खलु वाङ्मयेषु साहित्यानि निर्भरं स्वदन्ते, तत्रापि विचित्रप्रबन्धाः, तेष्वपि नाटकानि, नाटकेष्वपि शाकुन्तलादीनि । तदुक्तम् -
“नाटकीयैर्गुणैर्युक्ता ये, औरन्ति सतां मतः ।
क्व तेषां दृष्टमुत्थानं कालिदासकवेः कृतौ ॥
कालिदासस्य सर्वमभिज्ञानशकुन्तलम् ।
तत्रापि च चतुर्थोऽङ्को यत्र याति शकुन्तला ॥"