सदस्यः:Rajaykumar79

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                    || अधिगमः ||

राजय कुमार देवाङ्गन[१]

शिक्षाशास्त्री द्वितीय वर्ष

अधिगमस्यार्थः -

          अधिगमः व्यापकं जीवनपर्यन्तं सततप्रचाल्यमाना काचित् गतिशीला प्रक्रिया वर्तते | अधिगमं जर्मनभाषायां Lernen इति कथ्यते तथा आङ्ग्लभाषायां Learning इति कथ्यते | मनुष्यः जन्मतः मृत्युं यावत् यत्किमपि शिक्षत्येव | मनुष्यः स्वीयजीवने तत्कालीनवातावरणेन सह शनैः-शनैः समायोजनाय प्रयतते | समायोजनद्वारा प्राप्तानुभवमाध्यमेन सः अधिकाधिकं लाभान्वितं भवति | इमां प्रक्रियां मनोविज्ञाने अधिगमः इति कथ्यते | मनुष्यः यावत् शिक्षति तावत् तस्य जीवनस्य विकासः भवति | शिक्षणप्रक्रियायां मनुष्यः अनेकाः क्रियाः उपक्रियाः करोति |

          उदाहरणार्थ - शिशुं सम्मुखे यदा ज्वलन्तं दीपकं नीयते तदा सः तस्य ज्वालां प्राप्तुं प्रयासं करोति | अस्मिन् प्रयासे तस्य हस्तः ज्वलति तथा सः स्वहस्तं बहिरानयति | पुनः यदा तस्य सम्मुखे प्रज्वलितं दीपं नीयते तदा सः स्वीयानुभवानुसारेण दीपकं न स्पृशति अपितु तस्मात् दूरं गच्छति | इमं विचारमेव स्थितिं प्रति प्रतिक्रियाकरणम् इत्युच्यते | अन्यशब्देषु कथितुं शक्यते यत् अनुभवाधारेण बालकस्य स्वाभाविकव्यवहारे परिवर्तनमायाति |

अधिगमस्य परिभाषाः -–

        अनेके विद्वांसः पृथक्-पृथक् रूपेण अधिगमस्य परिभाषाः दत्तवन्तः ते परिभाषाः अधोलिखिताः वर्तन्ते -

          १) वुडवर्थमहोदयानुसारं -–  “अधिगमः विकासस्य प्रक्रिया वर्तते |”

          २) स्किनरमहोदयानुसारं[२] -–  “अधिगमः व्यवहारे उत्तरोत्तरसामञ्जस्यस्य प्रक्रिया वर्तते |”

          ३) जे. पी. गिलफ़र्डमहोदयानुसारं -– “व्यवहारकारणेन व्यवहारे जायमानं परिवर्तनं भवति अधिगमः |”

          ४) कालविनमहोदयानुसारं -– “पूर्वनिर्मितव्यवहारे अनुभवमाध्यमेन भवितं परिवर्तनम् अधिगमः इत्युच्यते |”

          ५) गेट्समहोदयानुसारं -–   “अनुभवेन व्यवहारे जायमानं परिवर्तनम् अधिगमः कथ्यते |”

          ६) आर्मरोडमहोदयानुसारेण -– “अधिगमेन तात्पर्यमपेक्षितरूपेण स्थायिपरिवर्तनेन वर्तते, यत्तु अनुभवकारणात् व्यवहारे साहचर्ये वा भवति |”

          ७) गार्डनरमरफ़ीमहोदयानुसारेण - “अधिगमपदे वातावरणसंबन्धिन्या आवश्यकतायाः पूर्तये व्यवहारे जायमानानि सर्वाणि परिवर्तनानि समाविशन्ति |”

          ८) क्रोयुगलमहोदयानुसारेण -– “अधिगमः स्वभावस्य, ज्ञानस्याभिवृत्तेश्चार्जनं नाम |”

          ९) गेनेमहोदयानुसारेण -–   “मानवप्रवृत्तौ क्षमतायां वा तत्परिवर्तनमधिगमः इति कथ्यते यत् स्थैर्यं भवति तथा च वृद्धिप्रक्रियायाः कारणात् नैव जायते |”

          १०) किङ्ग्स्लेगेरीमहोदययोरनुसारेण -– “अभ्यासस्य प्रशिक्षणस्य वा परिणामतः नूतनप्रकारेण व्यवहारप्रदर्शनस्य व्यवहारपरिवर्तनस्य वा प्रक्रियैवाधिगमः कथ्यते |”

अधिगमस्य नियमाः –

          ई.एल.थार्नडाइकमहोदयेन केचन नियमाः अन्वेषितं ते अधोलिखितभागद्वये विभाजितो वर्तते - –

          १) मुख्यनियमाः -–

                    * तत्परतायाः नियमः |

                    * अभ्यासस्य नियमः |

                    * प्रभावस्य नियमः |

          २) गौडनियमाः -–

                    * बहुअनुक्रिया सिद्धान्तः |

                    * मानसिकस्थितेः नियमः |

                    * आंशिकक्रियायाः नियमः |

                    * समानतायाः नियमः |

                    * साहचर्यपरिवर्तनस्य नियमः |

मुख्यनियमाः -–

   तत्परतायाः नियमः -–

                    अस्य नियमस्यानुसारं यदा कोऽपि व्यक्तिः किमपि कार्यं कर्तुं प्रथमतः सज्जः भवति तदा तत् कार्यं तमानन्दति एवञ्च शीघ्रमेव अधिगच्छति | अस्य विपरीतं यदा व्यक्तिः कार्यकरणार्थं सुसज्जितः न भवति अथवा शिक्षणे इच्छा न भवति तर्हि सः खिन्नः भवति अथवा क्रुद्धः भवति एवञ्च तस्य अधिगमगतिः अपि मन्दः भवति |

        अभ्यासस्य नियमः -–

                    अभ्यासस्य नियमानुसारं मनुष्यः यां क्रियां बारम्बारं करोति तां क्रियां शीघ्रमेव अधिगच्छति | एवञ्च सः यां क्रियां त्यजति अथवा बहुकालपर्यन्तं न करोति तर्हि सः तां क्रियां विस्मरति | यथा – गणितस्य प्रश्नानामभ्यासकरणम्, टङ्कणकरणम्, द्विचक्रिकाचालनम्, इत्यादिः |

            प्रभावस्य नियमः -–

                    अस्य नियमानुसारं यया क्रियया मनुष्यस्य जीवने सुष्ठुप्रभावः भवति अथवा सुखशान्तिं प्राप्नोति, तां क्रियामधिगन्तुं सः प्रयतते | एवञ्च यया क्रियया तस्योपरि कुप्रभावः भवति तर्हि सः तां त्यजति |

गौणनियमाः -–

   बहुअनुक्रियासिद्धान्तः -–

                अस्य नियमानुसारं व्यक्तिसम्मुखे यदा कापि नूतना समस्या आगच्छति तर्हि सः तां निवारणाय विभिन्नप्रतिक्रियामाध्यमैः समाधानम् अन्वेषति | सः प्रतिक्रियां तावत् पर्यन्तं करोति यावत् पर्यन्तं समस्यायाः सुसमाधानं न प्राप्नोति| अनेन सः संतोषं भजते | थार्नडाइकमहोदयस्य प्रयत्नविस्मृति सिद्धान्तः अनेनैवाधारितः अस्ति |

        मानसिकस्थितेः मनोवृत्तेः वा नियमः -–

                     अस्य नियमस्यानुसारं यदा कोऽपि व्यक्तिः अधिगन्तुं मानसिकरूपेण सुसज्जितः भवति तदा सः शीघ्रमेव अधिगच्छति | अस्य विपरीतं यदि व्यक्तिः मानसिकरूपेण कार्यं कर्तुं सन्नद्धः न भवति तर्हि सः कार्यं नैव अधिगन्तुं शक्नोति |

        आंशिकक्रियायाः नियमः -–

                    अस्य नियमानुसारं व्यक्तिः कामपि समस्यां साधयितुम् अनेकाः क्रियाः प्रयत्नविस्मृतिश्च इत्याधारेण करोति | सः स्वीयान्तर्दृष्टेः उपयोगं कृत्वा आंशिकक्रियाणां सहायतामाध्यमेन समस्यायाः समाधानं अन्वेषति |

        समानतायाः नियमः -–

                    समानतायाः नियमानुसारं यदि आगतसमस्या अथ च मनुष्यस्य पूर्वानुभवमध्ये परिस्थितिर्मध्ये वा साम्यता दृश्यते चेत् समस्यायाः आगमने मनुष्यस्य अनुभवः स्वतः एव स्थान्तरितं भूत्वा अधिगमे साहाय्यं करोति |

        साहचर्यपरिवर्तनस्य नियमः -–

                    अस्य नियमस्यानुसारं व्यक्तिः प्राप्तज्ञानस्य उपयोगः अन्येषु परिस्थितिषु अथवा सहचारी उद्दीपकं प्रत्यपि करोति| यथा – भोजनं दृष्ट्वा कुक्कुरस्य मुखात् स्वतः एव लारस्रावः निपतति| परन्तु कालानन्तरं भोजनद्रोणीं दृष्ट्वा एव लारस्रावः तस्य मुखात् निर्गच्छति | 

  1. Empty citation‎ (help) 
  2. Empty citation‎ (help) 
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rajaykumar79&oldid=436724" इत्यस्माद् प्रतिप्राप्तम्