सामग्री पर जाएँ

सदस्यः:Rajendra Sharma 12

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सांख्य दर्शन - सांख्य दर्शनस्याद्य आचार्यः कपिलः सिद्धान्तस्तु प्रकृतिः पुरषश्चेति द्वे मळेतत्वे अनयोरेव संवन्धाज्जगदुत्पध्यते। प्रकृतिर्जडा, पुरुषश्चेतनः पुरुषसम्बन्धात् प्रकृतौ क्रिया । सत्कार्यवदः अत्र समर्थितः। नास्ति सांख्यसमं ज्ञानं ,नास्ति योगासमं बलम्। अत्र वः शंसयो माभूत् ,ज्ञानं सांख्य परम् स्मृतम्।। संख्याम् प्रकुर्वते चैव , प्रकृतिं च प्रचक्षते।तत्त्वानि च चतुर्विंशति , तेन सांख्यम् प्रक्रीर्तितः।। सत्वादिगुणानां महदादिकरणानां प्रकृतिपुरुषयोश्च वर्णनं उपनिषत्सु अनेकेषु समुपलभ्यते पुरणोतिहासादिषु च भूयो भूयः प्रशंसितमस्ति सांख्य दर्शनम्। अत्र मते पञ्चविंशतिस्त त्वानि।१. मूलप्रकृति २.महान् ३. अहंकार ४.रूप ५. रस ६. शब्द ७.स्पर्श ८. गन्ध पञ्चतन्मात्रानि तथा च पञ्चकर्मेन्द्रियानि , पञ्चज्ञानेन्द्रियानि एकं मनः । ८+११ .१९ पञ्चभूतानि क्षिति ,जल, पावक , गगन , समीर। १९+५ . २४पुरुषश्च २५ इति । न्याय दर्शन- न्याय शास्त्रं अतिप्राचीनम् अस्य प्रवर्त्तकः सूत्रकारः गौतमः ५०० ई०पू० सम यः अजायत। अयन्च महर्षि गौतमः अष्टादशपुराणानां व्रम्हसूत्राणान्च रचयितुः श्रीव्यासस्य समकालीन आसीत् । गोतमम् प्रवर्तितं न्यायशास्त्रम पदार्थ मीमान्साशास्त्रम्। षोडशपदार्थार्श्चाभ्युपगताः प्रमाण प्रमेयाध्याः। वाचस्पतिः मिश्रः न्याय वार्तिक तात्पर्ये तदीमपि मतम् विस्तरेण गर्हयामास । उदयनः अपि "न्याय वार्तिक तात्पर्य- परिशुद्धि" नामकेन व्याख्या ग्रन्थेन वाचस्पतेर्ग्रन्थम परिष्कृतवान् । तत्र प्रमाणप्रमेय संशय प्रयोजन दृष्टान्त सिद्धान्तावयव तर्क निर्णयवाद जल्पवितणडा हेत्वाभच्छलजाति निग्रहस्थनां तत्व ज्ञानान्निः श्रेयसाधिगमः इति तत्सिद्धान्तः। वेशेषिकस्य समानतन्त्रवत् परमाणुकारणतावाद् अस्य विशिष्यद्यानमाकर्षति दार्शनिकानाम्।शुखदुःखात्मकमनो वृष्योर्नाशे जाते मनःसाम्यावस्था प्रतिपद्यते । तदा आत्यन्तिकदुःखनिवतिर्भवति शैवमुक्तिः। इश्वरः अनुमानगम्यः। जीवनमुक्तिपर निःश्रेयशब्देन विदेह्मुक्तिश्च परनिःश्रेयस शब्देन प्रतिपद्यते।। वेशेषिक दर्शन- वेशेषिक दर्शन जन्मदात्रित्वेन कणादेन पित्रा लालितम् पालितं पुत्रवच्च परि वर्धितम् वेशेषिक दर्शनमिदम् सर्वेभ्यो दर्शनेभ्यः अतीव श्रेष्ठम् सर्वथा प्रशस्तम् प्राचीनतमञ्चेति गीतये। प्रणेता कणाद कश्यप वं शोत्पन्नतया काश्यपशब्दनोक्त्त। विशेषपदार्थस्वीकारमूलकमेवास्य दर्शनस्य वेशेषिकमितिनामकरण वेशेषिक त्रयोहेत्वाभासाः स्वीकृताः। दश अध्यायै५७० सूत्रैश्च निवद्धमिदम् दर्शनम्। इदम् दर्शनम् सर्वशास्रोपकारकम्। अत्र दर्शने रावणेन भाष्यं प्रणीतम् यन्नोपलभ्यते। तदनन्तरं भारद्वाजवृत्तिः प्रशस्तपादभाष्यम् शंकरनिश्रस्योपस्करःइत्यादि। आदिमम् सूत्रं धर्मविशेष प्रसूतात् दृव्यगुणकर्म सामान्य विशेषसमवायानां पदार्थानां साधर्म्य वैधर्म्याभ्यां तत्वज्ञानान्निश्रेयसाधिगमः।अस्मिन् दर्शने परमात्मा तु ईश्वरापरनामा जीवात्मानो भिन्न एव। तत्वज्ञानेन् मिथ्यावासनायां निवर्तितायां रागाभावात् प्रवृत्यभावे कर्माभावात् सुखदुःखागमः स एव मोक्ष इति ।श्लोक - शब्दोपमानयोर्नैव पृथक प्रामाण्यमिष्यते। अनुमानगतार्थत्वादिति वैशेषिकम् मतम्।। योगदर्शनम् ‌‌- अस्य प्रवर्तकः महर्षिः पतञ्जलिः योगदर्शनम् प्राचीन- दर्शनम् , नानासिध्दीनां जनकमित्यत्रापि च नास्ति विवादः।अयञ्च महर्षिः प्रवरः श्रीपतञ्जलिः शेषावतारः विद्वान् व्याकरणमहाभाष्यकारश्चासीत्। षड्दर्शनाचार्यः श्रीः वाचस्पतिमिश्रः अपि योगभाष्यस्योपरि " तत्ववैशारदी" नाम्नि टीकां रचितवान् । एवं योगसूत्राणामुपरि चास्त्येका "राजमार्तण्डे" व्याख्या टीका श्रीभोजराजविरचिता अतीव प्रशस्तेति गीयते । विज्ञानभिक्षुः १६००ईसवीये "योगवार्तिकम्" नामकं खल्वेकंयोगदर्शनस्य ग्रन्थं लिखितवान् । तदनन्तरञ्च यतिप्रवरः श्रीरामानन्दः १७००ईसवीये "मणिप्रभा" नाम्नीं टीकामकरोत ‌।महापण्डितः श्रीनागेशोऽपि १७००ईसवीये वर्षे योगसूत्रवृत्तिं लिखितवान् । इदं योगदर्शनं पादचतुष्ट्यात्मकम् ।यथा -1.प्रथमेपादे-योगस्वरूपस्यविस्तृतं निरूपणम् । 2.द्वितीयपादे-क्रियायोगः तत्साधनानि प्रमाथीनि च। 3.तृतीयपादे-अन्तरङ्गं साधनं जातं ध्यानधारणासमाधिरुपं संयमपदव्यपदेश्यम् ।। पूर्वमीमांसा दर्शनम्-- वेदस्य पूर्वभागे योऽस्ति विषयो विचारितस्तादृशविषयको विचारः एव "पूर्वमीमांसा "शब्देनाऽभिधीयते । सच विचारः "कर्म" विपाको विचारः । यथोक्तम्- कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।(इशोपनिषद-२) "शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम्" ( गीता-४-२१) पूर्वमीमांसादर्शनस्य कृते जन्मदातृजैमिनिनये कर्मणा एवाऽभ्युदयनिःश्रेयसयोः समवाप्तिजनकत्वेव तस्यैव कर्मणः प्राधान्येन निरूपणीयत्वात् इति। मीमांसायाः चर्चा वेदस्य संहितायामुपनिषदि ब्राह्मण ग्रन्थेषु प्राप्यते।कुमारिलः श्लोक वार्तिके- " धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" इति। वारदायणेन-कर्मफलदातेश्वरो मन्यते । जैमिनिना ८००ई०पूर्व समये मीमांसा सूत्राणि प्रणीतानि।। उत्तरमीमांसादर्शनम्( वेदान्तदर्शनम्)। वेदान्तो वेदस्य अन्तिमोभागः अवसानभागः इति विग्रहेण उपनिषद उच्यते। उपनिषद एव प्राचीनैर्वेदान्तशब्देनोक्ताः ।वेदान्तसारे वेदान्तोनाम उपनिषत्प्रमाणमित्युक्तम् । उपनिषदोऽनेकाः तासु विरोधोऽपि प्रतिभासते ।तस्यैव विरोधस्य दूरीकरणाय व्यासेन ब्रह्मसूत्राणि रचितानि ।एतानि सूत्राणि पाणिनेरपि प्राचीना नि ।इमे सर्वेऽपि वेदान्त सिद्धान्ताः ।।१. अनादिरनुवर्तमानोऽयं संसारोऽपास्य एव ।२. ज्ञानापेक्षया कर्मणो गौणत्वम्। ३. ब्राह्मादीद्रियातीतवस्तुनिरूपणे वेदाः प्रधानतया प्रमाणानि ।‌।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rajendra_Sharma_12&oldid=460886" इत्यस्माद् प्रतिप्राप्तम्