सामग्री पर जाएँ

सदस्यः:Rangaraj Dev Sharma

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
             पुराणसाहित्यम्

'इतिहासपुराणाभ्यां वेदं समुपबू हयेत्' इति वेदानां समुपबृ' हकत्वेन पुराण- साहित्यस्यापि वेदोपकारकत्वम् । 'श्रुतानीह पुराणानि सेतिहासानि चानव' इत्यादिवाक्यादितिहासस्याऽपि पुराणसहचरत्वेन वेदोपकारकत्वं सिद्धमेव । तहि क इतिहासः किं वा पुराणमित्यपेक्षायामुच्यते यदितिहासः पुरावृत्तमेव पुराणञ्च सर्गप्रतिसर्गवंशमन्वन्तर वंशानुचरितादिपञ्चविधलक्षणोपेतमाख्यान- मेवान्यथा भविष्यत्पुराणमित्यादौ विरोधापत्तेः । पुराणपदं तु पुरा भवमिति व्युत्पत्त्या 'सायंचिर'इत्यादिना टयुप्रत्यये निपातनात् तुडभावे सिद्धयति वा पुरा नीयते अनेनेति पुरा+नी+डः, डित्वसामर्थ्यात्, टिलोपो णत्वञ्च । किन्तु पुराणशब्दः प्रसङ्गेऽस्मिन् योगार्थमतिक्रम्य रूढार्थमावहति ।

पुराणलक्षणं यथा -

"सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितञ्चैव पुराणं पञ्चलक्षणम् ॥",

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rangaraj_Dev_Sharma&oldid=483694" इत्यस्माद् प्रतिप्राप्तम्