सदस्यः:Ranjita Sahu/प्रयोगपृष्ठम्
कर्णाभारम् कर्णभारं दशरुपकेषु अङ्क अथवा उत्सृष्टीकाङ्करूपम् रूपकं भवति। उत्सृष्टिकाङ्कस्य लक्षणम् दशरूपके एवं दत्तमस्ति। उत्सृष्टिकाङ्के प्रख्यतम् वृतं बहुधा प्रपञ्चयेत्। रसस्तु करुणःस्थायि नेतारः प्राकृतानराः॥ भाण्वन् सन्धिवृत्यङ्गेयुक्ति स्त्रीपरिदेवितैः। वाचा युद्दं विधातव्यं तथा जयपराजयौ॥ १.कथावस्तु महाभारताश्रीतमिति प्रख्यातत्वम्। २.करुणएव मुख्यरसः इति यद्यपि वक्तुम् नशक्यते, तथाऽपि अङ्गिनो वीररसस्य प्रधानाङ्गम् भवति। ३.कर्णादृते भटाद्वयो समान्य जनापि वर्तन्ते। ४.मुख्यनिर्वहण सन्धी स्तः।
कविपरिचयः
[सम्पादयतु]भासमहाकविः कालिदास –बाण –दण्डी इत्यदिभिः स्तुतः। तत्रकालिदासस्य कालस्तु न निश्चित इति। तेन भासस्य कालविषये नास्ति किमपि प्रयोजनं। किन्तुभाण भट्टःसप्तमशतके आसीदिति स्पष्टमेव । अतः भासः सप्तमशतकात् प्राक् आसीदिति तु सिध्यति । कलिदासस्य कालस्तु चतुर्थ शतकमितिकेचन (पश्चात्याः) वादन्ते तद्यादि सत्यं तर्हि भासः द्वितीय शतके प्रथम शतके वा आसीदिति वक्तव्यंभवति। भारतीय अनेक विद्वांसः कालिदासस्य कालः प्रथमशतमिति अभिप्रायन्ति । तथाचेत् भासस्य कालः क्रिस्तपूर्व तृतीय-चतुर्थ शतकं भवेत् । यथारामायण महाभारतादीषु दृष्यन्ते ततैव भासस्य रूपकेषु अपि अपाणिनीय प्रयोगाः सन्ति । तेऽपि एतदेव पुष्टिकुर्वन्ति। अतः भासस्य कालोऽपि न निश्चितः ।
देश:- भारत वर्षस्य कस्मिन् भागे सञ्जातः कुत्रवा उषित इत्यमूम् विचारं निश्चितुं न किमपि प्रमाणमुपलभ्यते। सः केरलीयः इति साधयितुं कैश्चित् प्रयतितम् ।तत्रकारणानि सच मालयालं भाषया वर्तते। कृतयः – भासमहाकवेः कृतयः त्रयोदश रूपकाणि इति ज्ञयते। तेषां रूपकाणां समूह भासानाटकचक्र मित्युच्यते। अत्रान्यतमम् कर्णभरनाटकम्। ग्रन्तविचारः – आलङ्कारिकेण आनन्दवर्धनेनोक्तम् –तौ शब्दार्थो महाकबेःइति तैरुक्तश्चाकारोपि अर्थवान् भवति। तथैव काव्यस्य शीर्षकं अपि सर्थकमेव यथा अभिज्ञान शकुन्तलम् , स्वप्नवासदत्तम् इत्यादि। कर्णभारस्यापि शीर्षकस्य विषये लब्दन अभिप्रायामेवं सङ्रग्रहीतुं शक्यते-
१.कर्णयोः भारभूतकुण्डलदानेन कर्णभारम्। अयम् अभिप्रयाः न तावत् अङ्गीकारार्हः । यतोहि कुण्डलापेक्षया भारभूतं कवचं एतस्य जीवरक्षकं आसीत् ।
२.कौरवपक्षस्य सर्वोऽपि भारः कर्ण एव निहितमासीदिति कर्णाभारम् ।
भीष्मद्रोणाययो यद्यपि कौरवपक्ष एवासन् तथापि ते मनसा पाण्डवपक्षीया एवेति जानातिस्म दुर्योधनः।
अतः कर्णएव स विश्वस्त आसीत्। अतः कौरवपक्षस्य , मित्रस्य दुर्योधनस्य प्रतिष्ठायाश्च संरक्षणं कर्णस्यैव दायित्वमासीदिति तथोक्तम।
३.कर्णस्य जीवनमेव भारभूतमिति कर्णभारम्। दानस्य पुरतः सर्वमपि तुच्चमेव तन्मते। देवदूतस्य निर्गमनानन्तरं शल्य – कर्णौ रणाङ्गणं प्रविशतः । तदेव अर्जुनस्य प्रलय सागर घोषसदृशः शङ्कध्वनिरपि श्रूयते। अर्जुन यत्र वर्तते तत्रैव रथः नीयतां इति कर्णः शल्यं आदिशति । अस्त्वितुक्त्वा शल्यः रथं चालयति तावता कर्णाभारः समाप्यते।