सामग्री पर जाएँ

सदस्यः:Ravalravi/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

Xiii तृतीयभागे

   विषयः                    पृष्ठम्

विषयः पृष्ठम्

दवसुवां हवीर्षि 107 सवनिरुपणम् 122 सौमिकव्यापाराः ” द्वादशाहक्रतुः 125 सौत्रामणीयागः 108 द्वादशाहे संस्थास्तोम- राजसूयः ”पृष्ठसामनिरुपणी पट्टीका 127 अश्वमेघः 115 ग्रहागता ” अश्वमेघस्य सर्वश्रेष्ठता 120 गवामयनम् 128 पुरुषमेघः 121 षडहस्वस्वरुप निरुपणम् 129 सर्वमेघः 122 महाव्रतनिरुपणम् 131

                                                  APPENDIX                       i

वेदीनां चित्राणि 1. दार्शपौर्णसिकी वदिः 5. पशुयागीया वेदिः 2. चातुर्मास्यवेदिः 6. सोमयागार्था वेदिः 3. एकादशकपालोपधानप्रकारः 7. सुपर्णचितेः 2,4. प्रस्तारो अष्टाकपालोपधानप्रकारः 4. प्रकारानन्तरं तयोरेव ।।श्रीः।। ।।श्रीगणेशाय नमः।। ।।यज्ञतत्वप्रकाशः ।। महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः || प्रथमो भागः || चञ्चच्चन्द्रकलानिरन्तरवहत्मीयूषधारोक्षितो गङ्गोत्तुङतरङभङनिवहक्लिद्यत्कपर्दोज्जवलः। कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनम्

                          कुर्वञ्छ्रेय इहादधातु जगतां क्षेमङ्करश्शङ्करः।। 1 ।।

जगत्स्थित्यद्भवलया यत्प्रसादादनेकधा । तं नौमि परमात्मनं यज्ञेशं यज्ञरुपिणम् ।। 2 ।। यज्ञानां प्रकीया ह्येषा ह्रसिमानमुपागता ।

                   उद्धर्तुमेनां यत्नोઽयं प्रीणन्तु सुधियोઽमुना ।। 3 ।।

अग्न्याधेयम् एवं तावत् सर्वेषां श्रौतकर्माणाम् उत्पत्तिविकासादिनिरुपणद्वारा सामान्यस्वरुपमं निरुपितं किञ्चित् सामान्यकाण्डे । इदमिदानीं विशेषतस्तेषामेव विविच्यअवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि सर्वाण्यपि श्रौतकर्माणि कृतदारेण आहिताग्निना अनुष्ठेयानीति शास्त्रसिद्धान्तः । आहिताग्निस्तु विधिवत् श्रुतिविहितमाधानं योઽनुतिष्ठति स एव भवति । अतस्तदेव पूर्वं निरुप्यते ।।

     आधानं त्रिविधं – होमपूर्वाधानम्, इष्टपूर्वाधानम्, सोमपूर्वाधानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्वं यदाधानं करोति 

  Page – 2

तद्धोमपूर्वाधानम् । दर्शपूर्णमासेष्ट्यारम्भात् पूर्वं क्रियमाणमिष्टिपूर्वाधानम् । समयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्थम् -

  यियक्षमाणः पुरुषो वसन्तर्तौक(कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारभेत । तद्दीन प्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम्ख।।
   आधानानुष्ठनन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषादूषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदन्तरदर्शे दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिद्दिने शुभे आधानं कृत्वा तत्सनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेઽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीषां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम्, न त्वनुष्ठाने ।। 
  तत्र यदहरग्नीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुणप्रायश्चित्तो निष्कल्मषीयभूय,ग आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्यक्रियो भार्यया सह आधानार्थं सङ्कल्पं कुर्यात् । आधानस्य फलमग्निना गार्हपत्य-आहवनीय-दक्षिणाग्नीनां त्रयाणां, सभ्य-आवसथ्यसहितां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोઽङ्गभूतम्, किं तु स्वतन्त्र कर्म ।।

  Page-3

   तत्र आदौ आधानार्थं यजमानेन सङ्कल्पं कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षोस्यपरि यः प्ररुढोઽश्वत्थवृक्षः तस्मादेकां  छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधानादेशं1 प्रत्याहरेत् । पूर्वसम्पादिते वा ते अत्र आहरेत् । ते च चतुरङ्गुलोन्नते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातशुष्के भवतो बौधायनमतात्2। चतुर्विंशत्युगले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तराणिरित्युच्यते ।।
  ततः सप्त पार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा – 1.सिकताः 2.कऊषाः 3. आखुकरीषम् 4. वल्मीकवपा 5. सूदः 6. वराहविहतम् 7. शर्कराः 8. हिरण्यम् । एवं वार्क्षा  (वृक्ष सम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा – 1. अश्वत्थकाष्ठम् 2. उदुम्बरकाष्ठम् 3. पलाशकाष्ठम् 4. शमीकाष्ठम् 5. विकङ्कतकाष्ठम् 6. अशनिहतवृक्षशकलम् 7. पद्मपत्रनम् । एवमेतान् पार्थिवान् वानस्पत्यांश्च  साम्भारान् तस्मात् स्थानात् वृक्षाच्च आहत्य, एकस्मिन् पात्रे प्रज्ञानात् तान्निदध्यात् ।।

तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यस्मिन् दक्षिणाग्नेः पुरतः सभ्याग्नेः । तस्य पुरतः आवपसथ्यस्यख ।। ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्मादि च, स्नात्वा क्षौमे वस्त्रे (दुकुलद्वय) परिदध्यात् । एवं यजमानेपत्नयपि क्षोरं   Page-4 विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । ततोઽध्वर्युरपराह्णे यजमानस्यौपासनाग्नेरर्धं पृथक्कृत्य, तं गार्हपत्याग्नेः पश्चान्निधाय, प्रज्वाल्य क ब्रह्मौदनपाकार्थं पृथक्कृत्य तण्डुलान्निरुप्यख व्रैहेयान्, तानप्रक्षाल्यैव चतुश्शरावगपरिमितान् जलपूर्णे महति पात्रे प्रक्षिप्य पचेत् । यथा भक्तेषु तण्डुलांशोઽल्पोઽवशिष्येत तथा पक्तव्यम् । ततः पक्कमन्नमुद्वास्यघ ततो दर्व्या गृहीत्वा तस्मिन्नेवाग्नौ जुहुयात्1 ।ततोઽवशिष्टमोदनं चतुर्धा विभज्य पिण्डं कृत्वा चतुर्भ्यः ऋत्विग्भयोઽध्वर्य्वादिभ्यो (अध्वर्यु-होतृ-ब्रह्म-आग्नीध्रेभ्यः) दद्यात् । पात्रे च किञ्चिदवशेषयेत् ।।

ततोઽध्वर्युः स्वीयं भागं सव्यहस्ते दक्षिणहस्तेन पात्रस्थेઽन्ने आज्यं प्रस्त्राव्य, तदन्नंतिसृभिः फलवतीभिः अश्वत्थसमिद्भिरालोड्य, आलोडनसमये लग्नेनाઽन्नेन साकमेव ताः समिधः तस्मिन्नेवाઽग्नौ निदद्यात्2। तत ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुञ्जीरन् । इदं च समिदाधानं यस्मिन्नहनि अग्ने आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्वं वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमस्वीकारं) कृत्वा वीणावेषुवादनादिभिः जागरणं3कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां रात्रिं प्रज्वाल्य रक्षेत् । ततः प्रातरुषःकाल एव तस्मिन्नग्नावरणी पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेઽरणी प्रयच्छेत्। यजमानस्ते प्रतिगृह्य, अभिमन्त्र्य यावन्मथनारम्भं स्वहस्त एव धारयन्नासीत् । ततः 4 अध्वर्युर्गार्हपत्यायतनस्योद्धननावोक्षणादि कृत्वा, पूर्वस्थापिताः सिकता गृहीत्वा ताः समशो द्वेधा विभज्य, एकमर्धं पुनर्द्वेधा विभज्य, एकं भागं गार्हपत्यायतने, एकं च दक्षिणाग्न्यातने

Page-5 प्रक्षिपेत् । अवशिष्टमर्धं त्रेधा विभज्च, आहवनीय-सभ्य-आवसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यार्धस्य आहवनीय एव निवपनं कार्यम् ।। गार्हपत्याधानम् अनेनैव प्रकारेणेतरानापि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत्1। ततः पूर्वं शमितस्याग्नेः भस्म अपोह्य , तदुपरि अरणि निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्धवा, अरणी मन्थेत् । ततोઽग्नावुत्पन्ने सति यजमानो कवरमध्वर्यवे दद्यात् । ततोઽध्वर्युर्मथनजातमग्निं करीषकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागावस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव ख   Page-7 पवमानेष्टयः तदनन्तरं कपवमानेष्टयः।तास्तिस्त्रः।तत्रप्रथमायाअग्निःपवमानोदेवता।द्वितीयस्याअग्निःशुचिः।सर्वत्रअष्टाकपालःपुरोडाशोद्रव्यम्।ताएताआधानदिनेएवसमानतन्त्रेणअनुष्ठेयाः।अथवाआधानदिनात्व्द्यहे, त्र्यहेचतुरहे, अर्धमासे, मासे , मासद्वयेसंवत्सरेवाकर्तुंशक्यन्ते।परममीषांकालानांविकल्पः।यस्मिन्दिनएताःपवमानेष्टयःक्रियेरन्तस्मिन्नेवदिनेसायमग्निहोत्रमारभेत।आधानात्कालानन्तरेपवमानेष्टीनामुत्कर्षेअग्निहोत्रस्याप्युत्कर्षः। (कालान्तरेऽनुष्ठानम्) आधानपवमानेष्टीनामङ्गिभावः पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाःख।तन्मतेसाङ्गस्यैवकर्मणःफलजनकत्वात्पवमानेष्टीनामनुष्ठानानन्तिमेवाग्नीनांसिद्धेःतदन्तरमेवअग्निहोत्रारम्भः।केचित्तुनआधानपवमानेष्टीनामङ्गाङ्गिभावः।परधानातवत्पवमानेष्टीनामपिस्वतएवाहवनीयादिसम्पादकत्वम्।अतउभयेषांसमुच्चयइतिकथयन्ति।अस्मिन्पक्षेपवमानेष्टीर्विनाआहवनीयाद्यनिष्पत्तेःपवमानेष्टीरनुष्ठायैवतदनन्तरमग्निहोत्रारम्भःकर्तव्यः।अस्यसायमेवआरम्भः।सायंप्रातरनुष्ठीयमानंप्रयोगद्वयंमिलिकत्वादेवअस्यकर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमांसकाः1 ।।

  इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते-


आधानौपयिकानि द्रव्याणि पात्राणि च

                   अरणिद्वयम् (अधराणिः, उत्तराणिश्च) अग्निमथनार्थम् ।।                                                                                   मन्थिप्रमन्थिनौ । तदर्थमेव  ।

1अष्टौपार्थिवास्सम्भाराः– (मृतसम्बद्धाः) (1) सिकताः । (5) शर्कराः (क्षुद्रपाषाणाः) (2) ऊषरमृत् । (6) वल्मीकमृत् । (3) मूषिकोत्खाता मृत् । (7) शूकर(वराह)मुखोत्खाता मृत् । (4) अशोष्यजलाशय मृत् । (8) हिरण्यम्

       अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ।।

सप्त वृक्षसम्बन्धिनः सम्भाराः – (1) अश्वत्थकाष्ठशकलानि । (5) पलाशवृक्षकाष्ठशकलानि । (2) औदुम्बरकाष्ठशकलानि । (6) विकङ्कतवृक्षशकलानि । (3) शमीवृक्षकाष्ठशकलानि । (7) पद्मपत्राणि च । (4) अशनिहतवृक्षकाष्ठशकलानिक। शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम्) दकूलवस्त्राणि (तयोरेव परिधानार्थम्) ग्रामादिचिन्हभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्त्रः समिधः (ब्राह्मौदनिकाग्नावाधानार्थम्) ।। अश्वत्थवृक्षीयाः समिधो नव (गार्हपत्यादिषु त्रिष्वप्यग्निषु तदा तदा

           शमीमय्यः समिधो द्वादश        निक्षेपणार्थमेव वैकङ्कत्यः                                                                     स          समिधस्तिस्त्रःविध्यनुरोधेन) 

पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मोदनपाकार्थम्)

            शरावाः                      (तत्तदग्निप्रणयार्थम्)
            दर्वी पैत्तली ताम्रमयी वा (ब्रह्मोदनद्धरणार्थम्)
            घृतं गव्यं माहिषं वा       (होमाभिधारणाद्यर्थम्)


वत्सतर्यःक तिस्त्रः (अध्वर्यवे दानाय) यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम्) अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम्) अजः (आयतनसमीपे बन्धनार्थम्) दक्षिणार्थं च । सिकताः (अग्निभिः सह ग्रहणार्थम्) (उपयमनार्थंख) रथचक्रम् (आवर्तनार्थम्ग) गौः (विदेवनार्थम्)

        आघानार्थदक्षिणाद्रव्याणि – (1) द्वादश गावः  (2) अजः (3) पूर्णपात्रम्घ (4) वासः (5) मिथुनौ गावौ(स्त्रीपुंसरूपौ)  (6) नवीनो रथः (7) वहनसमर्थोऽश्वः (8) अनड्वान् ।।
        चत्वारः ऋत्विजः -  अध्वर्युः, ब्रह्मा, होता, आग्नीध्रश्च ।।
        एवं पवमानेष्ट्यादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्यावश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमर्हन्तीति तत्रैव प्रदर्श्यन्ते । अतस्तेषां स्वरुपं तत एव अवगन्तव्यम् ।।

।। इत्ग्न्याधानं समाप्तम् ।। अग्निहोत्रम् एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्नपदवातच्यो भवति । तस्यैव ङसपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च श्रौतकर्माणि वेदेषु परसहस्त्राणि विहसितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीर्ष्यते । इदानीं तेषामेव केषांचित् स्वरुपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव प्रथमपातीति तस्यैव स्वरुपं विव्रियते । तच्च पुरुषेण त्रैवर्णिकेन  

अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् यावज्जीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः – जराजीर्णो वा विरमेत्, विंशति वा वर्षाणि अविच्छेदन अनुष्ठाय ततः परित्यजेत् इत्यादिर्नात्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्गः (समाप्तिः) । एवं च सायं प्रातरिति कालद्वयानुष्ठानादेकं कर्मं निष्पन्नं भवति । तत्र सायंकाले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव प्रकाशमाना दृश्यन्ते तदा सायंहोमाः प्रातःकाले च प्राच्यां दिशि यदा रश्मय आविर्भूता भवन्ति तदा च प्रातर्होमा अनुष्ठेयाः ।। अग्निहोत्रे उदितानिदितहोमभेदः तत्र उदितहोमिनः केचित् । केचितनुदितहोमिनः । तेषु बह्वचाः कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च उदितहोमिनःक । अग्निप्रणयनं परं सर्वेषामुदयास्तमययोः पूर्वमेव । उदयादस्तमयाच्च पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ।।