सामग्री पर जाएँ

सदस्यः:Rohittomar Arya

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

*बुद्धेः मापनं साधनानि च*

व्यक्तौ बुद्धेः स्तरं ज्ञातुं बुद्धिमापनस्य प्रयोगः क्रियते। यतोहि एतत् सर्वथा आवश्यकं न, यत् द्वयोः व्यक्तयोः बुद्धिस्तरं समानं स्यात्।

                परन्तु अयमप्येकः प्रश्नः उद्भवति यत् 'किं वयं बुद्धिमापने सक्षमाः?

      अस्योत्तरं भवति 'पूर्णतया न' ।

वयं बुद्धेः पूर्णतया मापनं न कर्तुं शक्नुमः, यतोहि बुद्धिः अमूर्ता भवति। अत्र अमूर्तत्वेनाभिप्रायः यत् वयं बुद्धिं द्रष्टुं, श्रोतुं मापयितुं च न शक्नुमः।

                        चेत् किं वयं बुद्धिमापने असमर्थाः?

सत्यमेतत्।   वयं बुद्धिं पूर्णतया मापयितुं न शक्नुमः। परन्तु वैज्ञानिकैः सततमस्य अध्ययनं कृत्वा अनेकप्रकाराणां बुद्धिपरीक्षणानां सहाय्येन बुद्धिमापनस्य प्रकाराः अन्विष्टाः।

विभिन्नप्रकारैः बुद्धिपरीक्षणैः वयं बुद्धिं पूर्णरूपेण तु मापयितुं न शक्नुमः। किन्तु व्यक्तीनां बुद्धिशक्तीनां तुलनात्मकरूपेण अध्ययनमवश्यमेव कर्तुं शक्ताः।

बुद्धिपरीक्षणं किम्?  

     

                            बुद्धिपरीक्षणस्य तात्पर्यं कस्यचित् मानसिकयोग्यतायाः मापनं कर्तव्यं भवति। अर्थात् तस्य मानसिकयोग्यतानां मात्राणाञ्च ज्ञानं कर्तव्यं भवति।

ड्रेवर महोदयानुसारेण-                 

                      बुद्धपरीक्षणमेका एतादृशी समस्या   यस्य सहाय्येन एकस्य व्यक्तेः मानसिकविकासस्य  स्तरस्यानुमानं कर्तुं शक्यते।

- बुद्धिपरीक्षणस्य प्रकाराः -

                             एतेषां बुद्धिपरीक्षणानामुद्देश्यं बुद्धेः मापनं कर्तव्यमेवास्ति। विभिन्नप्रकाराणां बुद्धिपरीक्षणं द्वयोः भागयोः विभक्तम्।

•  क्रियान्वयनस्य अथवा प्रशासनस्याधारेण

•  भाषाप्रयोगस्य एवञ्च कार्यनिष्पादनस्याधारेण

क्रियान्वयनस्य अथवा प्रशासनस्याधारेण बुद्धिपरीक्षणस्य द्वौ प्रकारौ विज्ञाप्येते-

•  वैयक्तिकबुद्धिपरीक्षणम्

•  सामूहिकबुद्धिपरीक्षणम्

•  वैयक्तिकबुद्धिपरीक्षणम् -

               

                      वैयक्तिकबुद्धिपरीक्षणे एकस्मिन् समये केवलमेकस्य व्यक्तेरेव बुद्धेः मापनं क्रियते। वैयक्तिकबुद्धिपरीक्षणे परीक्षणस्य चरणं क्रियात्मकम्, शाब्दिकम् अथवा अशाब्दिकम् एतेषु कीदृशमपि भवितुं शक्नोति।

                     वैयक्तिकबुद्धिपरीक्षणे परीक्षणानां मानकीकरणे अत्यधिकः समयः धनव्ययश्च भवति।

वैयक्तिकबुद्धिपरीक्षणस्य उदाहरणम्-

* परीक्षणं वैयक्तिकबुद्धिपरीक्षणम्

* पास-एलांग परीक्षणं वैयक्तिकबुद्धिपरीक्षणम्

* घनरचना वैयक्तिकबुद्धिपरीक्षणम्

•  सामूहिकबुद्धिपरीक्षणम्-

                    सामूहिकबुद्धिपरीक्षणे वैयक्तिकबुद्धपरीक्षणस्य विपरीतमेकस्मिन्नेव समये एकस्मात् अधिकव्यक्तीनां बुद्धेः मापनं कर्तुं शक्यते।

                 सामूहिकबुद्धिपरीक्षणानां मानकीकरणं वैयक्तिकबुद्धिपरीक्षणस्य अपेक्षा सरलं भवति। अस्मिन् समयः धनव्ययश्च स्वल्पः भवति।

सामूहिकबुद्धिपरीक्षणस्य उदाहरणम्-

* मेहता : सामूहिकबुद्धिपरीक्षणम्

* आर. के. टण्डन : सामूहिक मानसिकयोग्यतापरीक्षणम्

भाषाप्रयोगस्य एवञ्च कार्यनिष्पादनस्याधारेण बुद्धिपरीक्षणं चतुर्षु भागेषु विभक्तम्-

•  शाब्दिकबुद्धिपरीक्षणम्

•  अशाब्दिकबुद्धिपरीक्षणम्

•  क्रियात्मकबुद्धिपरीक्षणम्

•  अभाषीयबुद्धिपरीक्षणम्

                                 धन्यवादः

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Rohittomar_Arya&oldid=461024" इत्यस्माद् प्रतिप्राप्तम्