सदस्यः:Rojalin kathua
पावलोव-शास्त्रीयानुबन्धनम्
अधिगमः
मानवस्य अधिगमप्रक्रिया जन्मजातः एव आरभ्यते |मानवस्य अधिगमार्थं न कः अपि निश्चितः समयः, न किञ्चित् सुनिश्चितं स्थानं भवति | अधिगमस्य अर्थः भवति व्यवहारपरिवर्त्तनम् | व्यवहार परिवर्त्तनम् अनुभवेन, प्रशिक्षणमाध्यमेन च सञ्जायते|
अधिगमस्य परिभाषाः –
1. वुडवर्थमहोदयानुसारं –“अधिगमः विकासस्य प्रक्रिया वर्तते |”
2. स्किनरमहोदयानुसारं –“अधिगमः व्यवहारे उत्तरोत्तरसामञ्जस्यस्य प्रक्रिया वर्तते |”
पावलोवमहोदयस्य शास्त्रीयनिबन्धनसिधान्तः –
इयान पावलोव (Ivan pavlov)महोदयः रष्योदेशस्य न्ज्ञमनोवैज्ञानिकः वर्तते | सः शुनकेषु वहुप्रयोगान् कृत्वा शास्त्रीयनिबन्धनम् (classical conditionig )इति सिधान्तं प्रतिपादयामास | तस्य मते प्रत्येकं जीवस्य केचन जन्मजातः प्राकृतिकस्वभावः (tendencies), प्रतिक्रियाश्च (reactions)भवन्ति | योग्यसहजोद्दीपकस्य उपस्थितौ जीवस्य प्रतिक्रियाः प्रकटि भवन्ति | यथा-वुभुक्षितस्य पुरतः आहारं स्थापयति चेत् मुखे लालास्रावः भवति | यदा सहज प्रेरकस्य (Natural stimulus )अन्येन कृत्तिमप्रेरकेण (Unnatural stimulus)साकं कतिपयपर्यायाः योजयति चेत् कालान्तरे केवल कृत्रिम उपस्थितावपि जीवः सहजप्रतिक्रियां करोति | इत्थं नूतनप्रेरकेण अपेक्षितप्रतिक्रिया संपादनमेव निबन्धनम् इत्युच्यते |
पावलोवमहोदयः वृत्या शारीरिकविज्ञानी (physiologist)आसीत् | सः शुनकेषु पाचनस्य शारीरिकप्रक्रियायाः (physiology of Digeston )अध्ययनमकरोत् | प्रयोगवेलायां भोजनप्राप्तेः पूर्बं शुनकेषु जायमानलालास्रावस्य प्रतिक्रियामाश्रित्य शास्त्रीयनिबन्धन सिधान्तं प्रत्यपादयत | तद्यथा पावलोवमहोदयः स्वप्रयोगमवलम्ब्य प्रतिक्रियाणां द्विधा विभागमकरोत | प्रथमः सहजप्रतिक्रियाः वर्त्तन्ते याः जन्मजातः भवन्ति | उदाहरण-जीवः आहारं स्वीकरोति चेत् विविधग्रन्थयः मुखे लालास्रावम् उत्पादयन्ति | स्वभाव अयं जन्मजात शरीरिकप्रक्रिया वर्त्तते | अतः इयं प्रतिक्रिया सहजप्रतिक्रिया (Natural response)अथवा निर्निबन्धितप्रतिक्रिया (ऊञ्चोन्दितिओनेद् response)इति कथ्यते | अत्र प्रस्तूयमानभोजनं सहजप्रेरकं (Natural stimulus)अथवा (Unconditioned stimulus ) इति कथ्यते | द्वितीयाः अर्जितप्रतिक्रियाः (Acquired Responses )याः जीवः विविधानुभबैः जीवनकाले अर्जयति |यथा-विद्यालये छात्राः घण्टानादं श्रुत्वा प्रार्थनायै सिद्धाः भवन्ति | विद्यालयगमनात्पूर्वं बालकः इमां प्रतिक्रियां न करोति स्म | अतः इयं अर्जितप्रतिक्रिया | एतदेव निबन्धितप्रतिक्रिया (conditioned response)इति कथ्यते | एवं रीत्या नूतनप्रेरकेण अपेक्षितप्रतिक्रियाप्राप्तेरेव निबन्धनम् इति कथ्यते |
पावलोवमहोदयस्य प्रयोगः-
कश्चन वुभुक्षितः शुनकः प्रयोगशालायां बद्धः आसीत् | शुनकस्य मुखे जायमानलालास्रावस्य मापनाय मुखात् एकां रब्बरनलिकां (Rubber tube)मापनपात्रे स्थापितवान् | घण्टानादस्य अनन्तरं शुनकस्य पुरतः आहारं स्थापयति | तदा जातलालास्रावस्य मापनम् अकरोत् | इत्थं सः बहुवारम् अकरोत् | ततः परम् एकवारं भोजनं विनैव घण्टानादस्य अकरोत् | अस्यामवस्थायामपि शुनकस्य मुखात् पूर्ववत् लालास्रावः जायते | इत्थं नूतनप्रेरकेण(घण्टानादेन) अपेक्षितप्रतिक्रियाः (लालास्रावस्योत्पत्ति:) सम्पादनमेव निबन्धनं वर्त्तते |
निबन्धनस्य परिभाषाः –
निबन्धनं नाम सा प्रक्रिया यत्र सहजप्रेरकेण (Natural stimulus) सह कृत्रिमप्रेरकं (Unnatural stimulus) कतिपयपर्यायाः योजयति चेत् सहजप्रेरकस्य सर्वाणि लक्षणानि कृत्रिमप्रेरकं प्राप्नोति | यथा-सहजप्रेरकेण आहारेण साकं कृत्रिमप्रेरकं घण्टानादं कतिपयपर्यायाः योजयति चेत् केवलघण्टानादेन लालास्रावः उत्पद्यते | एतस्य सोपानानि इत्थं प्रदर्शयितुं शक्यते |
1. सहजप्रेरकं (आहारः) सहजप्रतिक्रिया (लालास्राव:)
2. कृत्रिमप्रेरकं + सहजप्रेरकं सहजप्रतिक्रिया (लालास्रावः)
3. कृत्रिमप्रेरकं(घण्टानाद:) निबन्धितप्रतिक्रिया (लालास्रावः)
शास्त्रीयनिबन्धनस्य नियमाः –
पावलोवमहोदयः स्वप्रयोगमाश्रित्य शास्त्रीयनिबन्धनस्य 6 नियमान् प्रतिपादितवान् |
1.पुनर्बलननियमः (Law of reinforeement )
प्रयोगात्पूर्वं शुनकः घण्टानादं श्रुत्वा लालास्रावं न करोति | परन्तु प्रयोगकाले घण्टानादम् आहारञ्च कतिपयपर्यायाः योजयति चेत् केवलघण्टानादेन लालास्रावः जायते | अतः शुनकः आहारप्राप्त्या पुनर्बलनं प्राप्तवानित्यर्थः | एतसंयोजनं यावद्धिकं भवति निबन्धनं तावत् दृढं भवति |
2. विरमणम् (Extinction)
निबन्धनप्रेरकस्य (cs) अनन्तरं निर्निबन्धितप्रेरकं (ucs) न ददाति चेत् क्रमशः निबन्धनं नश्यति | अर्थात् घण्टानादस्य अनन्तरं कतिपयपर्यायाः भोजनं न प्रयच्छति चेत् घण्टानादेन लालास्राव: नोत्पद्यते एतदेव विरमणं इति कथ्यते |
3.यादृच्छिकपुनर्लाभः-(spontaneous recovery)
अत्रादौ निबन्धनं संपाद्य ततः परं विरमणं क्रियते | अनन्तरं यदा कदापि अल्पेनैव प्रयत्नेन पुनः निबन्धितप्रतिक्रियां सम्पादयितुं शक्नुमः | एतदेव यादृच्छिकपुनर्लाभः इति कथ्यते |
4. सामान्वीकरणम्-(Generalisation)
घण्टानादः अथवा तत्सदृशप्रेरकै: अपि निबन्धितप्रतिक्रिया उत्पद्यते | यथा-प्रयोगसमये कतिपयपर्यायाः घण्टानादेन साकं दीपमपि संयुज्य भोजनं प्रयछति चेत् कालान्तरे केवल दीपेन लालास्रावः उत्पद्यते | विषये अस्मिन् वाट्सन्महोदयस्य प्रयोगः अतिप्रसिद्धः वर्तते | सः बालकस्य पुरतः विविधान् श्वेतजन्तुन् संस्थाप्य बहुशब्दं करोति स्म | इत्थं बहुवारं कृते सति सर्वाणि श्वेतवस्तूनि दृष्ट्वा बालकः विभेति स्म
5.विचक्षणम्-(Descrimination)
जीवः विभिन्नप्रेरकाणां विचक्षणज्ञानं प्राप्य विभिन्न प्रतिक्रिया करोति | यथा-जनाः महानगरेषु चतुष्पथे (Traffic signal) दृष्ट्वा विविधाः प्रतिक्रियाः कुर्वन्ति | रक्तवर्णं दृष्ट्वा तिष्ठन्ति, पीतवर्णं दृष्ट्वा गन्तुमुउद्यत्काः भवन्ति, हरितवर्णं दृष्ट्वा गच्छन्ति च | तथैव विद्यालयबाला: विविधेभ्यः घण्टानादेभ्यः विविधाः प्रतिक्रियाः कुर्वन्ति |
6.उन्नतक्रमनिबन्धनम्-(Higher order conditioning)
निबन्धनप्राप्तेरनन्तरं किञ्चित् नूतनप्रेरकं प्राक्तनप्रेरकेण सह योजयति चेत् नूतनप्रेरकेणापि अपेक्षितप्रतिक्रिया उत्पद्यते | यथा-घण्टानादेन साकं कतिपयपर्यायाः दीपं योजयति चेत् कालान्तरे केवलदीपप्रदर्शनेन शुनकस्य मुखे लालास्रावः उत्पद्यते | एतदेव उन्नतक्रमनिबन्धनम् इति कथ्यते |
शास्त्रीयनिबन्धनस्य शैक्षिककार्यन्वयः-
प्रयोगोऽयं यद्यपि विविधेषु जन्तुषु कृतः तथापि एतेन प्राप्तसिधान्तानाश्रित्य मानवव्यवहारेपि अपेक्षितपरिवर्त्तनमानेतुं शक्यते | उत्तमशीलस्य आचाराणां विकासः | शुभ्रताः समयपालनम्, ज्येष्ठेषु आदरः इत्याद्युतमगुणानां विकासः धनात्मकपुनर्बलनेन कर्तुं शक्यते |