सदस्यः:Sagarika1995/प्रयोगपृष्ठम्
संस्कृतशिक्षणस्य सामान्यसिद्धान्ताः
१. प्राकृतिकसिद्धान्तः –
भाषाध्ययनप्रवृत्तिः मानवजीवनस्य एका स्वाभाविकी प्रवृत्तिः अस्ति । छात्राः भाषां शिक्षयितुम् उत्सुकाः भवन्ति । यदि शैशवे एव संस्कृतशिक्षणस्य प्रयासः क्रियते तर्हि छात्रः अनायासं संस्कृतमधीते । सः स्व मित्राणां भाषाः , प्रतिवेशिनां भाषाः तथा विद्यालये पाठ्यक्रमे निर्धारिताः भाषाः सरलतया अवगन्तुं समर्थो भवति । कस्याः अपि भाषायाः शिक्षणाय चतुर्णां कौशलानां स्वाभाविक्रमः वर्त्तते- श्रबणं, भाषणं, पठनं, लेखनं च । संस्कृतभाषामध्यापितुं विद्यालये तादृशं वातावरणं कल्पनीयं, येन छात्रा अनायासं संस्कृतं प्रति आकृष्टाः भवेयुः । संस्कृतमयवातावरणनिर्माणाय प्रतिदिनं सरलश्लोकानां बालगीतानाञ्च सस्वरवाचनं कारयेत् । संस्कृतशिक्षणेऽपि स्वाभावकी प्रवृत्तिः उपायुक्ता स्यात् । तदर्थं कक्षायां, वहिश्च तादृशं वातावरणम् उत्पादनियम् यत्र बालकाः संस्कृतं भाषितुं स्वभावतः प्रेरिताः स्युः । संस्कृत-शिक्षकाः सरलसंस्कृते स्वबिचारान् अभिव्यञ्जयितुं छात्रान् उत्साहितान् कुर्युः ।
२. अभ्यासस्य सिद्धांतः –
भाषा काचित् कला भवति । अन्यकलास्विव भाषा अध्ययनेऽपि अभ्यासस्यावश्यकता भवति । संस्कृत भाषा मातृभाषा न भवतीति हेतोः तत्र अभ्यासस्य महती आवश्यकता बर्तते । अभ्यासः मौखिकः, लिखितश्चेति द्विविधो भवति । तत्र निम्नलिखिताः विषयाः श्रद्धेयाः ।
1. कठिनानां वर्णानामुञ्चारणस्य, वाचनस्य च अभ्यासः । यथा – ऋ, ष, क्ष, ज्ञ इत्यादिवर्णाः । 2. पाठस्तशब्दानां, कठिनवाक्यानाञ्च उच्चारणस्य अभ्यासः । 3. व्याकरणसम्वध्दानां दोषाणां निवारणम् । 4. अक्षराविन्यासगतानाम् अशुद्धिनां निवारणम् । 5. सुभाषितानाम्, आभाणकाञ्च सुष्ठु कथनस्य अभ्यासः । 6. विद्यानां, गद्यखंडानाञ्च सुद्धोचारणेन वाचनस्याभ्यासः । 7. संस्कृतेन विचाराभिव्यक्तये भाषणस्याभ्यासः ।
३. रुचेः सिद्धान्तः –
विद्यालयस्य वातावरणं छात्राणां रुचिपुर्णं स्यात् । यदि छात्राः विद्यालये अधिकाधिकं कालं यापयन्ति तदैव तेषां भाषाध्ययनस्य अधिकः अवसरः भवति । यावत्पर्यन्तं छात्राणां संस्कृते अनुरागो न भवति तावत्पर्यन्तं संस्कृताध्ययनं सुष्ठु न प्रचलति । यतः संस्कृत व्यावहारिकी भाषा न भवति, अतः तस्याः अध्ययनं विद्यालये एवं संम्भवति । तथा च विद्यालये संस्कृताध्ययनं रुचिपुर्णं स्यात् । यदि संस्कृताध्ययनं रुचिकरं न भवति तदा छात्राः संस्कृताध्ययनं परित्यजन्ति ।
अन्यविषयेष्विव संस्कृतशिक्षणेऽपि ददृश्श्रव्यपोकरणान्युपयोक्तव्यानि । रेखाचित्राणां, मुद्रितचित्राणांञ्च उपयोगः कर्तव्यः । श्यामाफलकस्योपयोगं यथोचितम् अधिकाधिकञ्च कुर्यात् । संस्कृतपाठ्यपुस्तकाणि रोचकानी आकर्षकाणि च भवेयुः । संस्कृतश्लोकानां गानं रुचिरं स्यात् । क्रीडाविधेः प्रयोगः कर्तव्यः । संस्कृतगद्यस्य, पद्यस्य च व्याख्यानं सरलभाषया भवत् । किञ्च सस्कृताध्यापकस्य संस्कृतशिक्षणे अभिरुचिरत्यन्तावश्यकी । अध्यापकः स्नेहेन, स्वानुभूत्या च व्यवहारं कुर्यात् । एवं संस्कृताध्यापनं रुचिकरं स्यात् ।
४. मौखिककार्यस्य सिद्धान्तः –
भाषाध्ययनस्य कार्यं श्रवणेद्रियेण, जिह्वया च आरभ्यते । शिशुः प्रारंम्भे श्रवणस्य भाषणस्य शच अभ्यासं करोति । ततः परमेव वाचन, लेखनञ्च स्यात् ।
वालकः भाषायाः मौखिकं कार्यं प्रथमतः जानीयात् । अतः प्रारम्भावस्थायाम् एतादृशं मौखिकं कार्यं स्यात्, यत् बालकः व्यवहारिकशब्दावलिं, लोकोक्तिश्च शिक्षेत । छात्रः निष्क्रियः श्रोता न स्यात्, किन्तु मौखिकाभिव्यक्तिमपि कुर्यात् । एवञ्च छात्राः निष्क्रियाः भवन्ति । उच्चारणे शुद्धता भवति । व्याकरणस्य अनुवादस्य च नियमाः अवगताः भवन्ति । रोचकविधिना भाषाज्ञानं प्राप्तते । लिखितकार्यं पूर्वाभ्यस्त मौखिककार्यस्य आधारेण स्यात् ।
५. समन्वयसिद्धान्तः –
अत्र सर्वेषां विषयाणां परस्परं समन्वयः भवति । एकता एवं परस्परसहभागितापुर्णमनोभावेन अध्ययनं क्रियते । अस्मिन् संदर्भे मौखिक-लिखित-कार्याणि एकस्मिन् समये एव कारणीयानि । अर्थात् एकस्य उद्देश्यस्य पुरणाय तदुद्देश्यसम्वद्धानां सर्वेषां विषयाणामुपरि ध्यानं प्रदेयम् । वर्ण-शब्द-वाक्यानां सम्यक् ज्ञानाय प्रयत्नः समाश्रयणीयः ।
1. समवेतस्वरेण श्लोकानां वालगीतानांञ्च वाचन कारयेत् । 2. संभाषणशिविराणाम् आयोजनम् । 3. संस्कृतशिक्षणे क्रीडासिद्धान्तस्य उपयोगिता । 4. जटिलवाक्यानाम् उच्चारणाभ्यासस्य अवसरः प्रदेयः । 5. अंत्याक्षरी-बाद-विवादः -भाषण-निबंधलेखन-सस्वरवाचनादिभिश्च पाठ्यसहगामिक्रियाभिः संस्कृतशिक्षणं रुचिकरं भवन्ति ।