सामग्री पर जाएँ

सदस्यः:Sahana 2040581/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाराणाप्रतापः

भारतीये इतिहासे केचन तपसा, ज्ञानेन, ग्रन्थग्रथनेन प्रसिद्धिमापन्नाः । एते ऋषयः, मुनयः, दार्शनिक कवयः इति बहुमन्यन्ते । अन्ये केचन शौर्येण, त्यागेन, देशप्रेम्णा वा आचन्द्रार्क कीर्तिम् आर्जयन् । ब्राह्मतेजसा केचन भूमिम् इमां भूषयामासुः । अपरे वीराः क्षात्रेण ओजसा भारतभूमेः धर्म, संस्कृति, जनताश्च संररक्षुः । तादृशेषु अन्यतमः राणाप्रतापसिंहः ।

भारतस्य पश्चिमस्यां दिशि सहस्राधिकवर्षेभ्यः आक्रमणं भवति स्म । इमं देशं बहुसम्पदा भरितम् इति मन्वानाः वैदेशिकाः तां सम्पदम् आत्मसात्कर्तुं आगच्छन्ति स्म । तद्विरुद्धं राजस्थान प्रदेशे राजपुत्राः आक्रमणशीलानां प्रतिरोधाय महान्तं प्रयत्नं चक्रुः । एतेषां राजपुत्राणां शौर्यगाथा, महिलानां त्यागनिष्ठा च अद्यापि यूनः स्वदेशकार्ये प्रेरयति ।

'मेवाड' इति स्थलं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत्स्थलं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् अवाप । अत्रत्ये सिसीदियावंशे बप्पारावल: राणाहमीरः, राणासाङ्गः प्रभृतयः शूराः जन्म लेभिरे । एतस्मिन्नेव पुण्यवंशे राणाप्रतापसिंह: चत्वारिंशदुत्तर पञ्चदशशततमे वर्षे, मे मासे, नवमे दिनाङ्के, कुम्बल (जुनीकचेरि ) ग्रामे एकः द्वितीयः सूर्य इव उदितः । अस्य माता जावन्ताबाई चौहाण्, पिता च द्वितीय उदयसिंहः ।

तस्मिन् समये बहवो राजानः मोघलचक्रवर्तिभिः सह आयुध्य, पराजयम् अनुभूय, तानेव दिल्लीश्वरान् भावयन्ति स्म । केचन तेषामेव सेवया आत्मनः धन्यान् मेनिरे तस्मिन् काले अक्बर् महाशयः देहल्यां शासनं करोति स्म । स अन्यराजेषु विद्यमानं परस्परकलहम् एव उपयुज्य आत्मनः शक्तिम् अवर्धयत । तेन वशीकृताः केचन राजानः तस्य सेवायां निरता आसन् । देशरक्षणार्थं सर्वदा बद्धपरिकरेषु राजपुत्रेष्वेव स्वकर्तव्यविरतेषु का कथा अन्येषां राज्ञाम् ? सर्वथा भरतभूमिः वैदेशिकपदाक्रान्ता दास्यदूषिता च आसीत् ।

इत्यम् अन्धकारे सर्वत्र व्याप्ते राणाप्रतापः दीपशिखेव, आत्मगौरवस्य मूर्तिरिव, तस्मिन् कालखण्डे भ्राजते स्म । यद्यपि प्रतापस्य पिता उदयसिंहः प्रतापी राजा आसीत् किन्तु प्रतिकूलत्वात् चित्तौड-मेवाडादिस्थानानि अन्यवशान्यभूवन् । पितुरनन्तरं सिंहासनम् अधिरूढः राणाप्रतापः हस्तच्युतानां प्रमुखानाम् एतेषां स्थानानां स्वायत्तीकरणाय चिन्तयितुम् आरेभे ।

प्रथमं राणाप्रतापः गण्यानां सभाम् आकारितवान् । 'यावत्पर्यन्तं परवशं राज्यं स्ववशं नाधिगच्छति, तावत्पर्यन्तं स्वर्णरजतादिपात्रेषु भोजनं न करिष्यामि, मृदुशयने न शयिष्ये, राजप्रासादे न वत्स्यामि' इति तेषां पुरतः प्रतिज्ञां स्वीकृतवान् ।

तदानीं हल्दीघाट्प्रदेशे वैरिभिः सह घोरं युद्धं सम्बभूव । वैरिणां सैन्यं समुद्रोपमम् आसीत् । राणाप्रतापः रणरङ्गे घोरम् अयुध्यत । किन्तु पूर्णजयं प्राप्तुं न शशाक । स्वस्य आप्तस्य अश्वस्य चेतकाव्यस्य साहाय्यं सः सर्वदा प्राप्तवान् । तेन सः आपदः आत्मानं रक्षितुं शक्त आसीत् । अरण्यगुहाप्रदेशेषु उषित्वा स्वसङ्कल्पसिद्धये सैन्यसङ्ग्रहणम् उपाक्रमत ।

यदा राणाप्रतापसिंहः अरण्ये वसति स्म तदा तस्य परिवारः महत्कष्टम् अनुबभूव । एकत्र सर्वदा वैर्याक्रमणशङ्का, अन्यत्र आहाराभावात् पुत्रकलत्राणां कष्टपरम्परा च अतीववेदनाकरी बभूव । एकस्मिन् दिने राणाप्रतापस्य पत्नी अरण्यतृणबीजचूर्णेन रोटिकाः सज्जीकृत्य सर्वेभ्यः किञ्चित् किञ्चिद्भागं दत्तवती । स्वपुत्र्यै अपि रोटिकां दत्वा 'तस्याः अर्धमेव खादित्वा अवशिष्टमर्धं परेद्युः भक्षणार्थं रक्ष' इति सूचितवती । स्वप्रियदुहितुः परेद्युः आहारः लप्स्यते वा न वा इति शङ्कया प्रेममयी माता तथावोचत् । एतादृशं दारुणं कारुण्यपूर्णञ्च जीवनं व्यतीयाय सर्वोऽपि परिवारः । बहुभ्यः दिनेभ्यः पर्याप्ताहाराभावात् क्षुधिता बालिका तदानीमेव रोटिकां खादितुम् आरेभे । तावति काले कुतश्चित् अकस्मादागतः कश्चन अरण्यमार्जालः बालिकायाः हस्तात् रोटिकामाकृष्य कुत्रचिदधावत् । बालिका महता दुःखेन आक्रन्दितुम् उपचक्रमे । एतत्करुणापूर्णदृश्यम् अवलोक्य कठोरहृदयस्य राणाप्रतापस्यापि मनः अद्रवत् ।

किन्तु स्वीकृतां प्रतिज्ञां स्मरन् नानाविधकष्टमनुभवन्नपि दृढमनस्को भूत्वा पुनः सैन्यशक्तिं वर्धयितुकामः राणाप्रतापः सिन्धुनदीप्रदेशं जगाम । तत्र कार्यनिष्ठान् वीरराजपुत्रान् एकीकृत्य स्वसङ्कल्पसिद्धये प्रायतत । तत्र आरण्यकैः बिल्लैः न केवलं रजपूतमहिलानां बालानाञ्च रक्षणं संकष्टसमये कृतम्, अपि च तान् खनिकूपेषु संरक्षितम् । हल्दीघाटी समराङ्गणे बिल्लयुद्धवीराः न केवलं युद्धेन उपकृतवन्तः किन्तु गूढचारकृत्यं निर्वर्त्य पररहस्यं विघटयामासुः ।

तदैव एकस्मिन् दिने राजस्थानसीमाम् अतीत्य यदा राणाप्रतापः गच्छन्नासीत्, तदा एकः वृद्धः आजगाम । सैन्यसङ्ग्रहणं तत्प्रशिक्षणश्च बहुवित्तव्ययसाध्यं कार्यम् । महता दारिद्र्येण परितप्यमानस्य प्रतापस्य इदमेव चिन्ताकारणमासीत् । कथञ्चित् स्वसङ्कल्पसिद्धये

किमपि महत्कार्यं कर्तुं कालः समायातः इति भावितवान् । सः राणाप्रतापस्य पूर्वजानाम् आस्थाने अमात्यः आसीत् । सः बहुधनमपि अर्जितवान् । सः प्रतापं प्रति उवाच- 'प्रभो, अहं भवद्वंशस्य . सेवकः, मम हस्ते प्रभूतं धनं विद्यते, तेन भवान्, पञ्चविंशतिसहस्रसैनिकान् द्वादशवर्षपर्यन्तं पालयितुं प्रभविष्यति' इति । तदा प्रतापः प्रोवाच 'नैतद्धनं स्वीकर्तुम् अहम् इच्छामि । कुत्रापि गत्वा धनं सङ्ग्रहिष्यामि' इति । तदा भामाशाहः प्रावोचत् 'नैतद्धनं परकीयम् । देशरक्षणार्थं मया अर्जितमिदं धनं यदि साहाय्यकं भवति तर्हि मम जीवनं सार्थकं भवेत्' इति ।

वृद्धस्य भामाशाहस्य वचनं श्रुत्वा आनन्देन राणाप्रतापस्य मनः कृतज्ञतापूर्णं बभूव | सः तद् बहुधनं सम्प्राप्य सैन्यशक्तिसङ्ग्रहकार्यं प्रारेभे । तदानीम् अन्यतोऽपि वित्तं प्राप्तम् । तत्सर्वम् उपयुज्य सः महासैन्यं रचयामास ।

राणाप्रतापः स्वजन्मस्थानमेव परित्यज्य गतवानिति तस्य शत्रवः परिहसन्ति स्म । इतः परं पुनः स योद्धुम् आगच्छेदिति स्वप्नेऽपि ते न चिन्तयन्ति स्म । किन्तु महाराणाप्रतापः तेषां निरीक्षां मिथ्या कृत्वा पराक्रान्तां स्वकीयराज्यसीमाम् असीमपराक्रमेण, स्वाधीनां कर्तुम् अभ्यपतत् । हस्तच्युतान् राज्यस्य भूप्रदेशान् एकैकमपि क्रमेण जित्वा वैरिहृदये भीतिमुत्पादयामास । एतावति काले महतीं कष्टपरम्पराम् अनुभूय जर्जरितः तस्य देहः, ततः परमपि महान्तं श्रमम् अनुभवितुं समर्थः नासीत्। विजयमालासु एकैकशः तस्य ग्रीवायां विराजमानासु चित्तौडविजयमाला कण्ठं नालञ्चकार इति तस्य अतृप्तिरासीत् । सः मेवाडस्य राजा आसीत् । किन्तु देहपरित्यागकाले आत्मना प्रशिक्षितान् यूनः दृष्ट्वा तैः चित्तौडप्राप्तौ प्रदत्ते आश्वासने जातविश्वासः निश्चिन्तः बभूव । यदा महाराणाप्रतापः षट्पञ्चाशत् वर्षदेशीयः तदा चावण्डप्रान्ते मृगयया व्रणितः सप्तनवत्युत्तरपञ्चदशशततमे वर्षे, प्रथमे मासे, नवविंशतितमे दिने प्राणान् अत्यजत् । तदनन्तरम् अस्य पुत्रः अमरसिंहः, राणाप्रतापस्य मनोकामनां पूरयामास ।

महाराणाप्रतापसिंहस्य देशभक्तिः तथा स्वातन्त्र्यसमरे योगदानं सदा स्मरणीयम् । तस्य आत्मीयः अश्वः चेतकोऽपि स्फूर्तिदायकः । अतः भारतगणराज्येन अस्य स्मृतौ मुद्रा, नाणकम् अपि प्रकाशितम्। वीराधिवीरस्य महाराणा प्रतापसिंहस्य एव आरूढचेतकविग्रहः संसदीय भवनस्य पुरतः संस्थापितः ।

एतादृश देशभक्ताः पुरा भारते आसन्, अद्यापि वर्तन्ते । अतः वयम् अपि पठित्वा देशभक्ताः भवेम । एतादृशानां चरितं

https://www.hindivyakran.com/2018/10/sanskrit-bhasha-ka-mahatva-in-sanskrit.html https://thesimplehelp.com/essay-on-diwali-in-sanskrit/ https://www.hindikibaat.com/essay-on-holi-in-sanskrit/