सामग्री पर जाएँ

सदस्यः:Sahoo Sudipta

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वेदान्तदर्शने शिक्षाया: महत्वम्


 वेदान्तदर्शनम् ;-

             अस्माकं भारतदेशेषु विद्यमानेषु षडषु आस्तिकदर्शनशास्त्रेषु वेदान्तदर्शनम् अन्यतमम्।यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते।उपनिषन्मन्त्रसमूहस्यापि वेदान्त: इति सज्ञा।परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् ब्रह्म,तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषदि कथितवान् उपनिषद् वेदान्तत्वेन आद्रियते।उक्तं च-‘वेदान्तो नाम उपनिषत्प्रमाणम्’।सर्वेषां सम्यगवबोधनाय परमकारूणिक: वेदव्यास: उपनिषत्सारभूतानामर्थानामेकीकृत्य सूत्ररूपेण प्रणिनाय।अत: वेदान्तदर्शनस्य प्रणेता बादरायणव्यास: इति सर्वविदितम्।तथा च अव्दैतवेदान्तस्य प्रवर्तक: आदिगुरू: शंकराचार्य: इति मन्यते।

वेदान्तशास्त्रे केवलमात्मस्वरुपं प्रतिपाद्यते इति हेतो: मुमुक्षु: वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृतो भवति।तस्मात् कारणात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं महता विस्तरेण प्रतिपादितमस्ति।अयं वेदान्तदर्शनम् उत्तरमीमांसा इति नाम्ना प्रतिपादयति।अखण्डम् एकरसम् अव्दैतं च ‘ब्रह्म’ वर्तते।

                                 उपनिषदां प्रतिपाद्यं वेदान्दमते विविध: प्रकारेण समालोचितम्।अतएव वेदान्तस्य पञ्च संप्रदाया: प्रादूरभूवन्-(१)शंकराचार्यस्य अव्दैतवाद:,(२)रामानूजाचार्यस्य विशिष्टाव्दैतवाद:,(३)निम्बार्कस्य व्दैताव्दैतवाद:,(४)मध्वाचार्यस्य व्दैतवाद:,(५)वल्लभाचार्यस्य शुध्दाव्दैतवाद:। 
                            वेदान्तमतानुसारं नि:श्रेयस् परं प्रयोजनमस्ति।नि:श्रेयस: तात्पर्यं वर्तते संसारात् अविद्यातो वा पृथग्भूय ब्रह्मसामीप्यस्य लाभ:।ब्रह्म निर्गुणमस्ति किन्तु ज्ञानं तस्य स्वरुपं वर्तते।साधनचतुष्टययुक्त: पुरुष: वेदान्तदर्शनस्य अधिकारी भवति।अस्मिन् वेदान्तदर्शने चत्वारि महावाक्यानि वर्तते।यथा –“प्रज्ञानं ब्रह्म(ऐ.उ)”,”अहं ब्रह्मास्मि(बृ.उ)”,”तत्वमसि(छा.उ)”,”अयमात्मा ब्रह्म(मा.उ)”।पुनश्च अस्मिन् वेदान्तशास्त्रे प्रस्थानत्रयी वर्तते ;यथा-उपनिषद:,ब्रह्मसूत्रम्,भगव्दगीता च।एतेषु प्रस्थानत्रयेषु ब्रह्मसूत्रग्रन्थ: वेदान्तदर्शने महती आसीत्।ब्रह्मसूत्र सृतिप्रमाणे विश्वशिति।

 अव्दैतवाद: ;-

                        अव्दैतवाद: आचार्यशंकरेण प्रतिष्ठापित:।तन्मतेन जीवो ब्रह्मैवास्ति न च ब्रह्मातिरिक्त: अतएव उभयो: व्दैतभाव: स्वीकार्यो नास्ति।शांकरवेदान्ते त्रीणि प्रमूखानि तत्वानि स्वीकृतानि सन्ति जीव: जगत् आत्मा च।आत्मन एवापरा सज्ञा ब्रह्मोत्यति।“ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापर:” इति सिध्दान्त:।य: मुमुक्षु: स: वेदान्तशास्त्रस्य पठन-श्रवण-मननादिषु प्रवृतो भवति।वेदान्ते ब्रह्मण: त्रीणि स्वरुपाणि स्वीकृतानि निर्गुणं ब्रह्म,सगुणं ब्रह्म,जीवशरीरस्थं ब्रह्म चेति।यद्यपि ब्रह्मण: किमपि स्वरुपं नास्ति,तथापि उपाधिभेदात् तस्य त्रैविध्यं वर्तते।ब्रह्मण: स्वरुपं द्वयं वर्तते यथा-“सत्यं ज्ञानम् अनन्तं ब्रह्म”,द्वितीयं च “यतो वा इमानि भूतानि जायन्ते,येन जातानि जीवन्ति,यत् प्रयन्त्यभिसंविशन्ति तद् विजिज्ञासितव्य ब्रह्म:”।वेदान्तदर्शनानुसारं जगन्मिथ्येति मन्यते।
                                           आचार्यशंकर: काल: अष्टमशताब्द: आसीत्।केरलेषु कालाडिनाम्निग्रामे शिवगुरू: सति आर्यम्बा इति दम्पती आस्ताम्।तस्मिन्नेव पुत्रभवति: आचार्यशंकर:।वादरायणव्यास: विरचित ब्रह्मसुत्रग्रन्थस्य भाष्य आचार्य: शंकर: कृत:।अस्मिन् ब्रह्मसूत्रग्रन्थे चत्वार: अध्याया: सन्ति।चतुर्षु अध्यायेषु १९१अधिकरणानि सन्ति,एवं ५५५ सूत्राणि सन्ति।अव्दैतमते ज्ञानं भबति व्दिधा यथा-आनात्मजडम् आत्मचेतनं च।मायैव अविद्या-अज्ञान-अध्ृास-अध्यारोपविवर्तादिशब्दैर्व्यवह्रियते इति शंकर:।ब्रह्म भबति जगत: सृष्टि: स्थिति: लयानां कारणम्।

 शिक्षा उद्देश्यानि ;- 1. चरित्रनिर्माणम् 2. सा विद्या या विमुक्तये 3. विद्यया विन्दते अमृतम् 4. आत्मसौरभम् 5. मोक्षप्राप्ति: 6. ब्रह्म विषये ज्ञानम्  पाठ्यक्रम: ;- 1. आध्यात्मिकविषया: 2. धार्मिकविषया: 3. वेद: 4. उपनिषद् 5. गीता 6. हबनादिविषया:  शिक्षक: ;- 1. विषयस्य ज्ञाता 2. आदर्शा: 3. ब्रह्मज्ञानि 4. सत्चरित्रवान्  शिक्षणविधय: ;- 1. प्रत्यक्षविधि: 2. मौक्षिकविधि: 3. व्याख्यानविधि: 4. सूत्रविधि: 5. प्रश्नोत्तरविधि:  गुरू-शिष्यसम्बन्ध: ;- 1. मित्रवत् व्यवहार: 2. सहयोगस्य भावना 3. पितापुत्रवत् व्यवहार: 4. परस्पर सम्मानम्

शिक्षाशास्रविभाग: एकलव्यपरिसर:,अगरतला

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sahoo_Sudipta&oldid=442836" इत्यस्माद् प्रतिप्राप्तम्