सामग्री पर जाएँ

सदस्यः:Sahu123sudipta

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नाम - सुदिप्ता साहु

कक्षा - शिक्षा शास्त्री प्रथम वर्षम्

अनुक्रमांङ्कः - ३८

      वालविकासे संस्काराणां प्रभावः

संस्कारस्य स्वरूपम् - मानवजीवनस्य विकासः संस्कारं विहाय नैव सम्भवति ।मनुष्यः जन्मतः आरभ्य संस्कारैः संस्कृतो भवति ।संस्काराणामनुष्टानेन मनुष्यस्य विकासः भवति ।संस्काराणां आविर्भावः वैदिककालादेव अभवत् ।संस्कारेण शारीरिकमानसिकनियन्त्रणं भवति, माधवस्य विकासप्रक्रिया समीचीनता प्राप्नोति ।संस्कारशब्दस्य शिक्षा-संस्कृति-प्रशिक्षणं-संस्कारणम्-अभिषेकः - धारणा-परिष्कारम् - आभूषणम् - शुद्धिक्रिया-भावः-सौजन्यादीनिःप्रमुखानि पर्यायपदानि सन्ति ।संस्काराणां संख्याविषये आचार्यणाम् ऐक्यमतं न दृश्यते । अङ्गिरसोगौतमस्य च प्रवर्तितः स्मृतिकाराः षोडशसंख्याकान् संस्कारान् स्वीकुर्वन्ति। ते भवन्ति - (१) गर्भाधान संस्कारः, (२) पुंसवनसंसकारः, (३) सीमन्तोत्रयनस्कारः, (४) जातकर्म संस्कारः, (५) नामकरण संस्कारः, (६) निष्क्रमणसंस्कारः, (७) अत्रप्राशन संस्कारः, (८) चूडाकर्म बा मुण्डनसंस्कारः, (९) कर्णभेदसंस्कारः, (१०) उपनयनसंस्कारः, (११) वेदारम्भसंस्करणं, (१२)समावर्तसंस्कारः, (१३) विवाहसंस्कारः, (१४) वानप्रस्थसंस्कारः, (१५) सन्याससंस्कारः, (१६) अन्तयेष्टिसंस्कारश्च ।

संस्कारस्य विशेषताः - संस्कार-एतादृशीप्रक्रिया, या माानवस्य प्रत्येकऽस्मिन् स्त्रे विकासे वा अग्रगमने प्रेरणां प्रददाति ।संस्कारः व्यक्तेः गर्भावस्थातः मृत्युपर्यन्तं व्यक्तित्वं प्रभावयति ।प्रत्येकव्यक्तिः स्व-संस्कारानुसारेण जीवनस आदर्श - मान्यता-इत्यादीन् स्वीकृत्य विकासोन्मुखः भवति ।व्यक्तेः अन्यकृत्यं योग्यः भवति ।व्यक्तिः संस्कारेण दोषमुक्तः,कर्तव्यं प्रति सचेतनश्च भवति ।कर्तव्यं प्रति सचेतनः भवति । तथा व्यक्तिः योग्यतां प्राप्नोति। तस्मिन् पवित्रतामागछति तः योग्यः भवति । संस्कारस्य उपयोगः - १. व्यक्तेः व्यक्तित्वस्य सर्वाङ्गीणविकासकरणम् । २. नागरिकरूपे बालकस्य विकासे सहायताप्रदानम् । ३. व्यक्तेः नैतिकताविकासः तथा चरित्रनिर्माणम्। ४. व्यक्तेः सन्तुलित - समायोजनकरणे योग्यतानिर्माणम्। ५. व्यक्तेः आचार - व्यवहार - शुद्धतादीनां परिमार्जितकरणम्। ६. व्यक्तेः समाजः - आदर्शः - मूल्यः - प्रतिमानानुरूपविकासे योग्यताप्रतिपादनम्। ७.व्यक्तेः जीवनं समृद्धकरणम्। ८.प्रतिकूल - अनुकूलपरिस्तितौ समावस्थोत्पादनम्।

बालविकासे संस्कारस्य महत्वम् - षोडशसंस्कारेषु त्रयः संस्कारः जन्मतः पूर्वं प्रारभ्यन्ते। १.गर्भाधानसंस्कारः :-

     एषसंस्कारः श्रेष्ठः वा उत्तमसन्तानोत्पादनार्थमावश्यकं भवति। उत्तमसन्तानोत्पादनार्थं मातु - पितुः चित्रप्रसन्नं तथा उत्तमविचारयुक्तं भवेत्। तदर्थं पति - पत्न्यां मिलनात् पूर्वजम् अग्निहोत्रः क्रियते। मन्त्रोच्चारणेन प्रार्थानां करोति तस्य सन्तान - गणीश्रेष्ठ-देशभक्त - धार्मिकविचारसम्पन्नः च भवतु।

२. पुंसवनसंस्कारः :-

        गर्भस्तितिं जात्वा द्वित्रामासे गर्भरक्षणार्थं संस्कारः क्रियते। तत्र दम्पती गर्भस्यरक्षाणर्थं प्रतिज्ञा करोति डॉ. उमेशचन्द्रमहोदयः उक्तवान् - अस्मिन् समये कोषान् तीव्रगत्या वर्द्धते, क्रमशः आकारस्य अपि वृद्धिः भवति। एवं शिशोः स्नायु - संस्थानस्य रचना, मस्तिष्कस्य विकासः च भवति यस्य उपरि शिक्षानिर्भराः भवति। 

३. सीमन्तोत्रयनसंस्कारः :-

      संस्कारेस्मिन् मन्त्रेण साकं हवनं क्रियते। पतिः सुगन्धिततैलेन पत्न्यां केशविन्यासं करोति। एवं वीणा वादनेन सामवेदस्य गीतं गीयते। स्वस्थमस्तिष्कस्य विकासः संस्कारस्य महत्व भवति।

जन्मान्तरसंस्काराः :- १.जातकर्मसंस्कारः -

        एषसंस्कारः प्रसवानन्तरं क्रियते। अत्र शिशुः स्नानं कारयित्वा शुद्धवस्त्रं परिधानान्तरं च वेदमन्त्रेण होमः क्रियते। अग्निहोत्रस्य अनन्तरं पिता शिशोः जिह्वायाः उपरि स्वर्णशलाकाद्वारा घृत-मधुना प्रयोगे औऽम् लिखति, कर्णे "त्वं वेदोऽसि" कथयति। 

३.निष्क्रमण संस्कारः :-

       गृहात्वाहिः चतुर्थमासे शुद्धमुक्तवायुचलाचलस्थाने बालकं पितरौ भ्रमणं कारयति। रात्रौ पितरौ - चन्द्रं - दिवसे आदित्यं दर्शनञ्च कारयति। एतेन बालकस्य विनयशीलता - सौम्यता - सूर्यसमज्ञानस्य प्रकाश च भवति। 

४.अन्नप्राशनसंस्कारः :-

       घृत - मधु - दधि मिश्रित अन्नैन बालकस्य अन्नप्राशनसंस्कारः भवति बालकं तेजस्वी निर्माणार्थं षष्ठमासे संस्कारोऽयं क्रियते । द्रव्यभोजनेन बालकस्य विकासः महत्वपूर्णसोपानं भवति।

५.चूडाकर्म वा मुण्डनसंस्कारः -

      एष संस्कारः मुण्डनसंस्कारः इति नाम्ना ज्ञायते, प्रथमतृतीयवर्षे, परम्परानुसार कस्मिन्नपिशुभादिने संस्कारः क्रियते। अस्मिन् समये अग्निहोत्रं कृत्वा बालकस्य जन्मकेशाः कृन्तति। नवीनकेशः कर्तने वेदमन्त्रोस्योच्चारणं क्रियते।

६.कर्णभेदसंस्कारः - :-

       बालकस्य वर्ष त्रये वा पञ्चवर्षे वा कर्णभेदसंस्कारः भवति। बालकं निकषा भोज्यपदार्थाः क्रियासामग्रीस्थापयित्वा च कुशलवैद्यः स्वर्णकारः वा वेदमन्त्रोच्चारणेन कर्ण - नासिका भेदं क्रियते। एतेन बालकस्य सहनशक्तेः विकासः, विभिन्नरोगाः दूरीभवन्ति।

७.उपनयनसंस्कारः :-

      विद्यारम्भस्य प्राचीनसंस्कारः भवति । उपनयनशव्दस्य शाव्दिकार्थं विद्याप्राप्त्यर्थं गुरुं निकषा आगमनम्। एष संस्कारः सर्वेषां कृते अनिवार्य भवति। उपनयनसंस्कारः यज्ञोपवीतधारणमिति कथ्यते। शिष्यः यज्ञोपवीतं धारणं कृत्वा प्रसिद्धमन्त्रस्य उच्चारणं करोति। संस्कारस्य परिसमाप्तेरनन्तरं सर्वे मिलित्वा बालकमार्शीवादं प्रददाति। 

८. वेदारम्भसंस्कारः :-

      प्रसिद्धगायत्रीमन्त्रेण साकं चतुर्णां वेदानामध्ययनार्थं ब्रह्मचर्यव्रतधारणः वेदारम्भसंस्कारः कथ्यते। उपनयनं - वेदारम्भसंस्कारञ्चकस्मिन् दिवसैव सम्पन्न भवति। एकवर्षाभ्यन्तरेऽपि भवितुं शक्यते। समयेऽस्मिन् बालकः शुद्धजलेन स्नानान्तरं शुद्धवसनं परिधानं कृत्वा शुद्धासने चोपाविशति। आचार्यः बालकं बारत्रयं गायत्रीमन्त्रं पाठयति ।"आयुष्मान विद्यावान भव सौम " इति आर्शीवादमति ददाति। 
    अतः अनेन ज्ञायते यत् -विकासः निरन्तरप्रचाल्यमाना प्रक्रिया भवति। विकासस्य अनेकावस्थाः वर्तन्ते। बालविकासे संस्काराणां प्रभावः सदैव वर्तते एव।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sahu123sudipta&oldid=449417" इत्यस्माद् प्रतिप्राप्तम्