सदस्यः:Saikatdeb
दिखावट
महात्मा गान्धिः
स्वातन्त्र्यहेतुं सुखशान्तिसेतुं,
सत्यस्य केतुं रिपुधूमकेतुम्।
देशोन्नतौ त्यक्तसमस्तवित्तं,
नमामि गान्धिं गुणगौरवाब्धिम्।।(कपिलस्य)
जीवनवृत्रम्- महात्मा गान्धिः 2 अक्टूबर 1869 ईसवीये काठियावाडप्रदेशान्तर्गत-पोरबन्दरनामकं स्थानं स्वजनुषाऽलंचकार । अस्य पितृवर्यः कर्मचन्द्रगान्धिर्जननी पुतलीबाई चास्ताम्। तस्य पितरौ साधुस्वभावौ धर्मनिष्ठौ सत्कर्मप्रवीणैकचितौ चाभूताम्। तदगुणान् अनुसृत्य सोऽपि सत्यप्रियो धर्मनिष्ठश्चाभूत्। द्वादशवर्षदेशीयः कस्तुरवा-नाम्रीं दिव्यगुणोपेतां कन्याम् उपयेमे। भारते प्रारम्भिकीं शिक्षाम् अवाप्य विधान-विशोषज्ञताम् अवाप्तुम् आड्ग्लदेशम् इयाय। ततो निवृत्य वर्षद्वयम भारते प्राडविवाक-कार्यं सम्पाद्य दाक्षिणात्य-अफ्रिकादेशम् अगात्। 1915 ईसवीये भारतं निवृत्य भारतीयस्वातन्त्र्यान्दोलने रूचिम् अघोषयत्। 1919 -1947 ईसवीयं यावद् राष्टियान्दोलनम् ऐतिह्ये “गान्धियुगम्” इत्याख्यामागात्। 30 जनवरी, 1948 ईसवीये सायं षडवादने प्राथनासभां गच्छन् नाथुरामगोडसे-नाम्ना नृशंसेन गोलिकाघातं हतो दिवम् अयासीत्।
समाजसेवा- महात्मा गान्धिर्महर्षिदयानन्दवत् पीडित-शोषित-दलितवर्ग-दग्ध-चेताः तदुद्धारैकधीः, कष्टदावाग्नि शिशिराम्बुवद् गणयन् समाजोत्थाने प्रावर्तत। समाज-सुधारक-दृष्टया तस्य महत्वं वर्णयितुमशक्यम्। पद्दलितजातीनां समुत्थाने तस्य कार्यम् अविस्मरणीय़ं भविता। अस्पृशयोद्धारे, योषितां सामाजिक-स्थिति-सुधारणे विचारान् समुपस्थापयत्। गोरक्षा-स्त्रीशिक्षा-पर्दाप्रथोन्मुलनादिकं समाजसुधार-कार्यजातं व्यदधात्। शिक्षाक्षेत्रेऽपि समानत्वम्, जनकल्याणभावना, मौलिकशिक्षा(Basic Education) –प्रयोगः, हस्तकला-महत्वं च तदुपदिष्टम् आदर्शत्वेनोररीक्रियते।
राष्टियसेवा- तस्य महात्मनो निखिलमपि जीवनं देशसेवाऽऽयत्तम् अभवत्। घोरां यातनां, कठोरयन्त्रणाम्, आधिव्याधि-पीडां चोपेक्ष्य, सत्य-अहिंसा-शस्त्र-सन्नद्धः,प्रेमवर्मावनद्धः, मोहनोऽयं महात्मा। अहिंसा-मूलकं सत्याग्रहम्, असहयोगान्दलम्, सविनयावज्ञान्दोलम्, उपावासाश्रयणम् हडतालनामक- कार्यावरोधं समाश्रयत्। जन-साहाय्यैकमूलकेन आन्दोलनेन भीतभीता वैदेशिका भारतशासनाभिलाषम् उन्मुच्य स्वाश्रयं ययुः। भारतस्वातन्त्र्यस्य गान्धिरेव मूलमन्त्रः। अतएव स “राष्ट्रपिता” इतिरुपेण सम्मान्यते।
अन्यद् वैशिष्ट्यम्- न केवलं राष्ट्रसेवा च तस्य गौरवम् अभिवर्धयतः, अपितु भारतीय-कला-कौशल-विकासे, धार्मिक-विभेद-शमने, राजनीतौ धर्मार्थयोः समन्वये-सम्पादने, भारतीयेषु स्वावलम्बनोद्बोधने, स्वदेशीय-वस्तु-संग्रहणे, शिक्षा-पद्धतौ परिष्कारे,देशभक्ति-भावना-प्रवोधने चानुपमं महत्त्वपूर्णं योगदानमवलोक्यते।
एवं महापुरुषोऽयं स्वगुणैरेव विश्व-जन-सम्मानम् अवाप्य आबालवृद्धं स्तुयते प्रशस्यते च। ते तज्जीवनादर्शं च स्वादर्शरूपेण समुपस्थाप्य स्वजीवनं सफलयितुमभिलष्यन्ति।