सामग्री पर जाएँ

सदस्यः:Sanghamitra Giri

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                             व्याख्यान कौशलम् 
                          ( Explanation Skill )
                                     
                                                      
                                       शिक्षाक्षेत्रे सफलताप्राप्त्यर्थं योग्यछात्रस्य तु आवश्यकता अस्त्येव परन्तु सुयोग्यछात्रस्य निर्माणाय योग्यशिक्षकस्य अतीव आवश्यकता अनुभूयते  । एकस्मिन् शिक्षके शतउपाधौ स्थिते सति । सः दक्षः सफलः भवितुं नार्हति कदाचित् 

यतः अस्य कृते कौशलमपेक्ष्यते । शिक्षणप्रक्रियां साफल्यार्थं कर्त्तुं पारयति अपि च छात्रेषु तस्य प्रभावः दृश्यते यद्वारा छात्राः अपि सुयोग्याः भवितुमर्हन्ति ।

                                                    सूक्ष्म शिक्षणस्य व्याख्यान कौशलं अतीव महत्वपूर्णं स्थानं वर्त्तते । शिक्षणप्रणाल्यां प्राचीनकालादेव मूलग्रन्थस्य व्याख्यारुपेण प्रस्तुतिः परिल्यते । वैदिकशिक्षायामपि विधेरस्य बहुलप्रयोगः दृश्यते । गुरुवः व्याख्यानपद्धतिमिश्रित्यैव छात्रेभ्यः ज्ञानं प्रदत्तवन्तः । विधावस्मिन् शिक्षकः प्रमुखः छात्राः 

गौणाः । अधुनातन नवीनशिक्षणप्रणाल्यामपि अस्य विधेः प्रयोगः सर्वत्र दृश्यते । परन्तु पार्थकयमेतत् अस्ति यत् पुरातन्यां शिक्षायां व्याख्याविधिः पद्धतिः वा रुपेण परिगण्यते स्म परन्तु इदानीं कौशलनाम्ना अभिज्ञायते । सम्प्रति शिक्षाविद्भिः अस्य कौशलस्य प्रयोगः वहुलतया क्रियते । शिक्षणाधिगमप्रक्रियायां शिक्षकेन विषयसामग्य्राः संक्षिप्तीकरेण, प्रस्तुतिकरणे, स्पष्टीकरणे च कौशलस्यास्य प्रयोगः क्रियते । अर्थात् शिक्षणप्रक्रियां यदा काठिन्यमनुभूयते तदा अनेन व्याख्याकौशलमाध्यमेन सारल्यमानेतुं शक्यते ।

                                                                                                     व्याख्यानकौशलस्य विषये विद्वांसः निम्नोक्तरुपेण  विचारान् प्रकटयन्ति ।

ए.एच.गर्लिकमहोदयेने उक्तं --

                                                  व्याख्या एका प्रक्रिया अस्ति । यथा कस्यापि शव्दस्य , शव्दसमुहस्य कथनस्य वा काठिन्यं दूरिभवति । (Ex—Planation is a process by which a word,  phrase or statement of all obscurity of meaning is cleared. )



              विशेषतया भाषा-शिक्षणे  व्याख्यानकौशलस्य महत्वं वर्त्तते । साहित्यविज्ञानादिष्वपि अस्य  कौशलस्य प्रयोगः भवति ।

भाषाशिक्षणे विभिन्न प्रकारकाणां काठिन्यानां दूरीकरणार्थं व्याख्यानकौशलस्य अधोलिखित प्रकारेण उपयोगः कर्त्तुं शक्यते । व्याख्यानकौशलस्य महत्वं ( Importance of Explanation Skill) 1 व्याख्या स्पष्टशव्दैः भवेत् । 2 व्याख्या सरला शुद्धाः च स्यात् । 3 व्याख्यायां विचाराः क्रमवद्धाः स्युः । 4 व्याख्या विद्यार्थिनां स्तरानुकूलं भवेत् । 5 व्याख्या शिक्षणोद्दोश्यानि पूरयेत् । 6 व्याख्या आवश्यकतानुसारं कार्या । 7 व्याख्या छात्राणां रुच्यनुसारं करणीया । 8 व्याख्यायाः कृतेः शिक्षकस्य विषयवस्तुनोपरि संपूर्णं ज्ञानं भवेत् । 9 व्याख्यायां कठिनशब्दानां प्रयोगः न करणीयः । 10 व्याख्या नाति दीर्घा नाति स्वल्पा च भवेत् । सीमाः ( Limitation )

      1 व्याख्या जटिला न भवेत् । 
      2 व्याख्या विस्तृता न्युना वा न भवेत् ।
      3   व्याख्यायां कठिनशब्दानां प्रयोगः न  स्यात् ।
      4 व्याख्या उपदेश रुपेण न कर्त्तव्या ।
      5 व्याख्यानकाले व्याख्याता विषयान्तरः न भवेत् ।
      6 व्याख्याने अनावश्यकशब्दाः अनपेक्षितविषयाश्च न स्वीकर्त्तव्याः ।
     7 शिक्षकस्य व्याख्यायां निरन्तरता भवेत् ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sanghamitra_Giri&oldid=442844" इत्यस्माद् प्रतिप्राप्तम्