सामग्री पर जाएँ

सदस्यः:Sangita Khillar

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रजपर्व

रजपर्व अथवा रजसंक्रान्तिः प्रतिवर्षं मिथुनसंक्रान्तितिथौ आचर्यते । भारतस्य ओड़िशानगरे त्रिदिवसीयः स्त्रीत्वस्य उत्सवः अस्ति । मिथुनसंक्रान्तेः एकदिनपूर्व त्रिदिवसीयः रजोत्सवः आरभ्यते । अयं दिवसः पहिली रजः इति कथ्यते । अस्मिन् दिने विवाहिताः स्रियः स्नानं कृत्वा ध्यानं कृत्वा पृथिवीमातरं, वर्षादेवम् इन्द्रं च पूजयन्ति । यत्र द्वितीयदिने मिथुनसंक्रान्तिः आचर्यते । अस्मिन् दिने सूर्यः पूज्यते । अपि च उद्यानेषु झूलानि स्थापितानि सन्ति । स्त्रियः झूलन्ति, लोकगीतानि अपि गायन्ति नृत्यन्ति च । अस्मिन् अवसरे प्रौढाः बालकाः च सांस्कृतिकमनोरञ्जनं कुर्वन्ति । भूदहः रजसंक्रान्त्याः तृतीये दिने आचर्यते । अस्मिन् अवसरे पृथिवीमाता पूज्यते । अपि च पूजाकाले सम्पूर्ण व्यञ्जनं पृथिवीमातुः कृते अर्पितं भवति । पृथिवीमातुः पूजनेन गूहे सुखं, समृध्दिः च भवति इति धार्मिकः विश्वासः अस्ति । वसुमती स्नानं परदिने अर्थात् रजपर्वस्य चतुर्थे दिने भवति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sangita_Khillar&oldid=490461" इत्यस्माद् प्रतिप्राप्तम्