सदस्यः:Sangya123/प्रयोगपृष्ठम्
प्राचीन संस्कृत अध्यापकस्य स्वरूपं
वैदिककालात् शिष्यः आचर्यस्य मानसपुत्रत्वेन परिगण्यते ।पतञ्जलिः शिख्यादात्रुभ्यःशिक्षकः, अध्यापकः, प्रवक्ता, श्रोत्रियः , अध्यापकः, गुरुः, ,आचार्यः इत्यादिभिः शब्दैः ब्यवहरति ।गुरुः मातापित्रादिभ्याम् अपि आदरणीयःभवति ।यतोहि मातृपित्रोः सकाशात् केवलं पर्थिवशरीरम् एव लभ्यते । किन्तु गुरोः सन्निधौ तस्य सर्वविकासः जायते ।श्रोत्रियशब्दः वेदाध्यायिनः पर्यायशब्दः अस्ति ।वेदस्य अध्ययनं कुरुते इत्यस्मिन् अर्थे श्रोत्रियः ब्यवह्रुतः। अस्य शिक्षणेन साकं साख्यातसंबन्धः नास्ति ।श्रोत्रियः कदाचित् शिक्षकः कदाचित् छात्रः भवितुमर्हति । एवं रीत्या सः प्रवक्ता , रचनाकारः ब्याख्याता वा भवितुमर्हर्ति । सः शिक्षकः भवितुं शक्नोति । यद्यपि तस्य शिक्षकत्वमनावस्यकं वर्तते तदा कस्यचित् विषयस्य उच्चकोटी विद्वान् मौलिकचिन्तकः च आचार्यत्वेन ब्यवह्रीयते । इमे च पण्डिताः कस्यचित् विषयस्य सिद्धान्ताः प्रवर्तकाः एव भवान्ति । भाष्यकारः पाणिनिं आचार्यशब्देन व्यवहरति न तु कात्यायनं।आचार्येषु तस्य अतीव गौरभावना आसीत्।पाणिनेः आचार्यस्य आचरशैली उपचारादीनि सर्वाणि अपि पतञ्जलिना अङ्गीकृतानि सन्ति । आचार्यः प्रमाणभूतः इति पतञ्जलिः आहः आचार्यः इति व्यवहारः गुरौ आसीत्।तदाचार्यपदं उपाध्यायादपि अधिकं सम्मानबोधकं आसीत् ।सामान्यतया पूर्वम् शिक्षकः उपाध्यायबोधकः आसीत् । गुरुकुलेतरशालानां विद्यार्थीनः तस्य सकाशं केवलं पठनार्थं समागच्छन्ति स्म । एवं पठित्वा स्व स्व गृहाणि प्रत्यावर्तन्ते स्म ।
विद्यार्थी यस्य समीपं गत्वा पठति सः उपाध्यायः इति कथ्यते । सः शुल्कं गृहीत्वा पाठयति न वा इति भाष्ये उल्लेखः न दृश्यते । तदा केवलं उपाध्यायाय गोदानं क्रियते स्म । बिद्या समाप्त्यनन्तरं गोदानं भवति स्म । गुरुपाध्याययोः इदमन्तरं यत् गुरोः सकाशं दूरस्थाः विद्यार्थीनः अध्ययनार्थं आगच्छन्ति एवं उपाध्यायसकाशं तु निकटस्थाः । एवं रीत्या गुरुः सर्वोत्तमः एवमुपध्यायः ततो निम्नस्तरीयः आसीदिति अवगम्यते । महाभाष्ये उपाध्यायः वेदाध्यापकत्वेनापि वर्णितः अस्ति । तदा सामान्यविषयशिक्षकाः अध्यापकाः भवन्ति स्म । धनुर्विद्यायाः शिक्षणं शिक्षकाः कुर्वन्ति स्म । न तु उपाध्यायाः । शिक्षकोपध्याययोः मध्ये इदमन्तरं नासीदिति संज्ञायते यत् -''उपाध्यायः वेदान् अन्य बौधिकविषयान् पाठयति स्म ।''
यद्यपि अधुना गुरुकुलशिक्षा पद्धतिं प्रति गन्तुं न शक्यते ।किन्तु गुरोः कर्तव्यनित्वमपेक्षितम् । सः स्व शिष्यस्य ज्ञानरूपगुरुत्वं सफलिकृत्य तं प्रकाशस्य दिशि स्वीकर्तुं स्वयं सफलः भवति । अस्य परिणामत्वेन शिष्यस्य गुरुभक्तिः गुरुं प्रति अपारश्रद्धाभावजागरितं भवति।अद्य संपूर्णपरिवेशः एव परिवर्तितः । न सन्ति ते अध्यापकाः नास्ति च तत् स्निग्धवातावरणं यत्र अध्यापकाः स्वपुत्रापेक्षया अधिकतरवात्सल्यं स्वशिष्येभ्यः ददति स्म ।संप्रति अध्ययनअध्यापनकार्यम् आधुनिक प्रविधिप्रपञ्चे अन्तर्निहितं वर्तते । अवलोक्यते च -स्वेच्छया जायमानानां सक्रियकार्यकर्तुणां अध्यापकानामभावः संजातः अस्ति । अध्यापनकार्यमपि संगणकमाध्यमेन जायमानं संदृश्यते । भारतीयसंस्कृतौ गुरुः गोबिन्दः इति मन्यते । छत्रपतिः शिवाजीमहाराजः स्वगुरवे रामदासाय संपूर्णसाम्राज्यं ससम्मानं भिक्षारूपेण दत्तवान् आसीत् । कश्चित् विद्वान् अवोचत् - शिक्षकेभ्यः सम्मानः समर्थनं च प्रदेयं । येन एतादृशसम्माननीयवृतिं प्रति बुद्धिमताम् विदुषां च आकर्षणं स्यात् । यत्र शिक्षकाणां यावत् सम्मानं भवति तत् स्थानं तावत् समृद्धः भवति । गुरुः वौद्धिक -शारिरीक - नैतिक -धार्मिकादि समग्रविषयाणां शिक्षां प्रयच्छन्ति स्म । सर्वेषु अपि पदेषु गुरुः श्रेष्ठतमः आसीत्। वेद -वेदाङ्गार्थं अध्ययनशव्दः धनुविद्याद्यर्थं शिक्षणशब्दः प्रयुक्तः अस्ति । महाभाष्यस्य उद्योतटीकायं आचार्यस्य उपनयनकर्तुत्वेन वेदाध्यापकत्वेन च वर्णनं दृश्यते । किन्तु उपाध्यायः वेदस्य अंशविशेषशिक्षकः आसीत् इति अवगम्यते । पतञ्जलिना खण्डिकउपाध्यायस्य उल्लेखः कृतः । प्रारम्भिकशिक्षायाः शिक्षकः खण्दिकः इति उच्यते स्म यः वेदांशःतदितरविषयाः च पाठयति स्म । अध्यापनं हि ब्राह्मणस्य प्रवृत्तिःइति कथयता पतञ्जलिना एतद्उदात्तं कर्मः ब्राह्मणानां इति निगदितं । ब्राह्मणेन निष्कारणो धर्मः षडङ्गः अध्येयः ज्ञेयश्च इति । व्याकरणप्रयोजनभूतम् आगमवाक्यं प्रदर्शयन् भगवान् आचार्येण षडङ्गः वेदः अध्येयः इत्यादिश्यति । आचार्य अधीतार्थम् सम्यक् विजानीयात् -
यदधीतमविज्ञातं निगर्देनैव शब्द्यते ।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥
अधीतं विषयजातं समग्रमपि अविदितसुबादिसंस्कारत्वात् अर्थ परिज्ञानात् वा तत् निष्प्रयोजकं भवतीति अध्यापकेन अधीत विषयः व्यकरणाध्ययन पुरसरम् अवश्यं ज्ञेयमिति निर्दिशति । भाष्योक्त उदाहारणैः अध्यापकाः न केवलं विषयविशेषज्ञाः परं छत्रवत्सलाः अपि भवन्ति इति ज्ञायते । अध्यापकाः केवलं शिष्यगुणवर्धनाय तान् ताडयन्ति स्म इति अभिगम्यते । सा च शिक्षा केवलं कठोरानुशासने न वर्तते अपि तु ज्ञानस्य गुरुत्वं वर्तते ।
दीपे यावत् तैलं भवति तावत् काल पर्यन्तं प्रकाशं दातुं शक्नोति । शिक्षकः अपि दीपः इव , यः परमार्थे आत्मानं तपसि तप्त्वा अन्येभ्यः ज्ञानप्रकाशं प्रददाति ।