सामग्री पर जाएँ

सदस्यः:Sasmita swain 25

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 दलशिक्षणस्य वैशिष्ट्यम्

                        दलशिक्षणे अध्यापकः स्वयोग्यतां कौशलं च प्रदर्शयितुं पूर्णावसरं प्राप्नुवन्ति । एवमेव छात्रैः अपि स्वशिक्षकाणां विशिष्ठयोग्यतायाः लाभः प्राप्यते । शिक्षणे अस्मिन् एकत्र स्वक्षमतायाः कौशलस्य च उपयोगं कर्तुं शिक्षकेभ्यः अवसरः उपलभ्यते,अन्यत्र छात्राणां जिज्ञासा अपि परिपूर्णा सन्तुष्टा च भवति । छात्राणां मनसि ये सन्देहः उत्पन्नाः भवन्ति, तेषां समाधानमपि शिक्षणे अस्मिन् सञ्जायते यतो हि पाठ्यविषयं ते एव अध्यापकाः पाठयन्ति,ये स्वक्षेत्रे निपुणाः भवन्ति । एवं रीत्या दलशिक्षणेन शिक्षणक्षेत्रे समीकरणं परिवर्तनं च सम्पादयितुं शक्यते । शिक्षाविद्भिः दलशिक्षणस्य प्रदत्तानां केषाञ्चन वैशिष्ट्यनाम् उल्लेखः अत्र क्रियते ।तद्यथा-

1.दलशिक्षणे छात्राः एकविधसमस्यानां सम्मुखिनाः भवन्ति ।अतः तत् समाधाने सौविध्यं भवति । 2.अध्यापकेषु सहयोगकारणतः ते छात्राणां दोषान् अवगत्य तान् दोषान् निराकर्तुमर्हन्ति । 3.अस्मिन् शिक्षणे विषयस्य स्पष्टीकरणार्थं दृश्यश्रव्योपकरणानाम् उपयोगः अपि क्रियते । 4.अधिगमप्रक्रियायाः गुणवत्तासंवर्धनम् एतस्य शिक्षणस्य मुख्योद्येश्यम् । 5.शिक्षणे अस्मिन् विद्यालयस्य छात्राणाम् आवश्यकतायाः अनुसारम् उपलब्धसाधनेषु विशेषावधानं प्रदीयते ।  दलशिक्षणस्य सोपानत्रयम् ;- 1.योजनानिर्माणम् । 2.व्यवस्थापनम् । 3.मूल्याङ्कनम् ।  दलशिक्षणस्य प्रकारत्रयम् 1.विभागीयदलशिक्षणम् । 2.अन्तः अनुशासनशिक्षणम् । 3.अन्तः विद्यालयदलशिक्षणम् ।  दलशिक्षणस्य उद्येश्यम्

      1.शिक्षकेषु  योग्यता, दक्षताश्च,रूचि,इत्यादीनां सर्वश्रेष्ठःउपयोगः ।
      2.छात्राणां रूचिक्षमातानुसारं कक्षाशिक्षणे प्रभावशीलतायाः आनयनम् ।
      3.अनुदेशनस्य गुणवत्तायाः बृद्धिकरणम् ।
      4.विषयस्य स्पष्टीकरणम्  ।
       5. छात्राणां समस्यानां समाधानम् प्रभावपूर्णरित्या क्रियते ।

 दलशिक्षणस्य गुणाः

 1 .उत्तमानुशासनम्                              2.छात्रशिक्षकयोर्मध्ये उत्तमसम्बन्धः
 3.शिक्षकाणां दक्षतायाः समीकरणम्         4 .आर्थिकलाभः

 दलशिक्षणस्य दिशाः

   1 .  सहयोगस्याभावः                            2.  दायित्वबोधस्याभावः
   3.पारस्परिकशिक्षणं प्रति व्यामोहः            4.  व्ययाधिक्यम्
   5.अवरोधकतत्वम्   
                                  दलशिक्षणं एतत् समुहे प्रचलितत्वात् बालकानां ज्ञानेन्द्रियाणां प्रशिक्षणं प्राप्यते । अध्यापकाः अत्र व्यवस्थापकत्वेन छात्राणाम् अधिगमार्थं व्यवस्थापयन्ति । शिक्षणकार्यं तदा एव सफलं भवति, यदा व्यवस्थापकेषु कर्मचारिषु च उत्तमसम्बन्धः कल्पितः भवति । सर्वेषां दृष्टिकोणः सहयोगात्मकः भवेत् । शैक्षिकसङ्घटने दलशिक्षणं तादृशमेकं रूपं,यत्र कक्षायामेकस्य अध्यापकस्य स्थाने विभिन्नविषयविशेषज्ञाः अध्यापकाः तेषां सहायकाश्च भवन्ति । एते सर्वे अपि मिलित्वा प्रभावपूर्णतया शिक्षणकार्यं कुर्वन्ति । साम्प्रतं शैक्षिकप्रविधेः विकासेन सह शिक्षणे नवीनोपकरणानाम् उपयोगिताम् अवलोक्य शिक्षाविद्भिः कक्षायां शिक्षणाधिगमप्रक्रियां सुष्ठुरीत्या सञ्चालयितुं दलशिक्षणं महत्वपूर्णसाधनत्वेन स्वीकृतमस्ति ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sasmita_swain_25&oldid=442815" इत्यस्माद् प्रतिप्राप्तम्