सदस्यः:Satyampandey999
“ वेदव्यासः ”
हिन्दुपरम्परायां कश्चन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।
त्वरिततथ्यानि वेदव्यासः, सम्मानाः ... व्यासस्य शैली अपि वाल्मीकेः इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुप्छन्दसा एव उपनिबद्धम् अस्ति । भगवान् वेदव्यासः महर्षेः पराशरस्य पुत्रः । एषः कैवर्तराजस्य पालितपुत्र्याः सत्यवत्याः गर्भे जन्म प्राप्तवान् । एषः कश्चन अलौकिकः शक्तिसम्पन्नः महापुरुषः अपि च महानाकारक पुरुषः आसीत् । एषः जनानां स्मरणशक्तेः क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणवेदः च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकं शिष्यं बोधितवान् । एकैकस्याःः संहितायाः अपि अन्यान्याः शाखाः, उपशाखाः च अभवन् । एवम् एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तारः आसादितः । विस्तारं व्यासः इति वदन्ति । वेदस्य विस्तारः एतेन सम्पादितः इति कारणेन एषः ‘वेदव्यासः’ इति नाम्ना प्रसिद्धः जातः । एतस्य जन्म कस्मिंश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जनाः ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एषः आसीत् इति कारणेन एतस्य नाम ‘बादरायणः’ इत्यपि आसीत् । अष्टादशपुराणानि, महाभारतस्य रचनाम् एषः एव अकरोत् । संक्षेपेण उपनिषदः तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्याः आचार्याः भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्तः । ‘व्यासस्मृतिः’ एतेन रचितः कश्चन स्मृतिग्रन्थः । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृतेः विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधानः व्याख्यानकारः व्यासः इति उच्यते । हिन्दवः, भारतीयसंस्कृतिः च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एषः महान् श्रेष्ठः पथप्रदर्शकः, शिक्षकः च इति उच्यते । अतः तेन ‘जगद्गुरुः’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायाम् [आषाढपूर्णिमा] प्रत्येकं हिन्दूगृहस्थः एतस्य पूजां करोति । श्रीकृष्णपरमात्मनः अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगतः महदुपकारं कृतवान् अस्ति । महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते । रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योग्यस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथायाः लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्तां भारतकथां सः लिखति च । आर्यभटः वदति - क्रि. पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्यः। महाभारते बह्वयः उपकथाः उपलभ्यन्ते । अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।
महर्षिः वेदव्यासः त्रिकालदर्शी, इच्छागतिमान् च आसीत् । एषः सर्वस्य मनसः चिन्तनं ज्ञातुं शक्नोति स्म । यत्र इच्छति क्षणाभ्यन्तरे तत्र गन्तुं शक्नोति स्म। जन्मानुक्षणं मातुः आज्ञां प्राप्य तपः कर्तुं वनं गतवान् । गमनसमये उक्त्वा गतवान् यद् – ‘यदा भवत्यै मम आवश्यकता भवति तदा मां स्मरतु । अहं भवत्याः समीपे उपस्थितः भविष्यामि’ इति ।
पाण्डवाः विदुरस्य युक्त्या लाक्षागृहतः बहिः आगत्य एकचक्रनगरे आसन् । तस्मिन् सन्दर्भे व्यासः मेलनार्थं तत्र गतवान् आसीत् । प्रसङ्गवशात् सः द्रौपद्याः पूर्वजन्मनः वृत्तान्तं कथयन् ‘एषा कन्या भवद्भ्यः इति एव पूर्वनिश्चिता अस्ति’ इति । एतत् वचनं श्रुत्वा पाण्डवानाम् आनन्दः उत्साहः च वर्धितः । ते द्रौपद्याः स्वयंवरे भागं ग्रहीतुं पाञ्चालनगरं गतवन्तः । तत्र अर्जुनः स्वयंवरस्य नियमानुसारं द्रौपदीं जितवान् । मातुः कुन्त्याः आज्ञया यदा पञ्चसहोदराः अपि तया सह विवाहं कर्तुम् इच्छन्ति तदा राजा द्रुपदः न अङ्गीकरोति । तस्मिन् समये व्यासः तत्र आगत्य तस्याः पूर्वजन्मनः वृत्तान्तं निवेद्य पञ्चभिः सहोदरैः सह तस्याः विवाहं कारयितुं द्रुपदम् अङ्गीकारितवान् ।
यदा महाराजः युधिष्ठिरः इन्द्रप्रस्थनगरे राजसूययागं कृतवान् तदापि वेदव्यासः यज्ञे भागं ग्रहीतुं स्वस्य शिष्यवृन्दैः सह आगतवान् आसीत् । यज्ञं समाप्य गमनसमये सः युधिष्ठिरम् “अद्यारभ्य त्रयोदशवर्षाणाम् अनन्तरं क्षत्रियाणां महासंहारः भविष्यति । तस्मिन् दुर्योधनस्य अपराधानां निमित्तं भविष्यति भवान्” इति वदति ।
पाण्डवानां सर्वस्वम् अपहृत्य तान् द्वादशवर्षाणां वनवासं प्रति प्रेषयित्वा अपि दुर्योधनः न हृष्टः । सः पाण्डवान् वने एव मारयितुं चिन्तितवान् । मातुलः शकुनिः, कर्णः, दुःशासनः इत्येतैः सह रहस्येन पाण्डवानाम् उपरि आक्रमणं कर्तुं निश्चित्य शस्त्रास्त्रैः सुसज्ज रथम् आरुह्य वनं प्रस्थितवान् । व्यासः दिव्यदृष्ट्या एतत् दुष्टं कुतन्त्रं ज्ञातवान् । सः अनुक्षणं तत्र आगत्य घोरात् दुष्कर्मणः तं निवारितवान् । अनन्तरं सः धृतराष्ट्रं ‘भवान् द्यूतस्य पराजयव्याजेन पाण्डवान् वनं प्रेषितवान् । एतत् सत्कार्यं न । एतस्य परिणामः उत्तमः न भवति । भवान् भवतः, भवतः पुत्राणां च हितम् इच्छति चेत् इदानीं वा कृतस्य दोषस्य परिहारं करोतु । दुरात्मा दुर्योधनः राज्यलोभेन पाण्डवान् मारयितुम् इच्छति ! पाण्डवान् यदि मारयितुं यत्नं करोति तर्हि तेन तस्य प्राणाः दातव्याः भवेयुः। भवान् यदि पुत्रस्य द्वेषबुद्धेः निवारणं कर्तुं यत्नं न करोति तर्हि अनर्थः भविष्यति । दुर्योधनः एकः एव गत्वा किञ्चित् कालं पाण्डवानां समीपे तिष्ठतु इति मम अभिप्रायः । पाण्डवानां सत्सङ्गेन तस्य द्वेषभावः अपगछेत्, प्रेमभावस्य जागरणं भवेत् । एतद् कठिनम् अस्ति । यतः जन्मतः आगतस्य स्वभावस्य परिवर्तनं सहजं न । पाण्डवैः सह भवतः पुत्राः मिलित्वा तिष्ठन्ति चेत् कुरुवंशः अवशिष्यते। किञ्चित् कालाभ्यन्तरे महर्षिः मैत्रेयः अत्र आगमिष्यति । सः भवतः पुत्रान् उद्दिश्य 'स्नेहेन सर्वे सहजीवनं कुर्वन्तु' इति उपदेशं करोति । चिन्तनं विना भवन्तः तस्य वचनं शृण्वन्तु । अन्यता सः कोपेन शापं दद्यात्’ इत्यपि व्यासः उक्तवान् । तथैव किञ्चिदनन्तरं मैत्रेयः तत्र आगत्य बोधनं कृतवान् । किन्तु दुर्योधनः तस्य वचनं न श्रुतवान् । अतः महर्षेः कोपस्य परिणामम् अनुभूतवान् ।
यदा पाण्डवाः वने आसन् तदा कदाचित् सः आगत्य युधिष्ठिरस्य द्वारा अर्जुनाय स्मृतिविद्यायाः उपदेशं दत्तवान् । ततः अर्जुनेन देवदर्शनस्य योग्यता प्राप्ता । तावदेव न, व्यासः सञ्जयाय दिव्यदृष्टिं दत्तवान् । तेन कारणेन सः युद्धस्य सर्वान् विवरणानि ज्ञातुं शक्नोति स्म । भगवतः विश्वरूपस्य दिव्यचतुर्भुजस्य रूपस्य देवदुर्लभदर्शनस्य योग्यतामपि प्राप्तवान् । साक्षात् भगवतः मुखतः भगवद्गीतायाः दिव्योपदेशम् अपि श्रुतवान् । अर्जुनेन विना अन्ये केऽपि गीतां न श्रुतवन्तः । दिव्यदृष्टेः प्रभावतः सञ्जयाय एषा योग्यता आगता । सः तु साक्षात् नारायणस्य अंशः एव आसीत् ।
धृतराष्ट्रः गान्धारी कुन्ती च यदा वने आसन् तदा कदाचित् युधिष्ठिरः तान् द्रष्टुं परिवारैः सह तत्र गतवान् आसीत् । तदा व्यासः अपि तत्र आगतवान् आसीत् । धृतराष्ट्रगान्धार्योः पुत्रशोकः इतोऽपि शान्तः न आसीत् । कुन्ती अपि बान्धवानां वियोगेन दुःखे अस्ति इति ज्ञात्वा व्यासः धृतराष्ट्रं 'वरः पृच्छ्यताम्' इति वदति । युद्धे मृतानां पुत्राणां मित्राणां च गतिः का स्यात् इति सः ज्ञातुम् इष्टवान् । “एकवारं तान् सर्वान् द्रष्टुम् इच्छामि” इति सः व्यासं प्रार्थितवान् । व्यासः वदति यद् – शयनानन्तरम् उत्थितं मानवमिव अद्य रात्रौ भवन्तः सर्वे मृतान् बन्धून् पश्यन्ति’ इति । सर्वे सायंकर्माणि समाप्य गङ्गातटे मिलितवन्तः ।
व्यासः गङ्गायाः पवित्रं जलं प्रविश्य युद्धे मृतान् कौरवान् पाण्डवान् च उच्चैः आह्वयति । अनुक्षणं यथा कुरुक्षेत्रस्य अङ्गणे युद्धाय समावेशितानां सैन्यानां कोलाहलः श्रूयते स्म तथा शब्दः जलेऽपि श्रुतः । अनन्तरं युद्धे वीरगतिं प्राप्तवन्तः सर्वे राजानः, राजकुमाराः च भीष्मद्रोणादीनां नेतृत्वे एव जलतः बहिः आगतवन्तः। युद्धसमये यथा वेशं, ध्वजं, वाहनं, दिव्यवस्त्रं, दिव्यमालाः, कुण्डलं च धृतवन्तः आसन् तथा एव इदानीमपि धृतवन्तः आसन् । सर्वाणि शरीराणि अपि दिव्यप्रभया कान्तियुक्तानि आसन् । प्रत्येकम् अपि क्रोधरहितः, द्वेषासूयारहितः, निरभिमानयुक्तः च दृश्यन्ते स्म । गन्धर्वाः तेषां यशोगानं कुर्वन्तः आसन् । वन्दीजनाः तेषां स्तुतिं कुर्वन्तः आसन् । तदा व्यासः धृतराष्ट्राय दिव्ये नेत्रे दत्तवान् आसीत् । अतः सः सम्यक् सर्वान् योधान् अपश्यत् ।
तत् दृश्यं तु अत्यद्भुतम्, अचिन्त्यं, रोमाञ्चकारि च आसीत् । सर्वे तदेकदृष्ट्या तत् दृश्यं दृष्टवन्तः । आगताः जनाः क्रोधेन विना बन्धुभिः मिलितवन्तः । एवम् आरात्रि प्रेमीणां समागमः चलति स्म । अनन्तरं ते सर्वे यथा आगतवन्तः तथैव भागीरथ्याः जलं प्रविश्य स्वलोकान् गतवन्तः । तदा व्यासः वदति ‘काः अपि स्त्रियः पत्युः लोकं गन्तुम् इच्छन्ति चेत् गङ्गायां प्रवेशः करणीयः ’ इति । तच्छृत्वा बह्व्यःः स्त्रियः जलं प्रविश्य मानवदेहं त्यक्त्वा पत्युः लोकं गतवत्यः । एताः अपि दिव्यं वस्त्राभूषणं धृत्वा विमानयाने उपविश्य गतवत्यः ।
अत्र राजा जनमेजयः वैशम्पायनस्य मुखतः एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । सः अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऐच्छत् । व्यासः तदापि तत्रैव आसीत् । सः तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजयः यज्ञान्ते स्नानसमये स्वेन सह पितुः अपि स्नानं यदा कारयति तदनन्तरं परीक्षितः ततः प्रस्थितवान् । एवं महर्षिः वेदव्यासः कश्चन अलौकिकः शक्तिशाली महापुरुषः च ।
“ चाणक्यः(Chanakya) (क्रि.पू ३७०-२८३)”
मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सः प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।
त्वरिततथ्यानि: चाणक्यः, पूर्णनाम ... जीवनचरितम् चाणक्यस्य पिता चणकः कश्चनब्राह्मणः आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत् । अतः चाणक्यः धनानन्दम् प्रति प्रतीकारम् ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।
इतिहासः प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध: नलन्दाविश्वविद्यालय: आसीत् । राज्ये बहूनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धननन्द: राजा अभवत् । स: परमस्वार्थी इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अतः एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्ताग्रस्तः अभवन् ।
पाटलिपुत्रे बुद्धिमान् सदगुणसम्पन्न: राष्ट्रभक्त: सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धननन्दं बोधयितुं तस्य सकाशं गतवान्, किन्तु धननन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम 'चन्द्रगुप्त:' इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अतः एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धननन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्रगुप्तस्य पराक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम "विष्णुगुप्तः" इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम 'कौटिल्य:' इत्यपि आसीत् । चाणक्यस्य जन्म ख्रीस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अतः एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य 'अर्थशास्त्रम्' इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सूत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदीनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुषाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति।
“शङ्कराचार्यः (क्रिस्ताब्दम् ७८८ - क्रिस्ताब्दम् ८२०)”
यस्यान्ये अभिधाने शङ्करभगवत्पादाचार्यः तथा च आदिशङ्कराचार्यः इति । आदिशङ्कराचार्यः कश्चन भारतीयः दार्शनिकः आसीत्, येन अद्वैतवेदान्तस्य सिद्धान्तः दृढतया प्रोद्बलितः । अद्वैतवेदान्तः वेदान्तस्य उपसंप्रदायः वर्तते । उत्तरमीमांसा इत्यपि एतस्य अपरं नाम । अद्वैतवेदान्तानुसारं जीवब्रह्मणोः अभेदः ब्रह्मणः निर्गुणत्वञ्च उच्यते । शङ्करः समग्रभारतवर्षस्य यात्रां कृत्वा स्वकीयं दर्शनं प्रवचनेभ्यः शास्त्रार्थेभ्यश्च प्रसारितवान् । सः दशनामी इति अद्वैतसंप्रदायस्य संघटनकर्ता मन्यते, तथा च षण्मत इति पूजनपरम्परायाः संस्थापकः मन्यते ।
त्वरिततथ्यानि शङ्कराचार्यः ।, जन्मतिथिः ... त्वरिततथ्यानि संस्कृतेन रचिताः तस्य कृतयः, याः सर्वाः अपि अद्यापि प्राप्यमानाः, अद्वैतवेदान्तसिद्धान्तस्थापनविषयकाः सन्ति । सः उपनिषद्ब्रह्मसूत्रसम्मतस्य संन्यासस्य महत्तामपि प्रतिपादितवान्, यस्मिन् काले मीमांसा संप्रदायेन दृढं कर्मकाण्डं स्थापितमासीत् संन्यासश्च निन्दित: आसीत् । शङ्करः ब्रह्मविषये उपनिषदः प्रामाण्यं प्रोक्तवान् । तथा च ब्रह्मसूत्राणाम्, उपनिषदां, भगवद्गीतायाः च भाष्यं लिखितवान् । कर्मवादस्स्य प्रवर्तकेन मण्डनमिश्रेण सह ज्ञानवादं मण्डयित्वा जितवान् ।
आचार्यशङ्करः अनेकान् ग्रन्थानपि लिखितवान् तेषु विवेकचूडामणिः, उपदेशसहस्री प्रपञ्चसारश्च प्रमुुुुुखाः सन्ति
तस्याद्वैतवेदान्तसिद्धान्तो माध्यमिकबौद्धसिद्धान्त इव प्रतीयते। यथाद्वैतवादः तथैव शून्यवादो वर्तते, न तस्मात् भिन्नः। अतः केचित् तं प्रच्छन्नबौद्धं कथयन्ति
चरितम् केरळेषु पूर्णानद्यास्तीरे विद्यमाने कालटि ग्रामे स जज्ञे । सस्य शैशवे एव पिता शिवगुरुः दिवं प्रपेदे । अतः माता आर्यादेवी रक्षाधुरं वहन्ती शिशुं पोषयामास । असाधारणया मेधाशक्त्या स बालः सर्वान् अत्यवर्तत । पञ्चमे वयसि उपनीतः साङ्गान् वेदान् अधीते स्म । संन्यासाश्रमं प्रवेष्टुम् उत्कटेच्छा समजनि। परन्तु, माता नान्वमोदत ॥
एकस्मिन् दिने मात्रा सह पूर्णानदीं प्राप्य स्नानार्थम् अवतीर्णः । एकः ग्राहः तस्य पादं जग्राह । निनाय च नदीमध्यम् । तदवलोक्य तारं क्रन्दन्तीं मातरं स ऊचे । "यदि सन्यासानुज्ञां मे दास्यसि तर्हि नूनं ग्राहो मोक्ष्यति" इति । पुत्रं जीवन्तमिच्छन्ती सा कथञ्चित् अनुमेने । झटिति ग्राहशिशुं तीरोपकण्ठमानीय अमुञ्चत् ।
अथ विलम्बं विनैव स प्रव्रजितुं निरणौषीत् । "यदा मां स्मरिष्यसि, तदा त्वामुपस्थास्यामि" इति प्रतिश्रुत्य मातरं समाश्वासयन् गृहान्निरगाच्च ॥
स देशाद्देशं परिक्रममाणः नर्मदारोधसि स्थितं गौडपादाशिष्यं गोविन्दगुरुं प्रपेदे । परावरज्ञात् तस्मात् सकलाः विद्याः संन्यासञ्च जग्राह । तदनु तस्य गुरोः आज्ञया उपनिषदां ब्रह्मसूत्राणां गीतायाश्च भाष्याणि निर्ममे । अन्यानपि बहून् ग्रन्थान् निबबन्ध । तदनु गुरुणा अनुज्ञातः गौडपादेन चानुमोदितः कैश्चित् कुतार्किकैः कदर्थितं श्रौतं मतं सुप्रतिष्ठां नेतुं प्रायतत । प्रतिदेशं भ्रममाणः विपक्षवादान् तिलशः खण्डयामास । वैदिकमद्वैतमतं सुदृढं समर्थयामास च । तत्र तत्रानेके शिष्याश्च तस्याभूवन् ॥
अनन्तरं स्वेन समर्थितं मतं प्रचारयन् शिष्यैः सह कञ्चन कालं श्रीकाशीमध्युवास । तस्य यशः दिक्षु विदिक्षु च विससार । अस्मिन् अवसरे गयायामासन्नमृत्योः कुमारिलभट्टस्य अनुज्ञानुगुणम् अयमाचार्यः माहिष्मतीमेत्य मीमांसकानामग्रगण्यस्य मण्डनमिश्रस्य सकाशे वादभिक्षामयाचत । याचनामङ्गीकृत्य मिश्रः वादाय सज्जः अभवत् । तेन सह सुदीर्घवादः प्रावर्तत । अन्ते आचार्यः मिश्रं जिगाय । पराजितो मिश्रः सबहुमानं सभक्तिकञ्च आचार्यस्य शिष्यतां वव्रे । स एव सुरेश्वराचार्य इति प्रख्यातः ॥
एवमद्वैतमतं प्रतिष्ठापयन् आचार्यः बदरिकाश्रमं गत्वा नारायणं समाराध्य तत्र कञ्चन मठं स्थापयामास । तथैव पश्चिमतः द्वारकायां, पूर्वतः पुर्यां दक्षिणतः शृङ्गगिरौ तुङ्गायास्तीरे च । तेषु चतुर्षु मठेषु यथाक्रमं स्वशिष्यान् तोटकं, हस्तामलकं, पद्मपादं, सुरेश्वरञ्च पीठाधिपतिरूपेण न्ययोजयत् । उपनिषदां सम्मतस्य अद्वैतमतस्य रक्षणे पोषणे च तानादिदेश च ॥
अत्रान्तरे आतुरया मात्रा स्मृतः योगशक्त्या तस्याः पुरस्तादाविरासीत् । उचिताभिः परिचर्याभिस्तां प्रातोषयत् । प्रत्यासन्नायां तस्याः प्राणानामुत्क्रान्तौ नूतनाभिः नूतिभिः प्रसादितदैवतैस्तामनुगृहीतां सुगतिञ्च वितेने । पारत्रिकाणि कृत्यानि च यथाविधि वितेने ॥
अथ स्वकृत्यं सर्वं कृतं मन्यमानः स काश्मीरदेशं प्रययौ । तत्र महाजनानां मनोरथं मानयन् सर्वज्ञपीठमधिष्ठानं भूषयामास । तदनु हिमालयस्थां दत्तात्रेयगुहां जगाह । ततस्सत्ये शिवे शाश्वते पदे तिरोदधे च ॥
“ महात्मा विदुरः ”
महात्मा विदुरः तु साक्षात् धर्मस्य अवतारः आसीत् । माण्डव्यऋषेः शापेन एषः शूद्रः भूत्वा जन्म प्राप्तवान् । एषः महाराजस्य विचित्रवीर्यस्य दास्याः पुत्रः । एकरीत्या एषः धृतराष्ट्रस्य, पाण्डोः च भ्राता एव । एषः बहुबुद्धिमान्, नीतिज्ञः, धर्मज्ञः, विद्वान्, सदाचारी, भगवद्भक्तः च आसीत् । एतस्य गुणानां कारणेन जनाः एतं बहुगौरवेण पश्यन्ति स्म । निर्भीतः सत्यवादी च एषः धृतराष्ट्रस्य मन्त्री भूत्वा तस्मै सर्वदा श्रेष्ठां सूचनां ददाति स्म ।
दुर्योधनः जन्मनः अनुक्षणमेव शृगालः इव चीत्कारं कर्तुम् आरब्धवान् आसीत् । तस्य जननसमये अनेकाः अमङ्गलसूचनाः अपि अभवन् । एतद् सर्वं दृष्ट्वा विदुरः ब्राह्मणैः सह मिलित्वा राजानं धृतराष्ट्रं वदति यत् ‘भवतः एषः पुत्रः निश्चयेन कुलनाशकः भविष्यति । अतः एतस्य त्यागः वरम् । एषः जीवति चेत् भवद्भिः दुःखम् अनुभोक्तव्यं भवति । कुलस्य निमित्तम् एकां व्यक्तिं, ग्रामस्य निमित्तम् एकं कुलं, देशस्य निमित्तम् एकं ग्रामम्, आत्मनः निमित्तं सम्पूर्णपृथिव्याः परित्यागः करणीयः चेत् दोषः नास्ति इति शास्त्रेषु उक्तम् अस्ति’ इति । किन्तु मोहवशात् धृतराष्ट्रः विदुरस्य वचनं न अङ्गीकरोति । तेन जीवनपूर्णं दुःखम् अनुभूतवान् । स्वस्य जीवनकाले एव कुलस्य नाशमपि द्रष्टव्यम् अभवत् । महात्मनः हितवचने ध्यानम् अदत्त्वा दुःखम् आहूतवान् ।
यदा दुर्योधनः पाण्डवानाम् उपरि अत्याचारान् कर्तुम् आरब्धवान् तदा विदुरः सहजतया पाण्डवेभ्यः सहानुभूतिं दर्शयन् आसीत् । यतः प्रथमं तु ते पितृहीनाः आसन् । द्वितीयं ते धर्मात्मनः आसन् । विदुरः प्रत्यक्षपरोक्षरूपेण पाण्डवानां रक्षणं साहाय्यं च करोति स्म । पाण्डवानां यावत् वा विपदाः आगच्छन्तु नाम अन्तिमः विजयः तु तेषामेव इति विदुरः ज्ञातवान् आसीत् । दीर्घायुष्मतः पाण्डवान् केऽपि मारयितुं न शक्नुवन्ति इति एषः जानाति स्म । कदाचित् क्रीडासमये दुर्योधनः भीमसेनाय विषं खादयित्वा तं गङ्गानद्यां नुत्तवान् आसीत् । भीमः समये न प्रत्यागतवान् इति मातुः कुन्त्याः चिन्ता, दुर्योधनस्य विषये संशयः अपि आरब्धः । तदा विदुरः तस्याः समाधाननं कारयित्वा वदति – ‘एतस्मिन् अवसरे मौनेन लक्ष्यं साधयन्तु । दुर्योधनस्य विषये सन्देहस्य प्रकटनम् अपायकारि अस्ति । कुपितः सः भवत्याः अन्यबालान् अपि पीडयेत् । भीमसेनः मृतः नास्ति । सः शीघ्रं प्रत्यागच्छति’ इति । कुन्ती विदुरस्य वचनम् अङ्गीकृतवती । तस्य वचनं सत्यमभवत् । कतिपय दिनानन्तरं शक्तः भीमः प्रत्यागतवान् ।
लाक्षागृहतः बहिः गन्तुं मार्गं युक्तिं च विदुरः एव पाण्डवेभ्यः सूचितवान् आसीत् । एषः केवलं नीतिज्ञः नासीत् । एतस्य बहुभाषाणां ज्ञानमपि आसीत् । पाण्डवानां वारणावतं प्रति गमनसमये एषः म्लेच्छभाषया तेषां विपत्तेः सूचनां, मुक्तिं प्राप्तुं कः उपायः अनुसरणीयः ? इत्यपि सूचितवान् आसीत् । तावदेव न, लाक्षागृहतः बहिः गन्तुं कञ्चित् मार्गं कर्तुम् एषः पूर्वमेव सेवकमपि योजितवान् आसीत् । सः भूमेः अन्तः लाक्षागृहतः वनं गन्तुं मार्गं सज्जीकृतवान् आसीत् । लाक्षागृहाय अग्निं प्रज्वाल्य पाण्डवाः मात्रा कुन्त्या सह तेन मार्गेण एव बहिः आगतवन्तः । गङ्गातटे नद्याः पारगमनाय विदुरः नाविकेन सह नौकामपि योजितवान् आसीत् । एवं सर्वे पाण्डवाः गङ्गां पारयित्वा गतवन्तः । बुद्धिमान्, नीतिज्ञः विदुरः एवं पाण्डवानां प्राणान् रक्षितवान् । दुर्योधनादयः यथा न जानीयुः तथा अवधानं दत्तवान् । पाण्डवाः लाक्षागृहे मात्रा सह दग्धाः अभवन् इत्येव जनाः चिन्तितवन्तः । सर्वत्र शारीरकस्य बलस्य, अस्त्रबलस्य च उपयोगः न भवति । आत्मरक्षणाय नीतिबलस्य आवश्यकता अपि भवति । महात्मा विदुरः धर्मशास्त्रज्ञानेन सह नीतिभाण्डारः अपि आसीत् ।
यथा पाण्डवानां विषये विदुरस्य सहानुभूतिः प्रेमः च आसीत् तथैव धृतराष्ट्रस्य, तस्य पुत्राणां विषयेऽपि एतस्य प्रीतिः, आत्मीयता च आसीदेव । तेषां हितदृष्ट्या सर्वदा उत्तमाः सूचनाः ददाति स्म । हितेन सत्येन युक्तानि एतस्य वचनानि दुर्योधनेभ्यः अप्रियाणि भवन्ति स्म । किन्तु एषः तेषाम् अप्रसन्नताम् अविचिन्त्य तेषां शुभम् इच्छति स्म । दुर्मार्गतः तान् बहिः आनेतुम् अनवरतं यत्नं करोति स्म । दुरात्मनः पुत्रस्य प्रभावेण धृतराष्ट्रः विदुरस्य वचनं न शृणोति स्म । तेन कष्टमपि अनुभवति स्म । तथापि विदुरस्य विषये धृतराष्ट्रस्य बहुविश्वासः आसीत् । एतं बुद्धिमान्, दूरदर्शी, स्वस्य परमहितचिन्तकः इति भावयति स्म । एतस्य सूचनां विना किमपि कार्यं न करोति स्म । पाण्डवैः सह व्यवहारसमये तु विशेषरीत्या एतस्य सूचनां स्वीकरोति स्म । पाण्डवानां सम्बन्धेऽपि एषः निष्पक्षपातिः इति धृतराष्ट्रः जानाति स्म ।
मातुलस्य शकुनेः योजनानुसारं दुर्योधनः पाण्डवैः सह द्यूतक्रीडायाः प्रस्तापं यदा पितुः पुरतः उपस्थापयति तदा अपि धृतराष्ट्रः विदुरम् अभिप्रायस्य निमित्तम् आहूतवान् । यदि मम वचनं न अङ्गीकरोति तर्हि अहं प्राणत्यागं करोमि इति दुर्योधनः पितरं भाययन् आसीत् । तथापि सः स्पष्टतया पुत्रं वदति – ‘विदुरेण सह चिन्तनेन विना अहं भवते द्यूतक्रीडार्थं कदापि अनुमतिं न ददामि’ इति । दुर्योधनस्य पापयुक्तं प्रस्तावं श्रुत्वा विदुरः इदानीं कलियुगः आगच्छन् अस्ति इति ज्ञातवान् । सः एतस्य प्रस्तावस्य नितरां विरोधं कृतवान् । अग्रजम् उक्तवान् यद् – “भवतः, भवतः अनुजस्य पुत्राणां वैरत्वम् अधिकमेव भवति । कस्यापि हितं न भवति । द्यूतक्रीडां न क्रीडन्तु । तेन उभयत्र अपि श्रेयः भवति” इति ।
धृतराष्ट्रः विदुरस्य अभिप्रायं प्रशंसितवान् । दुर्योधनाय बहुबुद्धिवचनम् उक्तवान् । किन्तु सः एतस्य वचनं न अङ्गीकृतवान् । द्यूते पाण्डवानाम् अपमानः भवेदेव इति सः सज्जः आसीत् । पाण्डवानां वैभवं द्रष्टु न शक्नोति स्म । अन्ते धृतराष्ट्रः पुत्रस्य दुर्मार्गमेव अनुसृत्य विदुरस्य द्वारा पाण्डवेभ्यः इन्द्रप्रस्थतः हस्तिनापुरम् आगन्तुम् आह्वानं प्रेषितवान् । अनिच्छया एव विदुरः अग्रजस्य आज्ञां पालितवान् ।
इन्द्रप्रस्थं गत्वा विदुरः पाण्डवेभ्यः सर्वान् विषयान् ज्ञापितवान् । महाराजः युधिष्ठिरः द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि पितुः आज्ञा इति मत्वा दुर्योधनस्य अह्वानम् अङ्गीकृतवान् । द्यूतस्य समयेऽपि विदुरः तस्य दुष्परिणामान् धृतराष्ट्राय वदति – ‘इदानीं वा जागरितः भवतु । भवान् दुर्योधनस्य वचनस्य पालनं न करोतु । कुलं रक्षतु । पाण्डवैः सह विरोधं कृत्वा तान् भवतः शत्रवः इव न करोतु । तेन भवतः सर्वनाशः भविष्यति’ इति । किन्तु क्रीडा आरब्धा । शकुनेः कुतन्त्रेण पाण्डवानां पराजयः अभवत् । नियमानुसारं ते वनवासार्थं प्रस्थितवन्तः । तेषां गमनानन्तरं धृतराष्ट्रस्य मनसि बहुचिन्ता व्यथा च आरब्धा । सः विदुरम् आहूय स्वस्य मनः उद्घाट्य पृच्छति – ‘इदानीं प्रजाः अस्माकं विषये सन्तुष्टाः भवेयुः । कुपितैः पाण्डवैः अस्माकं कोऽपि हानिः न भवेत् । एतादृशः व्यवहारः कथं करणीयः ?’ इति । तदा विदुरः तस्य समाधानं कारयित्वा वदति – ‘राजन् ! धर्मः, अर्थः, कामः च एते त्रयः अपि धर्मेण एव प्राप्यन्ते । राज्यस्य मूलं धर्मः एव । अतः स्थिरतया धर्मम् अनुसृत्य पाण्डवानां, भवतः पुत्राणां च रक्षणं करोतु । भवतः पुत्रः शकुनेः सूचनानुसारं पूर्णसभायां धर्मस्य तिरस्कारं कृतवान् अस्ति । यतः कपटद्यूतक्रीडायां सत्यसन्धस्य युधिष्ठिरस्य पराजयं कारयित्वा तस्य सर्वस्वमपि स्वीकृतवान् अस्ति । एषः महापराधः, अधर्मः च । एतस्य दोषस्य निवारणार्थम् एकः एव उपायः इत्युक्ते पाण्डवैः स्वीकृतं सर्वं पुनः तेभ्यः यच्छन्तु । स्वस्य यावान् अधिकारः अस्ति तेन एव सन्तुष्टः भवतु अन्येषाम् अधिकाराणाम् आक्रमणं न करोतु । एषः एव राज्ञः परमधर्मः । एवम् आचरन्ति चेदेव भवतः पुत्रः कलङ्करहितः भूत्वा गौरवं प्राप्नोति । सोदरैः सह कलहः अपि न भवति । पुत्राणां सौभाग्यं किञ्चित् वा आवश्यकं चेत् एतत् कार्यं शीघ्रमेव करोतु । मोहवशात् भवान् एवं न करोति चेत् कुरुवंशस्य नाशः भविष्यति । यदि भवतः पुत्रः वचनं न शृणोति तर्हि तस्य दुरात्मनः बन्धनं कृत्वा युधिष्ठिरं राज्यसिंहासने उपवेशयतु । युधिष्ठिरः तु रागद्वेषातीतः । अतः सः एव शासनं करोतु । दुःशासनः पूर्णसभायां भीमसेनस्य, द्रौपद्याः च क्षमां प्रार्थयतु । एतावत् पर्याप्तम् । तेन भवन्तः कृतकृत्याः भवन्ति’ इति ।
विदुरस्य वचनं सत्ययुक्तं, धर्मयुक्तं, हितपूर्णं, निर्भितं च आसीत् । किन्तु यः मरणोन्मुखः अस्ति तस्मै निष्प्रयोजकम् औषधमिव धृतराष्ट्रः विदुरस्य वचनं न इष्टवान् । सः कोपेन वदति – ‘विदुर ! इदानीं भवते मम आवश्यकता नास्ति । इच्छति चेत् अत्र तिष्ठतु । अन्यथा गच्छतु । भवान् वारं वारं पाण्डवानां पक्षमेव गृह्णाति इति अहं जानामि । तेषां निमित्तम् अहं मम पुत्रान् कथं त्यजामि’ इति ? कौरवाणां कुलस्य नाशः जायमानः अस्ति इति ज्ञात्वा विदुरः तूष्णीम् उपविष्टवान् । अनन्तरं प्रस्थाय सः काम्यकवने स्थितानां पाण्डवानां समीपं गतवान् । तेभ्यः स्वस्य आगमनस्य कारणम् उक्तवान् । तावता विदुरः पाण्डवानां समीपं गतवान् इति ज्ञात्वा धृतराष्ट्रस्य बहुपश्चात्तापः अभवत् ।
विदुरस्य चिन्तनं स्वीकुर्वन्ति चेत् पाण्डवाः इतोऽपि बलशालिनः भवन्ति इति चिन्तयित्वा धृतराष्ट्रः अनुक्षणं सञ्जयं प्रेषयित्वा विदुरम् आनेतुम् उक्तवान् । रागद्वेषरहितः विदुरः तथैव पुनः हस्तिनापुरं प्रत्यागत्य धृतराष्ट्राय वदति ‘मह्यं पाण्डवाः, भवतः पुत्राः च सर्वे समानाः । किन्तु पाण्डवाः असहायकाः । अतः तेषां साहाय्यं करणीयम् इति भावः मनसि उत्पद्यते । मम मनसि भवतः पुत्राणां विषये द्वेषस्य भावः तु नितरां नास्ति’ इति । धृतराष्ट्रः स्वस्य अनुचिताय व्यवहाराय विदुरे क्षमां याचितवान् । अनन्तरं विदुरः पूर्ववत् तस्य सेवायां निरतः अभवत् ।
कदाचित् रात्रौ धृतराष्ट्रस्य निद्रा न आगता । तदा सः रात्रौ एव विदुरम् आहूय शान्तेः उपायं पृष्टवान् । तस्मिन् अवसरे विदुरः धृतराष्ट्राय धर्मस्य नीतेः च सुन्दरम् उपदेशं दत्तवान् । सा एव विदुरनीतिः इति उद्योगपर्वणः ३३तः ४० पर्यन्तम् अष्टेषु अध्यायेषु सङ्गृहीता अस्ति । एषः विषयः स्वतन्त्रतया अध्ययनं कर्तुं मननं कर्तुं च योग्यः अस्ति ।
विदुरस्य वचनं श्रुत्वा धृतराष्ट्रस्य तृप्तिः न अभवत् । सः इतोऽपि श्रोतुम् इष्टवान् । तदा विदुरः वदति ‘महाराज ! मया यद् वक्तव्यम् आसीत् तत् सर्वम् उक्तवान् अस्मि । इदानीं ब्रह्मणः पुत्रः सनत्सुजातः नामकः कश्चन सनातनः ऋषिः आगच्छति । सः एव भवते तत्त्वोपदेशं करोति । तत्त्वोपदेशं कर्तुं मम अधिकारः तु नास्ति । यतः मम जन्म शूद्रायाः गर्भे अभवत् ’ एवम् उक्त्वा सः अनुक्षणं सनत्सुजातम् अस्मरत् । अविलम्बेन एव सनत्सुजातः महर्षिः तत्र प्रत्यक्षः अभवत् । सः राज्ञः धृतराष्ट्रस्य प्रश्नेभ्यः उत्तरं यच्छन् परमात्मनः स्वरूपस्य, तस्य साक्षात्कारस्य विषये बहुसुन्दरतया विवेचनाम् अकरोत् । एवं विदुरः धृतराष्ट्राय सनत्सुजातसदृशस्य सिद्धयोगिनां, परममहर्षेः द्वारा तत्त्वोपदेशं कारयित्वा तस्य श्रेयोमार्गं प्रशस्तीकृतवान् । महात्मानां जीवनमेव इतरेषां श्रेयोनिमित्तं भवति । विदुरः तत्त्वज्ञानी चेदपि स्वस्य शूद्रत्वस्य कारणेन सः स्वयं तत्त्वोपदेशम् अकृत्वा सनातनस्य मर्यादायाः रक्षणं कृतवान् । एवं ज्ञानिना अपि शास्त्रमर्यादा रक्षणीया इति उपदेशं दत्तवान् । सनत्सुजातस्य एषः उपदेशः ‘सनत्सुजातीय’ इति नाम्ना उद्योगपर्वणः ४१ तः ४६ पर्यन्तं षड्षु अध्यायेषु सङ्गृहीतः अस्ति ।
विदुरः केवलं ज्ञानी, तत्त्वदर्शी च नासीत् । सः कश्चन अनन्य भगवद्भक्तः अपि आसीत् । श्रीकृष्णस्य चरणयोः एतस्य निश्चला प्रीतिः आसीत् । परमात्मा अपि एतं बहुइच्छति स्म । यदा श्रीकृष्णः पाण्डवानां राजदूतः भूत्वा हस्तिनापुरं गतवान् तदा सः राज्ञा धृतराष्ट्रेण सभासद्भिः च मिलित्वा अनन्तरं विदुरस्य गृहं गत्वा तस्य आतिथ्यं स्वीकृतवान् । अनन्तरं स्वस्य पितृभगिन्या कुन्त्या मिलितवान् । यदा श्रीकृष्णः दुर्योधनं दृष्टवान् तदा एषः स्वस्य सम्बन्धी इति भावेन तं भोजनार्थं तिष्ठतु इति प्रार्थितवान् चेदपि श्रीकृष्णः तस्य आह्वानं स्पष्टतया तिरस्कृत्य पुनः विदुरस्य गृहम् एव आगतवान् । भीष्मः, द्रोणः, कृपः, बाह्लीकः च इत्यादयाः अनेके मेलनार्थं तत्रैव आगतवन्तः । सर्वे आतिथ्यं स्वीकरोतु इति श्रीकृष्णं प्रार्थितवन्तः । किन्तु श्रीकृष्णः सर्वान् सम्मानपूर्वकं प्रेषयित्वा विदुरस्य गृहे एव स्थित्वा ब्राह्मणाय प्रथमं भोजनं दत्त्वा स्वयमपि भोजनम् अकरोत् । एतेन विदुरस्य श्रीकृष्णस्य विषये सह कियत् प्रेम आसीत् इति ऊहां कर्तुं शक्नुमः । प्रेम्णा विना केवलं राजयोग्येन आडम्बरेण सः आकृष्टः न भवति । किन्तु प्रेमरसे निमज्जितं सामान्येन भोजनेन अपि सः तृप्तः भवति स्म।
भोजनानन्तरं रात्रौ अपि श्रीकृष्णः विदुरस्य गृहे एव शयितवान् । सम्भाषणं कुर्वन्तौ रात्रिं यापितवन्तौ । प्रातःकाले नित्यकर्म समाप्य श्रीकृष्णः कौरवाणां सभायै गतवान् । तत्र दुर्योधनः श्रीकृष्णस्य बन्धनस्य दुःसाहसपूर्णां योजनां यदा करोति तदा विदुरः तस्मै परमात्मनः महिमायाः वर्णनं कुर्वन् वदति ‘एषः साक्षात् सर्वतन्त्रः स्वतन्त्रः ईश्वरः । भवान् एतं तिरस्करोति चेत् अग्नौ पतितः पतङ्गः इव भवतः सर्वनाशः भविष्यति’ इति । अनन्तरं श्रीकृष्णः स्वस्य विश्वरूपं दर्शितवान् । भीताः जनाः नेत्रनिमीलनं कृतवन्तः । केवलं भीष्मपितामहः, गुरुद्रोणाचार्यः, विदुरः, सञ्जयः, ऋषयः च विश्वरूपदर्शनं कृतवन्तः । यतः भगवान् एतेभ्यः दिव्यदृष्टिं दत्तवान् आसीत् । किञ्चित् कालानन्तरं स्वस्य लीलां समाप्य श्रीकृष्णः ततः प्रस्थितवान् । विदुरः अपि अन्यैः सह किञ्चित् दूरपर्यन्तं तं प्रेषयित्वा आगतवान् ।
यदा श्रीकृष्णस्य सन्धानमपि विफलं जातं तदा पक्षद्वयेऽपि युद्धस्य सज्जता आरब्धा । अष्टादश-अक्षोहिणी सैन्येन सह पाण्डवाः कौरवाः कुरुक्षेत्रस्य अङ्गणे मिलितवन्तः । अष्टादशेषु दिनेषु सम्पूर्णस्य सैन्यस्य नाशः अभवत् । धृतराष्ट्रस्य पुत्रपौत्राणां सर्वनाशेन सः बहुदुःखम् अनुभूतवान् । तदा विदुरः मृत्योः अनिवार्यतां निरूपयन् उक्तवान् – ‘युद्धे यः मरणं प्राप्नोति तस्य उत्तमगतिः लभ्यते । अतः तेषां निमित्तं शोकः न करणीयः । जीवः यावत् वारं जन्म प्राप्नोति तावद् वारमपि सः अन्यान्यव्यक्तिभिः सह सम्बन्धं प्राप्नोति । मृत्योः अनन्तरं सर्वे सम्बन्धाः अपि स्वप्नाः इव विलीनाः भवन्ति । अतः मृतेभ्यः सम्बन्धिकेभ्यः बुद्धिमान् शोकं न करोति । सुखैः दुःखैः सह सम्बद्धाः संयोगः वियोगः इत्यादिघटनाः अपि स्वयं कृतानां शुभाशुभकर्माणां फलरूपेण लभ्यन्ते । कर्मफलं तु सर्वैः जीवैः अनुभोक्तव्यमेव इत्युक्त्वा अनन्तरमपि विदुरः जगतः नश्वरता, निःसारता, परिवर्तनं, जन्ममृत्योः क्लेशः, जीवस्य अविवेकः, मृत्योः दृष्ट्यां सर्वेषां समानता, धर्मस्य आचरणस्य महत्त्वम् इत्यादिकम् उपदिशन् प्रापञ्चिकेन दुःखेन मुक्तिं प्राप्तुम् उपायानां दिग्दर्शनं कारितवान् ।
युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरं धृतराष्ट्रः पाण्डवानां समीपे एव आसीत् । तदा विदुरः अपि तत्रैव स्थित्वा तेन सह सर्वदा धर्मस्य विचारे सम्भाषणं करोति स्म । यदा धृतराष्ट्रः पत्न्या सह वानप्रस्थाश्रमं प्रस्थितवान् तदा एषः अपि तैः सह वनं गतवान् । वने विदुरः घोरतपसः आचरणस्य व्रतम् आरब्धवान् । आहारेण विना निर्जने वने एकान्तवासम् आरब्धवान् । शून्ये वने यदाकदापि जनानां दर्शनं भवति स्म । किञ्चित्कालानन्तरं कदाचित् महाराजः युधिष्ठिरः स्वस्य समस्तपरिवारेण, सैन्येन सह ज्येष्ठपितृव्यं, पितृव्यां, मातरं कुन्तीं, विदुरं च द्रष्टुं वनम् आगतवान् । तत्र विदुरम् अदृष्ट्वा तस्य विषये धृतराष्ट्रं पृच्छन् आसीत् । तावता तस्मै दूरे विदुरः दृष्टः । सः शिरसि जटां कृत्वा दिगम्बरः भूत्वा मुखे कञ्चन शिलाखण्डं स्थापितवान् आसीत् । तस्य मलिने, दुर्बले शरीरे नाड्यः उपरि दृश्यन्ते स्म । सः धृतराष्ट्रस्य आश्रमं पश्यन् पृष्ठतः गच्छन् आसीत् ।
युधिष्ठिरः तस्य मेलनार्थं तस्य पृष्ठतः धावितवान् । स्वस्य नाम, परिचयम् उक्त्वा अपि तम् आहूतवान् । धावन् विदुरः गहनं वनं गत्वा कस्यचित् वृक्षस्य साहाय्येन स्थिरतया स्थितवान् । राजा युधिष्ठिरः यदा पश्यति तदा तस्य शरीरं केवलम् अस्तिपञ्जरम् इव आसीत् । तम् अभिज्ञातुम् एव कष्टं भवति स्म । युधिष्ठिरः पुरतः स्थित्वा तस्य पूजाम् अकरोत् । समाधिस्थः विदुरः तदेकदृष्ट्या युधिष्ठिरं पश्यन् आसीत् । अनन्तरं सः योगबलेन स्वस्य अङ्गाङ्गान् युधिष्ठिरस्य अङ्गाङ्गेषु अङ्गानि, इन्द्रियाणि तस्य इन्द्रियेषु, प्राणान् तस्य प्राणेषु संयुज्य युधिष्ठिरस्य शरीरे प्रवेशितवान् । तस्य निर्जीवं शरीरं पूर्ववत् वृक्षस्य साहाय्येन स्थितमासीत् । एवं साक्षात् धर्मस्य अवतारः महात्मा विदुरः धर्ममयं जीवनं यापयित्वा अन्ते धर्ममूर्तेः महाराजस्य युधिष्ठिरस्य शरीरे एव विलीनः अभवत् ।