सामग्री पर जाएँ

सदस्यः:Shashikant121

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गौः भारतीयजीवने अत्यन्तं महत्त्वपूर्णा अस्ति। अस्माकं देशे गौः मातृरूपेण पूजिता वर्तते । गौः दुग्धं शुद्ध पौष्टिकं च भवति । दुग्धात् दधि, घृतं, नवनीतं च भवन्ति। गौः शान्ता सौम्या च भवति । कृषिकर्मणि गवां सहाय्यम् अत्यधिकं भवति । ग्रामेषु प्रत्येकस्मिन् गृहे गौंः प्रायः दृश्यते । गोशाला तत् स्थानं वर्तते यत्र गवां सुव्यवस्था क्रियते । गोशालायां नित्यं तृणं, जलं, औषधं च दातव्यं भवति । गौः गोमयं कृषिभूमौ उर्वरकत्वेन प्रयुज्यते। गवां मूत्रं चिकित्सायामपि उपयोगी भवति। गौः धार्मिककर्मसु विशेषपूज्या अस्ति । गोपूजनस्य परम्परा भारतस्य बहुषु प्रदेशेषु वर्तते। गौः रक्षणं सर्वैः कर्तव्यम् । अतः गौः अस्माकं सांस्कृतिकजीवने अत्यन्तं गौरवं वहति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Shashikant121&oldid=497140" इत्यस्माद् प्रतिप्राप्तम्