सदस्यः:Shipra Ghosh
नैषधीयचरितम्-महाकाव्ये निषधदेशस्य शासकस्य नलस्य चरित्रं प्रस्तूयते । ग्रन्थेऽस्मिन् द्वाविंशतिः सर्गाः, 2830 श्लोकाश्च सन्ति। एतावतापि ग्रन्थेन नलचरितैकदेश एव वर्ण्यते; अत एव केचित्तु ग्रन्थमिमम् अपूर्णलब्धमाहुः । नलदमयन्त्योः परिणयावधिवृत्तान्तः वर्णनमय्या पद्धत्या वर्णितोऽत्र ग्रन्थे । दमयन्त्यनुरक्तः राजा नलः दमयन्तीचिन्तया दूयमानः स्वारामं पर्यटति । तत्र तेन हंसो गृह्यते दयया मुच्यते च । स एव प्रत्युपकारभावनया दमयन्तीसमीपे नलस्य स्तुतिं करोति । अनेन प्रकारेण दमयन्त्याः पूर्वरागः समुद्भूयते । दमयन्त्याः पिता विदर्भराजः स्वयंवरम् विदधाति । दमयन्तीकामुकाः देवा अपि तत्र आयान्ति । धृतनलस्वरूपः इन्द्र-यम-वायु-कुबेराः पञ्चमो नलश्चेति । सर्वेषां समरूपतया दमयन्ती विचित्रां दशां प्रपद्यते । सभावर्णनाय समागता सरस्वती श्लेषवर्णनया दमयन्तीं व्यामोहयति निर्दिशति वा । अवसाने दमयन्त्याः पातिव्रत्येन दृढानुरागेण च प्रीता देवा: स्वानि विशिष्टचिह्नानि प्रकटीकुर्वन्ति यैः नलः परिचितो च भवति । जाते पाणिग्रहे कलिप्रवेशो मुखमुद्रणं च तस्य भवति । नलदमयन्त्योः सुखसङ्गमेन च ग्रन्थः समाप्यते ।
नैषधीयचरितस्य प्रथमे सर्गे 145 श्लोकाः समुपलभ्यन्ते । छन्दशास्त्रदृष्ट्या सर्गेऽस्मिन् सर्वत्र वंशस्थछन्दः, किन्तु सर्गान्ते क्रमशः दोधक-वसन्ततिलका-शार्दूलविक्रीडितछन्दांसि त्रिषु श्लोकेषु विराजन्ते । ज्ञातव्यमस्ति यत् सर्गान्ते 'आनन्द' इति पद-प्रयोगाद् इदं काव्यम् 'आनन्दाङ्ककाव्यम्' इत्युच्यते ।