सदस्यः:Shradhanjali Moharana
दिखावट
भण्डार्करपद्धतिः –
भण्डार्करपद्धतिः व्याकरणानुवादपद्धतिः इति ज्ञायते । वेदाङ्गेषु प्रधानं व्याकरणम् । व्याकरणं वेदमन्त्रेषु स्थितानां सब्दानाम् अर्थावओधनं करोति तेषां रक्षणमपि करोति । व्याक्रियन्ते व्युत्पाद्यन्ते शब्दाः अनेन इति व्याकरणम् । भाषायाः भअध्ययने व्याकरणं मार्गदर्शकं भवति । यथा भाषायाः अध्ययनम् आजीवनं प्रचलति तथैव व्याकरमस्यापि । अष्टादश शताब्द्याः आरम्भे भारतीय शैक्षिकेतिहासे महत् परिवर्त्तनं समागतम्। फलतः शिक्षणपद्धतिषु अपि परिवर्त्तनं जातम् । तावत् पर्य्यन्तं भारतदेशे परम्परगतपद्धत्याः प्रामख्यम् आसीत् । विदेशिभाषाणाम् अध्ययनाय युरोपीयदेशेषु व्याकरणपद्धतिरित्येका नवीना पद्धतिः समागता । डॉ. रामकृष्णगोपाल भण्डारकर महोदयः पूर्वोत्कायाः, पाश्चात्यपद्धत्याः अनुगुणं पुस्तपद्वयं रचितवान् । पुस्तकद्वयं सरलतया संस्कृतभाषां व्याकरणं च अध्येतुं छात्राणामुपकारकमभूत् । एषा पद्धतिः नूतन-व्याकरणानुवाद-पद्धतिः नाम्ना ख्यातः । डॉ. भण्डार्कर महोदयेन इयं प्रथमतया प्रतिपादितत्वात् तेनैव नाम्ना भण्डार्करपद्धतिरिति अभवत् ।आधुनिकभारते अपिव्याकरणशिक्षणस्य आवश्यकता वर्तते । तद्यथा –
(1) विभिन्नशब्दरूपाणां शुद्धस्वरुपज्ञानाय ।
(2) तर्करचनाशक्तिविकासाय ।
(3) व्यवहारे भाषागतदोषनिवारणाय ।
(4) व्याकरणनियमानां ज्ञानाय ।
(5) ध्वनितत्त्वानां परिचयज्ञानाय ।
(6) भाषायां शुद्धताम् आनयनाय ।
(7) स्पष्टाभिव्यक्तिप्रदानाय ।
(8) पूर्णावबोधनाय ।
(9) स्थानप्रयत्नानुसारं वर्णानानाम् उच्चरणाय ।
(10) संस्कृतभाषायाः वैशिष्टविषये ज्ञानाय ।
(11) विशिष्ट-आङ्गलेयानांसंस्कृतशिक्षणे आभिरुत्योत्पदनाय
(12) सरल्याकरणज्ञानार्जनाय इत्यादयः ।
स्वदेशे विदेशेषु विद्यमानानां साक्षराणां कृते इयं पद्धतिः उपयुक्ता भवति । प्रत्यकस्तरीयछात्राणां कृते भाषाशिक्षणे तथा विषयशिक्षणे अपि अस्याः महत् योगदानं वर्तते ।