सदस्यः:Shrutirekha Bhol
(ग) परम्परागतपद्धतिः
(Traditional Method)
व्याकरणशिक्षणे बद्व्यः पद्धतयः विधयश्च प्रयुज्यन्ते। पद्धति-शब्दः व्यापकः, स च सम्पूर्णशिक्षाव्यवस्थां सूचयति । विधिः शब्दः पाठ्यसाधनस्संज्ञा भवति । परम्परागत- शिक्षाव्यवस्थायां ये विधयः प्रयुक्ता आसन्, ते च परम्परागतविधिरिति नाम्ना ज्ञायन्ते। इयं पद्धतिः अनादिकालात् प्रचलति । इयमस्माकं भारतीयशिक्षायाः प्रातिनिध्यं वहति। मठेषु, गुरूकुलेषु, आश्रमेषु, परिवारेषु चानयैव पद्धत्या शिक्षा प्रदीयते। इयं "स्वाध्यायप्रवचनाभ्यान्न मल्लिका प्रमदितव्यम्" इति वेदवाक्यमनुसृत्य स्वाध्यायेन, प्रवचनेनैव अद्यावधिजीवन्ती वर्तते। अत्र पद्धतौ व्याख्यानं, विवरणं स्पष्टीकरणं, कथाकथनमित्यादयः सर्वा अपि प्रणाल्यः प्रयोगे दृश्यन्ते। पाठ्यपुस्तकविधिः, सूत्रविधिः, अनौपचारिकविधिः इत्यादयः विधयोऽपि प्रयुज्यन्ते। संस्कृतादीनां भारतीयविद्यानां शिक्षणं विदेशीयशिक्षाव्यवस्थानुगुणं प्राचलत् अंग्रेजी- विद्यालयेषु ऐतिहासिक समालोचनात्मकं पाश्चात्त्यं च दृष्ट्रिकोणमाश्रित्य नवीनमार्गे संस्कृतशिक्षणं प्राचलत्। अस्याः पद्धत्याः स्वरूपं सामान्यविश्वविद्यालयेषु संस्कृतविभागेषु इदानीमप्यवलोक्यते । छात्राः आश्रमं, गुरूकुलं, मठं वा समुपेत्य शिक्षां प्राप्नुवन्। प्रथमं वेदाध्ययनं, ततः वेदाङ्गाध्ययनमिति नियमः आसीत् । गुरुशिष्यसम्बन्धः घनिष्ट: वर्तते स्म। तत्त्वावगमनमेव शिक्षायाः प्रमुखमुद्देश्यमासीत् । शिक्षणकाले गुरू एवाभिभावको भूत्वा छात्रेभ्यः सर्वविधिं कल्याणं करोति स्म।
वैयाकरण
विधयः- अस्यां पद्धतौ-पाठ्यपुस्तकविधिः, सूत्रविधिः, अनौपचारिकविधिः, मौखिक- विधिरिति बहव्यो विधयः प्रयुज्यमाना आसन्। सर्वत्रविधिषु व्याख्यानं, विवरणं, स्पष्टीकरणमित्याद्याः प्रणाल्यः प्रचारे आसन्। विशिष्ट-व्याख्यानप्रणाल्याः प्रचुरप्रयोगे आसीत्। प्रत्यक्षोदाहरणादियुक्तयोऽपि समाद्रियन्ते स्: संस्कृतशिक्षणम्
1. पाठ्यपुस्तकविधिः - पाश्चात्यशिक्षयाप्रवर्तित: कश्चनान्योऽपि विधिः पाठ्यपुस्तक- विधिरिति नाम्ना प्रथते। स च अत्र नेष्यते। अत्र विधौ पुस्तकपठनपुरस्सरं विषय-वस्तुनः पदाश: व्याख्यानं क्रियते । तत्राक्षेपः समाधानमिति क्रमः स्पष्टीकरणार्थं विविधयुक्तयः समाश्रिताः।
2. सूत्रविधिः-सूत्रमुक्तवा तस्य विस्तृतव्याख्यानमिति क्रमः। तत्र कण्ठस्थीकरणस्य अत्यधिकं महत्त्वं परिलक्ष्यते।
3. मौखिकविधिः - पुस्तकानि यावत्प्रचारे नागतानि तावदयं विधिः प्रचलितः आसीत्। अत्र बोधनं प्रधानतः मौखिकमेवासीत्। विविधप्रणालीभिः युक्तिभिश्च वाचा एव शिक्षण- प्रक्रिया-प्रवर्धिताऽभवत्।
एवं विविधविधयः परम्परागतपद्धतौ शिक्षणोपयोगिनः प्रायुज्यन्त। अस्य विधेः स्वरूपं परम्परागतसंस्कृतमहाविद्यालयेषु इदानीमप्यवलोकयितुं शक्यते।
परम्परागतपद्धत्याः उद्देश्यानि-
1. तत्त्वानामात्मसात्करणं, संस्कृतेः सम्परिवर्धनं, साङ्गोपाङ्गवेदाध्ययनम् इति प्रमुखानि उद्देश्यानि आसन्।
2. सम्प्रदायः, सभ्यता, संस्कृतिः, देशभक्तिः, आस्तिक्यभावना, मोक्षैषणा च इत्यादीनां प्रधानतया सम्पादनम्।
3. स्मरणशक्तेः चिन्तनाशक्तेश्च अभिवृद्धिः ।
4. वेदा, उपनिषदः, पुराणानि, इतिहास इत्यादीनां ज्ञानं सम्पाद्य, ईश्वर भक्तिः धार्मिकभावनयोश्च संवर्धनम्।
5. अधीतस्य नियमितरूपेणाभ्यासः, येन अर्जित ज्ञानं सदैव परिष्कृतं, नवीकृतं, उपयोगि च तिष्ठेत्।
6. शास्त्रार्थेषु निस्संकोचं प्रवेश: इति प्रमुखानि उद्देश्यानि आसन्।
7. सच्चारित्र्य सम्पादनम्।
४. चतुर्णा पुरूषार्थानां सम्पादनम्।
१. समीचीनव्यक्तित्व सम्पादनम् च ।
प्रयोगः इमामेव पद्धतिमाश्रित्याधुनिककाले संस्कृतविद्यालयाः, महाविद्यालयारच प्रचलन्ति । पाठ्यक्रमः एतदनुकूलो वर्तते। अत्र पद्धतौ संस्कृतपाठ्यक्रमः निम्नाङ्कित-रोलगा भवितुमर्हति ।
प्रथमस्तरे-अष्टवर्गपरिमितः, दशवर्गपरिमितो वा पाठ्यक्रमः भवेत् । अत्र शब्दरूपाणां, धातुरूपाणां, अमरकोशस्य, सामान्योपयोगिनां व्याकरणविषयाणां च कण्ठस्थीकरणं, सामान्य- साहित्यपरिचयश्च ।
द्वितीयस्तरे-लघुकीमुदीत्यादिभिः ग्रन्यैः प्राथमिकव्याकरणपरिचयः। संस्कृतवाङ्मयस्म सुरचयितानां गद्यानां पद्यानाञ्वाध्ययनं यत्र स्व अर्जितज्ञानस्य उपयोगः भवेत्।