सदस्यः:Shubha/महनीयानां वचांसि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

संस्कृतस्य विषये महनीयानां वचांसि

1. राष्ट्रस्य जनसामान्यानां दैनन्दिनजीवनात् संस्कृतं यदि पृथक्क्रियते तर्हि तेषां जीवनस्य प्रकाश एव लुप्तो भवेत् । तथा च हिन्दुसंस्कृतेः ये विशिष्टा गुणाः विश्वचिन्तने गौरवार्हं स्थानं प्राप्तवन्तः ते दुष्प्रभावभाजो भवेयुः । तेन च भारतस्य जगतश्च महती हानिः स्यात् ।
-सर् मिर्जा इस्मायिल्

2. संस्कृतं यस्य कस्यापि वर्गस्य अथवा वर्णस्य भाषा न । किन्तु सर्वेषां भारतीयानां भाषा अस्ति सा ।
-फक्रुद्दीन् अलि अहमद्

3. पाणिनीयव्याकरणं सूक्ष्मतर्केण कलात्मकसंयोजनेन च केवलं श्रेष्ठतां नाप्नोति । किन्तु लघुभिः शब्दैः महतः अर्थस्य बोधने तत् असमम् अस्ति ।
-डा० राजा रामण्ण

4. सर्वेषु आर्यावर्तनिवासिसज्जनेषु ममेदं निवेदनं यत् सनातनसंस्कृतविद्यायाः उध्दारः अवश्यं भवेत् । संस्कृतविद्या यदि लुप्ता भवेत् तर्हि सकलमानवानाम् अपूरणीया हानिः स्यादित्यत्र न कोऽपि संशयः । आर्यावर्तस्य स्वाभाविकी सनातनविद्या संस्कृतभाषा एव । तथैव राष्ट्रस्य कल्याणं भवेत् नान्यया । अतः विद्यास्थाने संस्कृतमेव प्रतिष्ठापनीयम् ।
-महर्षि दयानन्दसरस्वती

5. आत्मनो मेधाशक्तेरुपरि संस्कृतस्य कियान् प्रभावः विद्यते इति जनाः न जानन्ति । एकया दृष्ट्या संस्कृतम् अस्माकं राष्ट्रियं स्वं स्यात् । किन्तु तस्य उद्देश्यं तावत् विश्वव्यापि अस्ति । अत एव तत् कस्यांश्चित् विशिष्टसंस्कृतेः अननुयायिनामपि मनः आकर्षति ।
-डा. राधाकृष्णन्
6. संस्कृतं राष्ट्रियैकतायाः प्रतीकम् अथवा सारभूतमस्ति । तथा च एशियाखण्डस्य जगतः अन्यभागानां च संयोजनसूत्रमस्ति । संस्कृतं केवलं सैध्दान्तिकम् आराधनवस्तु न । जीवितरुपेण समृध्दभाषारुपेणा च तस्य अध्ययनं प्रसारः च कवेः कालिदासस्य श्रध्दाञ्जलिमात्रं न अपि तु भविष्यदर्थम् आत्मानं सिध्दं कर्तुम् उपक्रमश्च वर्तते ।
-के.आर्. नारायणन्

7. भारतस्य महानिधिः कः ? सर्वोत्कृष्टं परम्परागतं धनं च किमिति कोऽपि मां पृच्छति चेत् मम उत्तरं स्यात् ‘संस्कृतभाषा, संस्कृतसाहित्यं, तथा च तत्सम्बध्दं सर्वमपि वाङ्मयं महावित्तग्रन्थिरिव अस्ति’ इति । यावत् संस्कृतस्य प्रभावः अस्माकं जीवितेषु भवति तावत् भारतस्य आधारभूता विशिष्टता अनुवर्तेत । भारतीयजनता बौध्दसाहित्यम्, उपनिषदः, रामायणं, महाभारतं, महाकाव्यानि च विस्मरति यदि, तर्हि भारतं भारतं न स्यात् ।
-जवहरलाल नेहरु

8. भारतीयानां विविधप्रादेशिकभाषाणाम् उच्चारणशुद्धिः अर्थगौरवं पदलालित्यम् इत्यादीनि भाषाकौशलानि संस्कृताभ्यासेन एव सम्यग्रूपेण प्राप्यन्ते । अलङ्कार-समास-छन्दः-प्रभृतीनि शौलीवैशिष्ट्यानि संस्कृतं विना सुरसानि न भवन्ति, यतः अस्माकं मातृभाषायाः संस्कृतस्य च रक्तसम्बन्धः अस्ति । भाषाप्रभुत्वं सुसंस्कृतराष्ट्रस्य प्रथमं लक्षणम् । एतया दृष्ट्या चिन्त्यमाने अवश्यं वक्तव्यं भवति यत् संस्कृताध्ययनं प्राणपोषकम् एव ।
-लज्जारामतोमरः

9. संस्कृतभाषा मानवस्य बुध्दिमत्तया विकासितं सर्वोत्कृष्टं, सर्वप्रमुखम्, अतिसमृध्दम्, अधिकसम्पद्भरितं च साहित्यिकसाधनमिति विवेचनशीलनिर्णायकानाम् अभिव्यापि मन्तव्यम् ।
-श्री अरविन्दः

10. यूरोपदेशस्य संस्कृतसाहित्यविषये बौध्दिकम् ऋणं नूनम् अत्यधिकमस्ति । आगामिनि काले अस्य वृध्दिः सम्भावनीया । इदानीं तु यूरोपदेशीयाः वयम् अस्माकं वर्णमालायाः पूरणे एव मन्दक्रियाः स्मः ।
-प्रो० मेक्डोनेल्

11. ग्रीक्भाषाया अपि अधिकं परिपूर्णायाः, ल्याटिन्भाषायाश्च व्यापिकायाः, द्वयोरप्यनयोः अपेक्षया परिष्कृतायाः संस्कृतभाषायाः संरचना आश्चर्यं जनयति । हिन्दुसाहित्यस्य समग्रं परिचयं प्राप्तुं मानवस्य जीवितकालम् अपर्याप्तमेव ।
-सर्. विल्लियं जोन्स्

12. संस्कृतं जगतः महत्तमभाषा वर्तते ।
::::-म्याक्स् म्यूलर्

13. भारतं मानवजातेः मातृभूमिः । संस्कृतं च यूरोपभाषाणां जननी भारतमाता बहुशः सर्वेषामस्माकं जननी एवास्ति ।
-विल् ड्यूराण्ट्

14. पूर्वं संस्कृतं जगतः एकमात्रभाषा आसीत् । ग्रीक्-ल्याटिन्-भाषयोरपेक्षया संस्कृतं परिष्कृतं समृध्दं च वर्तते ।
- प्रो. बाप् (Prof.Bopp)

15. संस्कृतं यूरोपदेशस्य आधुनिकभाषाणां जननी वर्तते ।
- डूबाय्स् (Mr.Dubois)

16. अस्माभिः उपलक्ष्यमाणे भाषाविकासे संस्कृतं परां काष्ठां प्राप्नोति ।
-विल्हेम् वोन् हम्बोल्ट् (Wilhelm von Humboldt)

17. भारते जातः सर्वोपि शिशुः संस्कृतं जानीयात् । सः राष्ट्रियां भाषां (संस्कृतं) जानीयादेव ।
-मदर् (The Mother)

18. सुधीर्घकालं यावत् ज्ञानस्य प्रतिष्ठा तदा भवति यदा तेन सह संस्कृतिः योजिता भवति । केवलेन ज्ञानेन अवरवर्णानाम् उन्नतिः नैव सिध्यति । सा तु संस्कृताभ्यासेन एव सिध्यति ।
-स्वामी विवेकानन्दः

19. भारतीयसाहित्यस्य परिचयेन अतिप्राचीनकालस्य महतो राष्ट्रस्य परिचयः अस्माकं भवति । तस्य च राष्ट्रस्य विज्ञानस्य एकैकापि शाखा सुविदितास्ति । मानवजातेः विकासस्य इतिहासे एतत् राष्ट्रं विशिष्टं स्थानं सर्वकालेषु प्राप्नोति ।
-माग्नस् ब्जोर्न्स्जेर्न् (Magnus Bjornstjerna)

20. संस्कृतं सर्वातिशायिनी काचन कृतकभाषा । प्रतिशब्दं सावधानं परिष्कृता/ संस्कृता …….. एषा भौतिक-मानसिक-बौध्दिक- आध्यात्मिकस्तरेषु प्रोता वर्तते । वस्तूनि आध्यात्मिकदृष्ट्या भौतिकदृष्ट्या च वर्णयितुं धारयितुं च योग्या भाषा एषा । एवम् अस्याः व्यापकः उपयोगः एताम् अत्यन्तं कृतकां भाषाम् अत्यन्तं सहजां विधाय सर्वसहजामिमां करोति ।
-जीन् ले मी (Jean Le Mee)

21. संस्कृतमिति शब्दस्य ‘परिपूर्णः’ परिष्कृतः’ इत्यर्थः । अतिविस्तृता संस्कृतभाषा कृतकवद् भासमानापि ध्यानस्य विविधदशाः, चैतन्यस्य अन्तःकरणस्य च विविधावस्थाः, अध्यात्मप्रवृत्तीः बुध्देः कार्याणि च विवरीतुं समर्था । अस्या भाषायाः शब्दस्म्पत्तिः बहुमुखी विपुला च । अनेकशताब्देभ्यः छन्दोबध्दपद्यरचनायाः अत्युत्तमा भाषास्ति एषा । एवं च भारतीयसंस्कृतौ संस्कृतवाङ्मये च पद्यरचनायाः अतिविशिष्टं स्थानं विद्यते ।
-जार्जस् इफ्रा (Georges Ifrah)

22. यद्यपि संस्कृतभाषायाः यशः अस्याः विशिष्टतायाः कारणेन सीमितं, तथापि पाणिनिप्रणीतं व्याकरणं कस्या अपि पुरातननागरिकतायाः साधनेषु अत्युत्कृष्टं साधनमस्ति । नवदशशताब्दात् पूर्वं जगतः सर्वेषु भागेषु प्रणीतेषु व्याकरणेषु अत्यन्तं विस्तृतं शास्त्रीयं चास्ति पाणिनीयम् ।
-प्रो ए एल् भाषम्

23. भारतस्य संस्कृतिः जगति अतिविशिष्टा अस्ति यतः, तस्याः प्रधानमनुशासनमस्ति संस्कृतभाषया या च सम्यक् व्यापृता अस्ति । ग्रीक्भाषायां यथा व्याकरणस्य ‘grammatike’ इति शब्दः प्रतिपदमेकं पदम् अथवा प्रतिलेखमेकं पदम् इत्यर्थं द्योतयति तद्वत् संस्कृतस्य व्याकरणमिति शब्दस्य अर्थः नास्ति । ‘व्याक्रियन्ते पदानि अस्मिन्’ इति व्याकरणशब्दस्य व्युत्पत्तिः । अतः अस्या भाषायाः शब्दानां विश्लेषणं परां काष्ठां गतमस्ति ।
-निकोलस् ओस्लर् (Nicholas Ostler)

24. विश्वे संस्कृतभाषायां विद्यमाना विशदता वा सूक्ष्मतया कृतं व्याकरणं वा अन्यस्यां भाषायां -ग्रीकभाषायामपि –नैव द्र्ष्टुं शक्यते । भारतं न केवलं सर्वस्यापि मूलं किन्तु बौध्दिक-धार्मिक-राजनैतिकविषयेषु सर्वत्रापि अत्युत्कृष्टं वर्तते । भारतीयसंस्कृत्याः पुरतः ग्रीकसंस्कृतिरपि म्लाना एव दृश्यते ।
-फ्रेड्रिक् वोन् श्लेजेल् (Frederich von Schlegel)

25. संस्कृतं प्रायः अतिमुख्यः केन्द्रबिन्दुः यत्र सांस्कृतिकः राजनैतिकश्च समागमः प्रभवति ।
-डा.राजेन्द्रप्रसादः

26. संस्कृतभाषा अद्भुतानाम् अद्भुतं, जनतायाः बुध्दिशक्तेः समाहारः, शीलस्य प्रतिरुपं च वर्तते । अस्याः भारतभूमेः जनानां विशिष्टतायाः सामाजिकव्यवस्थायाः, धर्मस्य च दर्पण इवास्ति । अस्याः भाषायाः विस्तारः, महान् शब्दराशिः, विद्यमानमविद्यमानं सर्वं वक्तुं क्षमता च एतां सर्वासां भाषाणां भाषां विदधाति । एषा देवानां भाषा, सङ्कुचितस्वभावानां, सीमिताशयानां तिरोहितदृष्टीनां मर्त्यानां च भाषा वर्तते ।
-उपेन्द्रमोहनः

27. संस्कृतं समग्रस्य भारतस्य परम्परागतः दायः । संस्कृतात्, संस्कृतसम्प्रदायेभ्यश्च विच्छिन्नं भारतं नूनं विशीर्येत ।
-सर्दार् के एम् पणिक्कर्

28. संस्कृतस्य अभिवृध्दिः राष्ट्रस्य शक्तिम् ऎक्यं च वर्धयति । संस्कृतेः आधारभूता संस्कृतभाषा विज्ञान- तत्त्वज्ञान- साहित्यादीनाम् आकरः अस्ति । संस्कृतस्थाः वैज्ञानिकविषयाः प्रादेशिकभाषाभिः अनूदिताः चेत् विश्वस्य एव हितं भवेत् । संस्कृतोन्नत्यर्थं शासनेन समाजेन चापि विशेषप्रयत्नाः करणीयाः ।
-शङ्करदयालशर्मा

29. भारतीय –प्रशासनिकसेवासु संस्कृतस्य सहभागः अधिकः भवेत् येन भारतीयः समाजः नूतनं चिन्तनं, मार्गदर्शनं, स्वकीयां वास्तविकतां च ज्ञातुं शक्नुयात् ।
-के पि मेनन्

३०. संस्कृतं ज्ञानविज्ञानयोः निधिः अस्ति । अत्र गणितं चिकित्साविज्ञानं, जीवविज्ञानं, वनस्पतिविज्ञानम् इत्यादयः शिल्पसङ्गीतादयः च सन्निहिताः सन्ति । विज्ञानविद्यार्थिनः प्राचीनसमुन्नतविज्ञानम् अपि यथा जानीयुः तथा विज्ञानविषयैः सह संस्कृतस्यापि अध्यापनम् अनिवार्यं स्यात् ।
-डा. मुरलीमनोहरजोशी

३१. प्रगतविज्ञानसाधनानां प्रभावेण अधुना विश्वे मिश्रितसंस्कृतिः सर्वत्र दृश्यते । अतः शुद्धमानवतायाः सन्देशं वहन्ती संस्कृतभाषा नागरिकाणाम् आदरपात्रं भवति । विज्ञानक्षेत्रे अपि सङ्गणकयन्त्रेषु संस्कृतस्य आदरः अस्तीत्यतः संस्कृतस्य महत्त्वं वर्धितम् एव । अतः संस्कृतज्ञैः नैराश्यं परित्यज्य संस्कृतस्य गभीरतराध्ययनगवेषणाय प्रयत्नः विधातव्यः ।
-प्रो. वसिष्ठनारायण झा

(अत्र निर्दिष्टानां महनीयानां विषये अपि लेखाः यथा स्युः तथा प्रयत्नं करिष्ये ।)